chevron_left आश्वमेधिक पर्व अध्याय ३६
व्रह्मो उवाच:
तदव्यक्तमनुद्रिक्तं सर्वव्यापि ध्रुवं स्थिरम् |
१ क
व्रह्मो उवाच:
नवद्वारं पुरं विद्यात्त्रिगुणं पञ्चधातुकम् ||
१ ख
व्रह्मो उवाच:
एकादशपरिक्षेपं मनो व्याकरणात्मकम् |
२ क
व्रह्मो उवाच:
वुद्धिस्वामिकमित्येतत्परमेकादशं भवेत् ||
२ ख
व्रह्मो उवाच:
त्रीणि स्रोतांसि यान्यस्मिन्नाप्याय़न्ते पुनः पुनः |
३ क
व्रह्मो उवाच:
प्रणाड्यस्तिस्र एवैताः प्रवर्तन्ते गुणात्मिकाः ||
३ ख
व्रह्मो उवाच:
तमो रजस्तथा सत्त्वं गुणानेतान्प्रचक्षते |
४ क
व्रह्मो उवाच:
अन्योन्यमिथुनाः सर्वे तथान्योन्यानुजीविनः ||
४ ख
व्रह्मो उवाच:
अन्योन्यापाश्रय़ाश्चैव तथान्योन्यानुवर्तिनः |
५ क
व्रह्मो उवाच:
अन्योन्यव्यतिषक्ताश्च त्रिगुणाः पञ्च धातवः ||
५ ख
व्रह्मो उवाच:
तमसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः |
६ क
व्रह्मो उवाच:
रजसश्चापि सत्त्वं स्यात्सत्त्वस्य मिथुनं तमः ||
६ ख
व्रह्मो उवाच:
निय़म्यते तमो यत्र रजस्तत्र प्रवर्तते |
७ क
व्रह्मो उवाच:
निय़म्यते रजो यत्र सत्त्वं तत्र प्रवर्तते ||
७ ख
व्रह्मो उवाच:
नैशात्मकं तमो विद्यात्त्रिगुणं मोहसञ्ज्ञितम् |
८ क
व्रह्मो उवाच:
अधर्मलक्षणं चैव निय़तं पापकर्मसु ||
८ ख
व्रह्मो उवाच:
प्रवृत्त्यात्मकमेवाहू रजः पर्याय़कारकम् |
९ क
व्रह्मो उवाच:
प्रवृत्तं सर्वभूतेषु दृश्यतोत्पत्तिलक्षणम् ||
९ ख
व्रह्मो उवाच:
प्रकाशं सर्वभूतेषु लाघवं श्रद्दधानता |
१० क
व्रह्मो उवाच:
सात्त्विकं रूपमेवं तु लाघवं साधुसंमितम् ||
१० ख
व्रह्मो उवाच:
एतेषां गुणतत्त्वं हि वक्ष्यते हेत्वहेतुभिः |
११ क
व्रह्मो उवाच:
समासव्यासय़ुक्तानि तत्त्वतस्तानि वित्त मे ||
११ ख
व्रह्मो उवाच:
संमोहोऽज्ञानमत्यागः कर्मणामविनिर्णय़ः |
१२ क
व्रह्मो उवाच:
स्वप्नः स्तम्भो भय़ं लोभः शोकः सुकृतदूषणम् ||
१२ ख
व्रह्मो उवाच:
अस्मृतिश्चाविपाकश्च नास्तिक्यं भिन्नवृत्तिता |
१३ क
व्रह्मो उवाच:
निर्विशेषत्वमन्धत्वं जघन्यगुणवृत्तिता ||
१३ ख
व्रह्मो उवाच:
अकृते कृतमानित्वमज्ञाने ज्ञानमानिता |
१४ क
व्रह्मो उवाच:
अमैत्री विकृतो भावो अश्रद्धा मूढभावना ||
१४ ख
व्रह्मो उवाच:
अनार्जवमसञ्ज्ञत्वं कर्म पापमचेतना |
१५ क
व्रह्मो उवाच:
गुरुत्वं सन्नभावत्वमसितत्वमवाग्गतिः ||
१५ ख
व्रह्मो उवाच:
सर्व एते गुणा विप्रास्तामसाः सम्प्रकीर्तिताः |
१६ क
व्रह्मो उवाच:
ये चान्ये निय़ता भावा लोकेऽस्मिन्मोहसञ्ज्ञिताः ||
१६ ख
व्रह्मो उवाच:
तत्र तत्र निय़म्यन्ते सर्वे ते तामसा गुणाः |
१७ क
व्रह्मो उवाच:
परिवादकथा नित्यं देवव्राह्मणवैदिकाः ||
१७ ख
व्रह्मो उवाच:
अत्यागश्चाभिमानश्च मोहो मन्युस्तथाक्षमा |
१८ क
व्रह्मो उवाच:
मत्सरश्चैव भूतेषु तामसं वृत्तमिष्यते ||
१८ ख
