chevron_left आश्रमवासिक पर्व अध्याय ३६
जनमेजय़ उवाच:
वनवासं गते विप्र धृतराष्ट्रे महीपतौ |
१ क
जनमेजय़ उवाच:
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ||
१ ख
जनमेजय़ उवाच:
विदुरे चापि संसिद्धे धर्मराजं व्यपाश्रिते |
२ क
जनमेजय़ उवाच:
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ||
२ ख
जनमेजय़ उवाच:
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह |
३ क
जनमेजय़ उवाच:
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ||
३ ख
जनमेजय़ उवाच:
वनवासे च कौरव्यः किय़न्तं कालमच्युतः |
४ क
जनमेजय़ उवाच:
युधिष्ठिरो नरपतिर्न्यवसत्सजनो द्विज ||
४ ख
जनमेजय़ उवाच:
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो |
५ क
जनमेजय़ उवाच:
सान्तःपुरा महात्मान इति तद्व्रूहि मेऽनघ ||
५ ख
वैशम्पाय़न उवाच:
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः |
६ क
वैशम्पाय़न उवाच:
विविधान्यन्नपानानि विश्राम्यानुभवन्ति ते ||
६ ख
वैशम्पाय़न उवाच:
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरा वने |
७ क
वैशम्पाय़न उवाच:
अथ तत्रागमद्व्यासो यथोक्तं ते मय़ानघ ||
७ ख
वैशम्पाय़न उवाच:
तथा तु तेषां सर्वेषां कथाभिर्नृपसंनिधौ |
८ क
वैशम्पाय़न उवाच:
व्यासमन्वासतां राजन्नाजग्मुर्मुनय़ोऽपरे ||
८ ख
वैशम्पाय़न उवाच:
नारदः पर्वतश्चैव देवलश्च महातपाः |
९ क
वैशम्पाय़न उवाच:
विश्वावसुस्तुम्वुरुश्च चित्रसेनश्च भारत ||
९ ख
वैशम्पाय़न उवाच:
तेषामपि यथान्याय़ं पूजां चक्रे महामनाः |
१० क
वैशम्पाय़न उवाच:
धृतराष्ट्राभ्यनुज्ञातः कुरुराजो युधिष्ठिरः ||
१० ख
वैशम्पाय़न उवाच:
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् |
११ क
वैशम्पाय़न उवाच:
आसनेष्वथ पुण्येषु वर्हिष्केषु वरेषु च ||
११ ख
वैशम्पाय़न उवाच:
तेषु तत्रोपविष्टेषु स तु राजा महामतिः |
१२ क
वैशम्पाय़न उवाच:
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वहः ||
१२ ख
वैशम्पाय़न उवाच:
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा |
१३ क
वैशम्पाय़न उवाच:
स्त्रिय़श्चान्यास्तथान्याभिः सहोपविविशुस्ततः ||
१३ ख
वैशम्पाय़न उवाच:
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप |
१४ क
वैशम्पाय़न उवाच:
ऋषीणां च पुराणानां देवासुरविमिश्रिताः ||
१४ ख
वैशम्पाय़न उवाच:
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् |
१५ क
वैशम्पाय़न उवाच:
प्रोवाच वदतां श्रेष्ठः पुनरेव स तद्वचः |
१५ ख
वैशम्पाय़न उवाच:
प्रीय़माणो महातेजाः सर्ववेदविदां वरः ||
१५ ग
वैशम्पाय़न उवाच:
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् |
१६ क
वैशम्पाय़न उवाच:
दह्यमानस्य शोकेन तव पुत्रकृतेन वै ||
१६ ख
वैशम्पाय़न उवाच:
गान्धार्याश्चैव यद्दुःखं हृदि तिष्ठति पार्थिव |
१७ क
वैशम्पाय़न उवाच:
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् ||
१७ ख
वैशम्पाय़न उवाच:
यच्च धारय़ते तीव्रं दुःखं पुत्रविनाशजम् |
१८ क
वैशम्पाय़न उवाच:
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ||
१८ ख
वैशम्पाय़न उवाच:
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप |
१९ क
वैशम्पाय़न उवाच:
संशय़च्छेदनाय़ाहं प्राप्तः कौरवनन्दन ||
१९ ख
वैशम्पाय़न उवाच:
इमे च देवगन्धर्वाः सर्वे चैव महर्षय़ः |
२० क
वैशम्पाय़न उवाच:
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् ||
२० ख
वैशम्पाय़न उवाच:
तदुच्यतां महावाहो कं कामं प्रदिशामि ते |
२१ क
वैशम्पाय़न उवाच:
प्रवणोऽस्मि वरं दातुं पश्य मे तपसो वलम् ||
२१ ख
वैशम्पाय़न उवाच:
एवमुक्तः स राजेन्द्रो व्यासेनामितवुद्धिना |
२२ क
वैशम्पाय़न उवाच:
मुहूर्तमिव सञ्चिन्त्य वचनाय़ोपचक्रमे ||
२२ ख
वैशम्पाय़न उवाच:
धन्योऽस्म्यनुगृहीतोऽस्मि सफलं जीवितं च मे |
२३ क
वैशम्पाय़न उवाच:
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ||
२३ ख
वैशम्पाय़न उवाच:
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः |
२४ क
वैशम्पाय़न उवाच:
भवद्भिर्व्रह्मकल्पैर्यत्समेतोऽहं तपोधनाः ||
२४ ख
वैशम्पाय़न उवाच:
दर्शनादेव भवतां पूतोऽहं नात्र संशय़ः |
२५ क
वैशम्पाय़न उवाच:
विद्यते न भय़ं चापि परलोकान्ममानघाः ||
२५ ख
वैशम्पाय़न उवाच:
किं तु तस्य सुदुर्वुद्धेर्मन्दस्यापनय़ैर्भृशम् |
२६ क
वैशम्पाय़न उवाच:
दूय़ते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ||
२६ ख
वैशम्पाय़न उवाच:
अपापाः पाण्डवा येन निकृताः पापवुद्धिना |
२७ क
वैशम्पाय़न उवाच:
घातिता पृथिवी चेय़ं सहसा सनरद्विपा ||
२७ ख
वैशम्पाय़न उवाच:
राजानश्च महात्मानो नानाजनपदेश्वराः |
२८ क
वैशम्पाय़न उवाच:
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ||
२८ ख
वैशम्पाय़न उवाच:
ये ते पुत्रांश्च दाराश्च प्राणांश्च मनसः प्रिय़ान् |
२९ क
वैशम्पाय़न उवाच:
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ||
२९ ख
वैशम्पाय़न उवाच:
का नु तेषां गतिर्व्रह्मन्मित्रार्थे ये हता मृधे |
३० क
वैशम्पाय़न उवाच:
तथैव पुत्रपौत्राणां मम ये निहता युधि ||
३० ख
वैशम्पाय़न उवाच:
दूय़ते मे मनोऽभीक्ष्णं घातय़ित्वा महावलम् |
३१ क
वैशम्पाय़न उवाच:
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् ||
३१ ख
वैशम्पाय़न उवाच:
मम पुत्रेण मूढेन पापेन सुहृदद्विषा |
३२ क
वैशम्पाय़न उवाच:
क्षय़ं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ||
३२ ख
वैशम्पाय़न उवाच:
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् |
३३ क
वैशम्पाय़न उवाच:
न शान्तिमधिगच्छामि दुःखशोकसमाहतः |
३३ ख
वैशम्पाय़न उवाच:
इति मे चिन्तय़ानस्य पितः शर्म न विद्यते ||
३३ ग