chevron_left वन पर्व अध्याय ९०
लोमश उवाच:
धनञ्जय़ेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर |
१ क
लोमश उवाच:
युधिष्ठिरं भ्रातरं मे योजय़ेर्धर्म्यया श्रिय़ा ||
१ ख
लोमश उवाच:
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन |
२ क
लोमश उवाच:
श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् ||
२ ख
लोमश उवाच:
स भवान्यत्परं वेद पावनं पुरुषान्प्रति |
३ क
लोमश उवाच:
तेन संय़ोजय़ेथास्त्वं तीर्थपुण्येन पाण्डवम् ||
३ ख
लोमश उवाच:
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः |
४ क
लोमश उवाच:
तथा सर्वात्मना कार्यमिति मां विजय़ोऽव्रवीत् ||
४ ख
लोमश उवाच:
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः |
५ क
लोमश उवाच:
रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ||
५ ख
लोमश उवाच:
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम् |
६ क
लोमश उवाच:
तथा रक्षस्व कौन्तेय़ं राक्षसेभ्यो द्विजोत्तम ||
६ ख
लोमश उवाच:
यातुधाना हि वहवो राक्षसाः पर्वतोपमाः |
७ क
लोमश उवाच:
त्वय़ाभिगुप्तान्कौन्तेय़ान्नातिवर्तेय़ुरन्तिकात् ||
७ ख
लोमश उवाच:
सोऽहमिन्द्रस्य वचनान्निय़ोगादर्जुनस्य च |
८ क
लोमश उवाच:
रक्षमाणो भय़ेभ्यस्त्वां चरिष्यामि त्वय़ा सह ||
८ ख
लोमश उवाच:
द्विस्तीर्थानि मय़ा पूर्वं दृष्टानि कुरुनन्दन |
९ क
लोमश उवाच:
इदं तृतीय़ं द्रक्ष्यामि तान्येव भवता सह ||
९ ख
लोमश उवाच:
इय़ं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर |
१० क
लोमश उवाच:
मन्वादिभिर्महाराज तीर्थय़ात्रा भय़ापहा ||
१० ख
लोमश उवाच:
नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत् |
११ क
लोमश उवाच:
स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ||
११ ख
लोमश उवाच:
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसङ्गरः |
१२ क
लोमश उवाच:
विमुक्तः सर्वपापेभ्यो भूय़ एव भविष्यसि ||
१२ ख
लोमश उवाच:
यथा भगीरथो राजा राजानश्च गय़ादय़ः |
१३ क
लोमश उवाच:
यथा यय़ातिः कौन्तेय़ तथा त्वमपि पाण्डव ||
१३ ख
युधिष्ठिर उवाच:
न हर्षात्सम्प्रपश्यामि वाक्यस्यास्योत्तरं क्वचित् |
१४ क
युधिष्ठिर उवाच:
स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः ||
१४ ख
युधिष्ठिर उवाच:
भवता सङ्गमो यस्य भ्राता यस्य धनञ्जय़ः |
१५ क
युधिष्ठिर उवाच:
वासवः स्मरते यस्य को नामाभ्यधिकस्ततः ||
१५ ख
युधिष्ठिर उवाच:
यच्च मां भगवानाह तीर्थानां दर्शनं प्रति |
१६ क
युधिष्ठिर उवाच:
धौम्यस्य वचनादेषा वुद्धिः पूर्वं कृतैव मे ||
१६ ख
युधिष्ठिर उवाच:
तद्यदा मन्यसे व्रह्मन्गमनं तीर्थदर्शने |
१७ क
युधिष्ठिर उवाच:
तदैव गन्तास्मि दृढमेष मे निश्चय़ः परः ||
१७ ख
वैशम्पाय़न उवाच:
गमने कृतवुद्धिं तं पाण्डवं लोमशोऽव्रवीत् |
१८ क
वैशम्पाय़न उवाच:
लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ||
१८ ख
युधिष्ठिर उवाच:
विक्षाभुजो निवर्तन्तां व्राह्मणा यतय़श्च ये |
१९ क
युधिष्ठिर उवाच:
ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः ||
१९ ख
युधिष्ठिर उवाच:
धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते |
२० क
युधिष्ठिर उवाच:
स दास्यति यथाकालमुचिता यस्य या भृतिः ||
२० ख
युधिष्ठिर उवाच:
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः |
२१ क
युधिष्ठिर उवाच:
अस्मत्प्रिय़हितार्थाय़ पाञ्चाल्यो वः प्रदास्यति ||
२१ ख
वैशम्पाय़न उवाच:
ततो भूय़िष्ठशः पौरा गुरुभारसमाहिताः |
२२ क
वैशम्पाय़न उवाच:
विप्राश्च यतय़ो युक्ता जग्मुर्नागपुरं प्रति ||
२२ ख
वैशम्पाय़न उवाच:
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्विकासुतः |
२३ क
वैशम्पाय़न उवाच:
प्रतिजग्राह विधिवद्धनैश्च समतर्पय़त् ||
२३ ख
वैशम्पाय़न उवाच:
ततः कुन्तीसुतो राजा लघुभिर्व्राह्मणैः सह |
२४ क
वैशम्पाय़न उवाच:
लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ||
२४ ख