व्रह्मो उवाच:
वृथारम्भाश्च ये केचिद्वृथादानानि यानि च |
१९ क
व्रह्मो उवाच:
वृथाभक्षणमित्येतत्तामसं वृत्तमिष्यते ||
१९ ख
व्रह्मो उवाच:
अतिवादोऽतितिक्षा च मात्सर्यमतिमानिता |
२० क
व्रह्मो उवाच:
अश्रद्दधानता चैव तामसं वृत्तमिष्यते ||
२० ख
व्रह्मो उवाच:
एवंविधास्तु ये केचिल्लोकेऽस्मिन्पापकर्मिणः |
२१ क
व्रह्मो उवाच:
मनुष्या भिन्नमर्यादाः सर्वे ते तामसा जनाः ||
२१ ख
व्रह्मो उवाच:
तेषां योनिं प्रवक्ष्यामि निय़तां पापकर्मणाम् |
२२ क
व्रह्मो उवाच:
अवाङ्निरय़भावाय़ तिर्यङ्निरय़गामिनः ||
२२ ख
व्रह्मो उवाच:
स्थावराणि च भूतानि पशवो वाहनानि च |
२३ क
व्रह्मो उवाच:
क्रव्यादा दन्दशूकाश्च कृमिकीटविहङ्गमाः ||
२३ ख
व्रह्मो उवाच:
अण्डजा जन्तवो ये च सर्वे चापि चतुष्पदाः |
२४ क
व्रह्मो उवाच:
उन्मत्ता वधिरा मूका ये चान्ये पापरोगिणः ||
२४ ख
व्रह्मो उवाच:
मग्नास्तमसि दुर्वृत्ताः स्वकर्मकृतलक्षणाः |
२५ क
व्रह्मो उवाच:
अवाक्स्रोतस इत्येते मग्नास्तमसि तामसाः ||
२५ ख
व्रह्मो उवाच:
तेषामुत्कर्षमुद्रेकं वक्ष्याम्यहमतः परम् |
२६ क
व्रह्मो उवाच:
यथा ते सुकृताँल्लोकाँल्लभन्ते पुण्यकर्मिणः ||
२६ ख
व्रह्मो उवाच:
अन्यथा प्रतिपन्नास्तु विवृद्धा ये च कर्मसु |
२७ क
व्रह्मो उवाच:
स्वकर्मनिरतानां च व्राह्मणानां शुभैषिणाम् ||
२७ ख
व्रह्मो उवाच:
संस्कारेणोर्ध्वमाय़ान्ति यतमानाः सलोकताम् |
२८ क
व्रह्मो उवाच:
स्वर्गं गच्छन्ति देवानामित्येषा वैदिकी श्रुतिः ||
२८ ख
व्रह्मो उवाच:
अन्यथा प्रतिपन्नास्तु विवृद्धाः स्वेषु कर्मसु |
२९ क
व्रह्मो उवाच:
पुनरावृत्तिधर्माणस्ते भवन्तीह मानुषाः ||
२९ ख
व्रह्मो उवाच:
पापय़ोनिं समापन्नाश्चण्डाला मूकचूचुकाः |
३० क
व्रह्मो उवाच:
वर्णान्पर्याय़शश्चापि प्राप्नुवन्त्युत्तरोत्तरम् ||
३० ख
व्रह्मो उवाच:
शूद्रय़ोनिमतिक्रम्य ये चान्ये तामसा गुणाः |
३१ क
व्रह्मो उवाच:
स्रोतोमध्ये समागम्य वर्तन्ते तामसे गुणे ||
३१ ख
व्रह्मो उवाच:
अभिषङ्गस्तु कामेषु महामोह इति स्मृतः |
३२ क
व्रह्मो उवाच:
ऋषय़ो मुनय़ो देवा मुह्यन्त्यत्र सुखेप्सवः ||
३२ ख
व्रह्मो उवाच:
तमो मोहो महामोहस्तामिस्रः क्रोधसञ्ज्ञितः |
३३ क
व्रह्मो उवाच:
मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते ||
३३ ख
व्रह्मो उवाच:
भावतो गुणतश्चैव योनितश्चैव तत्त्वतः |
३४ क
व्रह्मो उवाच:
सर्वमेतत्तमो विप्राः कीर्तितं वो यथाविधि ||
३४ ख
व्रह्मो उवाच:
को न्वेतद्वुध्यते साधु को न्वेतत्साधु पश्यति |
३५ क
व्रह्मो उवाच:
अतत्त्वे तत्त्वदर्शी यस्तमसस्तत्त्वलक्षणम् ||
३५ ख
व्रह्मो उवाच:
तमोगुणा वो वहुधा प्रकीर्तिता; यथावदुक्तं च तमः परावरम् |
३६ क
व्रह्मो उवाच:
नरो हि यो वेद गुणानिमान्सदा; स तामसैः सर्वगुणैः प्रमुच्यते ||
३६ ख