व्यास उवाच:
तपसा कर्मभिश्चैव प्रदानेन च भारत |
१ क
व्यास उवाच:
पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते ||
१ ख
व्यास उवाच:
एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् |
२ क
व्यास उवाच:
कपालपाणिः खट्वाङ्गी व्रह्मचारी सदोत्थितः ||
२ ख
व्यास उवाच:
अनसूय़ुरधःशाय़ी कर्म लोके प्रकाशय़न् |
३ क
व्यास उवाच:
पूर्णैर्द्वादशभिर्वर्षैर्व्रह्महा विप्रमुच्यते ||
३ ख
व्यास उवाच:
षड्भिर्वर्षैः कृच्छ्रभोजी व्रह्महा पूय़ते नरः |
४ क
व्यास उवाच:
मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते ||
४ ख
व्यास उवाच:
संवत्सरेण मासाशी पूय़ते नात्र संशय़ः |
५ क
व्यास उवाच:
तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते ||
५ ख
व्यास उवाच:
क्रतुना चाश्वमेधेन पूय़ते नात्र संशय़ः |
६ क
व्यास उवाच:
य चास्यावभृथे स्नान्ति केचिदेवंविधा नराः ||
६ ख
व्यास उवाच:
ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः |
७ क
व्यास उवाच:
व्राह्मणार्थे हतो युद्धे मुच्यते व्रह्महत्यया ||
७ ख
व्यास उवाच:
गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादय़न् |
८ क
व्यास उवाच:
व्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ||
८ ख
व्यास उवाच:
कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् |
९ क
व्यास उवाच:
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ||
९ ख
व्यास उवाच:
गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशय़े |
१० क
व्यास उवाच:
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्विषात् ||
१० ख
व्यास उवाच:
शतं तै यस्तु काम्वोजान्व्राह्मणेभ्यः प्रय़च्छति |
११ क
व्यास उवाच:
निय़तेभ्यो महीपाल स च पापात्प्रमुच्यते ||
११ ख
व्यास उवाच:
मनोरथं तु यो दद्यादेकस्मा अपि भारत |
१२ क
व्यास उवाच:
न कीर्तय़ेत दत्त्वा यः स च पापात्प्रमुच्यते ||
१२ ख
व्यास उवाच:
सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिवेद्द्विजः |
१३ क
व्यास उवाच:
स पावय़त्यथात्मानमिह लोके परत्र च ||
१३ ख
व्यास उवाच:
मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् |
१४ क
व्यास उवाच:
महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्विषैः ||
१४ ख
व्यास उवाच:
वृहस्पतिसवेनेष्ट्वा सुरापो व्राह्मणः पुनः |
१५ क
व्यास उवाच:
समितिं व्राह्मणैर्गच्छेदिति वै व्राह्मणी श्रुतिः ||
१५ ख
व्यास उवाच:
भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः |
१६ क
व्यास उवाच:
पुनर्न च पिवेद्राजन्संस्कृतः शुध्यते नरः ||
१६ ख
व्यास उवाच:
गुरुतल्पी शिलां तप्तामाय़सीमधिसंविशेत् |
१७ क
व्यास उवाच:
पाणावाधाय़ वा शेफं प्रव्रजेदूर्ध्वदर्शनः ||
१७ ख
व्यास उवाच:
शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात् |
१८ क
व्यास उवाच:
कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रिय़ः ||
१८ ख
व्यास उवाच:
महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु |
१९ क
व्यास उवाच:
गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ||
१९ ख
व्यास उवाच:
अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा |
२० क
व्यास उवाच:
उपहृत्य प्रिय़ं तस्मै तस्मात्पापात्प्रमुच्यते ||
२० ख
व्यास उवाच:
अवकीर्णिनिमित्तं तु व्रह्महत्याव्रतं चरेत् |
२१ क
व्यास उवाच:
खरचर्मवासाः षण्मासं तथा मुच्येत किल्विषात् ||
२१ ख
व्यास उवाच:
परदारापहारी च परस्यापहरन्वसु |
२२ क
व्यास उवाच:
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्विषात् ||
२२ ख
व्यास उवाच:
स्तेय़ं तु यस्यापहरेत्तस्मै दद्यात्समं वसु |
२३ क
व्यास उवाच:
