जनमेजय़ उवाच:
शत्रुभिर्जितवद्धस्य पाण्डवैश्च महात्मभिः |
१ क
जनमेजय़ उवाच:
मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः ||
१ ख
जनमेजय़ उवाच:
कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः |
२ क
जनमेजय़ उवाच:
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ||
२ ख
जनमेजय़ उवाच:
दुर्योधनस्य पापस्य नित्याहङ्कारवादिनः |
३ क
जनमेजय़ उवाच:
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ||
३ ख
जनमेजय़ उवाच:
तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः |
४ क
जनमेजय़ उवाच:
प्रवेशं विस्तरेण त्वं वैशम्पाय़न कीर्तय़ ||
४ ख
वैशम्पाय़न उवाच:
धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुय़ोधनः |
५ क
वैशम्पाय़न उवाच:
लज्जय़ाधोमुखः सीदन्नुपासर्पत्सुदुःखितः ||
५ ख
वैशम्पाय़न उवाच:
स्वपुरं प्रय़यौ राजा चतुरङ्गवलानुगः |
६ क
वैशम्पाय़न उवाच:
शोकोपहतय़ा वुद्ध्या चिन्तय़ानः पराभवम् ||
६ ख
वैशम्पाय़न उवाच:
विमुच्य पथि यानानि देशे सुय़वसोदके |
७ क
वैशम्पाय़न उवाच:
संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् |
७ ख
वैशम्पाय़न उवाच:
हस्त्यश्वरथपादातं यथास्थानं न्यवेशय़त् ||
७ ग
वैशम्पाय़न उवाच:
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे |
८ क
वैशम्पाय़न उवाच:
उपप्लुतं यथा सोमं राहुणा रात्रिसङ्क्षय़े |
८ ख
वैशम्पाय़न उवाच:
उपगम्याव्रवीत्कर्णो दुर्योधनमिदं तदा ||
८ ग
वैशम्पाय़न उवाच:
दिष्ट्या जीवसि गान्धारे दिष्ट्या नः सङ्गमः पुनः |
९ क
वैशम्पाय़न उवाच:
दिष्ट्या त्वय़ा जिताश्चैव गन्धर्वाः कामरूपिणः ||
९ ख
वैशम्पाय़न उवाच:
दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन |
१० क
वैशम्पाय़न उवाच:
विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान् ||
१० ख
वैशम्पाय़न उवाच:
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव |
११ क
वैशम्पाय़न उवाच:
नाशक्नुवं स्थापय़ितुं दीर्यमाणां स्ववाहिनीम् ||
११ ख
वैशम्पाय़न उवाच:
शरक्षताङ्गश्च भृशं व्यपय़ातोऽभिपीडितः |
१२ क
वैशम्पाय़न उवाच:
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत ||
१२ ख
वैशम्पाय़न उवाच:
अरिष्टानक्षतांश्चापि सदारधनवाहनान् |
१३ क
वैशम्पाय़न उवाच:
विमुक्तान्सम्प्रपश्यामि तस्माद्युद्धादमानुषात् ||
१३ ख
वैशम्पाय़न उवाच:
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत |
१४ क
वैशम्पाय़न उवाच:
यत्कृतं ते महाराज सह भ्रातृभिराहवे ||
१४ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा |
१५ क
वैशम्पाय़न उवाच:
उवाचावाक्षिरा राजन्वाष्पगद्गदय़ा गिरा ||
१५ ख