chevron_left अनुशासन पर्व अध्याय ३६
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
भीष्म उवाच:
शक्रशम्वरसंवादं तन्निवोध युधिष्ठिर ||
१ ख
भीष्म उवाच:
शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः |
२ क
भीष्म उवाच:
विरूपं रूपमास्थाय़ प्रश्नं पप्रच्छ शम्वरम् ||
२ ख
भीष्म उवाच:
केन शम्वर वृत्तेन स्वजात्यानधितिष्ठसि |
३ क
भीष्म उवाच:
श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रव्रूहि पृच्छतः ||
३ ख
शम्वर उवाच:
नासूय़ामि सदा विप्रान्व्रह्माणं च पितामहम् |
४ क
शम्वर उवाच:
शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ||
४ ख
शम्वर उवाच:
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् |
५ क
शम्वर उवाच:
अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम् ||
५ ख
शम्वर उवाच:
ते विश्रव्धाः प्रभाषन्ते संय़च्छन्ति च मां सदा |
६ क
शम्वर उवाच:
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ||
६ ख
शम्वर उवाच:
ते मा शास्त्रपथे युक्तं व्रह्मण्यमनसूय़कम् |
७ क
शम्वर उवाच:
समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ||
७ ख
शम्वर उवाच:
यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधय़ा |
८ क
शम्वर उवाच:
समाधिमात्मनो नित्यमनुलोममचिन्तय़न् ||
८ ख
शम्वर उवाच:
सोऽहं वागग्रसृष्टानां रसानामवलेहकः |
९ क
शम्वर उवाच:
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ||
९ ख
शम्वर उवाच:
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् |
१० क
शम्वर उवाच:
यद्व्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ||
१० ख
शम्वर उवाच:
एतत्कारणमाज्ञाय़ दृष्ट्वा देवासुरं पुरा |
११ क
शम्वर उवाच:
युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत ||
११ ख
शम्वर उवाच:
दृष्ट्वा च व्राह्मणानां तु महिमानं महात्मनाम् |
१२ क
शम्वर उवाच:
पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम् ||
१२ ख
सोम उवाच:
व्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्वलाः सदा |
१३ क
सोम उवाच:
भुजवीर्या हि राजानो वागस्त्राश्च द्विजातय़ः ||
१३ ख
सोम उवाच:
प्रवसन्वाप्यधीय़ीत वह्वीर्दुर्वसतीर्वसन् |
१४ क
सोम उवाच:
निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः ||
१४ ख
सोम उवाच:
अपि चेज्जातिसम्पन्नः सर्वान्वेदान्पितुर्गृहे |
१५ क
सोम उवाच:
श्लाघमान इवाधीय़ेद्ग्राम्य इत्येव तं विदुः ||
१५ ख
सोम उवाच:
भूमिरेतौ निगिरति सर्पो विलशय़ानिव |
१६ क
सोम उवाच:
राजानं चाप्ययोद्धारं व्राह्मणं चाप्रवासिनम् ||
१६ ख
सोम उवाच:
अतिमानः श्रिय़ं हन्ति पुरुषस्याल्पमेधसः |
१७ क
सोम उवाच:
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ||
१७ ख
सोम उवाच:
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् |
१८ क
सोम उवाच:
व्राह्मणान्पूजय़ामास तथैवाहं महाव्रतान् ||
१८ ख
भीष्म उवाच:
श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् |
१९ क
भीष्म उवाच:
द्विजान्सम्पूजय़ामास महेन्द्रत्वमवाप च ||
१९ ख