विविधेनाभ्युपाय़ेन तेन मुच्येत किल्विषात् ||
२३ ख
व्यास उवाच:
कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम् |
२४ क
व्यास उवाच:
परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत ||
२४ ख
व्यास उवाच:
निवेश्यं तु भवेत्तेन सदा तारय़िता पितॄन् |
२५ क
व्यास उवाच:
न तु स्त्रिय़ा भवेद्दोषो न तु सा तेन लिप्यते ||
२५ ख
व्यास उवाच:
भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीय़ते |
२६ क
व्यास उवाच:
स्त्रिय़स्तेन विशुध्यन्ति इति धर्मविदो विदुः ||
२६ ख
व्यास उवाच:
स्त्रिय़स्त्वाशङ्किताः पापैर्नोपगम्या हि जानता |
२७ क
व्यास उवाच:
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ||
२७ ख
व्यास उवाच:
चतुष्पात्सकलो धर्मो व्राह्मणानां विधीय़ते |
२८ क
व्यास उवाच:
पादावकृष्टो राजन्ये तथा धर्मो विधीय़ते ||
२८ ख
व्यास उवाच:
तथा वैश्ये च शूद्रे च पादः पादो विधीय़ते |
२९ क
व्यास उवाच:
विद्यादेवंविधेनैषां गुरुलाघवनिश्चय़म् ||
२९ ख
व्यास उवाच:
तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्वहून् |
३० क
व्यास उवाच:
त्रिरात्रं वाय़ुभक्षः स्यात्कर्म च प्रथय़ेन्नरः ||
३० ख
व्यास उवाच:
अगम्यागमने राजन्प्राय़श्चित्तं विधीय़ते |
३१ क
व्यास उवाच:
आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशाय़िना ||
३१ ख
व्यास उवाच:
एष एव तु सर्वेषामकार्याणां विधिर्भवेत् |
३२ क
व्यास उवाच:
व्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ||
३२ ख
व्यास उवाच:
सावित्रीमप्यधीय़ानः शुचौ देशे मिताशनः |
३३ क
व्यास उवाच:
अहिंस्रोऽमन्दकोऽजल्पन्मुच्यते सर्वकिल्विषैः ||
३३ ख
व्यास उवाच:
अहःसु सततं तिष्ठेदभ्याकाशं निशि स्वपेत् |
३४ क
व्यास उवाच:
त्रिरह्नस्त्रिर्निशाय़ाश्च सवासा जलमाविशेत् ||
३४ ख
व्यास उवाच:
स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः |
३५ क
व्यास उवाच:
पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ||
३५ ख
व्यास उवाच:
शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः |
३६ क
व्यास उवाच:
अतिरिच्येत्तय़ोर्यत्तु तत्कर्ता लभते फलम् ||
३६ ख
व्यास उवाच:
तस्माद्दानेन तपसा कर्मणा च शुभं फलम् |
३७ क
व्यास उवाच:
वर्धय़ेदशुभं कृत्वा यथा स्यादतिरेकवान् ||
३७ ख
व्यास उवाच:
कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् |
३८ क
व्यास उवाच:
दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्विषात् ||
३८ ख
व्यास उवाच:
अनुरूपं हि पापस्य प्राय़श्चित्तमुदाहृतम् |
३९ क
व्यास उवाच:
महापातकवर्जं तु प्राय़श्चित्तं विधीय़ते ||
३९ ख
व्यास उवाच:
भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च |
४० क
व्यास उवाच:
अज्ञानज्ञानय़ो राजन्विहितान्यनुजानते ||
४० ख
व्यास उवाच:
जानता तु कृतं पापं गुरु सर्वं भवत्युत |
४१ क
व्यास उवाच:
अज्ञानात्स्खलिते दोषे प्राय़श्चित्तं विधीय़ते ||
४१ ख
व्यास उवाच:
शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् |
४२ क
व्यास उवाच:
आस्तिके श्रद्दधाने तु विधिरेष विधीय़ते ||
४२ ख
व्यास उवाच:
नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन |
४३ क
व्यास उवाच:
दम्भदोषप्रधानेषु विधिरेष न दृश्यते ||
४३ ख
व्यास उवाच:
शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर |
४४ क
व्यास उवाच:
सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना ||
४४ ख
व्यास उवाच:
स राजन्मोक्ष्यसे पापात्तेन पूर्वेण हेतुना |
४५ क
व्यास उवाच:
त्राणार्थं वा वधेनैषामथ वा नृपकर्मणा ||
४५ ख
व्यास उवाच:
अथ वा ते घृणा काचित्प्राय़श्चित्तं चरिष्यसि |
४६ क
व्यास उवाच:
मा त्वेवानार्यजुष्टेन कर्मणा निधनं गमः ||
४६ ख