विदुर उवाच:
अत्रैवोदाहरन्तीममितिहासं पुरातनम् |
१ क
विदुर उवाच:
आत्रेय़स्य च संवादं साध्यानां चेति नः श्रुतम् ||
१ ख
विदुर उवाच:
चरन्तं हंसरूपेण महर्षिं संशितव्रतम् |
२ क
विदुर उवाच:
साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ||
२ ख
विदुर उवाच:
साध्या देवा वय़मस्मो महर्षे; दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम् |
३ क
विदुर उवाच:
श्रुतेन धीरो वुद्धिमांस्त्वं मतो नः; काव्यां वाचं वक्तुमर्हस्युदाराम् ||
३ ख
हंस उवाच:
एतत्कार्यममराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः |
४ क
हंस उवाच:
ग्रन्थिं विनीय़ हृदय़स्य सर्वं; प्रिय़ाप्रिय़े चात्मवशं नय़ीत ||
४ ख
हंस उवाच:
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः |
५ क
हंस उवाच:
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ||
५ ख
हंस उवाच:
नाक्रोशी स्यान्नावमानी परस्य; मित्रद्रोही नोत नीचोपसेवी |
६ क
हंस उवाच:
न चातिमानी न च हीनवृत्तो; रूक्षां वाचं रुशतीं वर्जय़ीत ||
६ ख
हंस उवाच:
मर्माण्यस्थीनि हृदय़ं तथासू; न्घोरा वाचो निर्दहन्तीह पुंसाम् |
७ क
हंस उवाच:
तस्माद्वाचं रुशतीं रूक्षरूपां; धर्मारामो नित्यशो वर्जय़ीत ||
७ ख
हंस उवाच:
अरुन्तुदं परुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् |
८ क
हंस उवाच:
विद्यादलक्ष्मीकतमं जनानां; मुखे निवद्धां निरृतिं वहन्तम् ||
८ ख
हंस उवाच:
परश्चेदेनमधिविध्येत वाणै; र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः |
९ क
हंस उवाच:
विरिच्यमानोऽप्यतिरिच्यमानो; विद्यात्कविः सुकृतं मे दधाति ||
९ ख
हंस उवाच:
यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव |
१० क
हंस उवाच:
वासो यथा रङ्गवशं प्रय़ाति; तथा स तेषां वशमभ्युपैति ||
१० ख
हंस उवाच:
वादं तु यो न प्रवदेन्न वादय़े; द्यो नाहतः प्रतिहन्यान्न घातय़ेत् |
११ क
हंस उवाच:
यो हन्तुकामस्य न पापमिच्छे; त्तस्मै देवाः स्पृहय़न्त्यागताय़ ||
११ ख
हंस उवाच:
अव्याहृतं व्याहृताच्छ्रेय़ आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीय़म् |
१२ क
हंस उवाच:
प्रिय़ं वदेद्व्याहृतं तत्तृतीय़ं; धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ||
१२ ख
हंस उवाच:
यादृशैः संविवदते यादृशांश्चोपसेवते |
१३ क
हंस उवाच:
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ||
१३ ख
हंस उवाच:
यतो यतो निवर्तते ततस्ततो विमुच्यते |
१४ क
हंस उवाच:
निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ||
१४ ख
हंस उवाच:
न जीय़ते नोत जिगीषतेऽन्या; न्न वैरकृच्चाप्रतिघातकश्च |
१५ क
हंस उवाच:
निन्दाप्रशंसासु समस्वभावो; न शोचते हृष्यति नैव चाय़म् ||
१५ ख
हंस उवाच:
भावमिच्छति सर्वस्य नाभावे कुरुते मतिम् |
१६ क
हंस उवाच:
सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ||
१६ ख
हंस उवाच:
नानर्थकं सान्त्वय़ति प्रतिज्ञाय़ ददाति च |
१७ क
हंस उवाच:
राद्धापराद्धे जानाति यः स मध्यमपूरुषः ||
१७ ख
हंस उवाच:
दुःशासनस्तूपहन्ता न शास्ता; नावर्तते मन्युवशात्कृतघ्नः |
१८ क
हंस उवाच:
न कस्यचिन्मित्रमथो दुरात्मा; कलाश्चैता अधमस्येह पुंसः ||
१८ ख
हंस उवाच:
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः |
१९ क
हंस उवाच:
निराकरोति मित्राणि यो वै सोऽधमपूरुषः ||
१९ ख
हंस उवाच:
उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् |
२० क
हंस उवाच:
अधमांस्तु न सेवेत य इच्छेच्छ्रेय़ आत्मनः ||
२० ख
हंस उवाच:
प्राप्नोति वै वित्तमसद्वलेन; नित्योत्थानात्प्रज्ञय़ा पौरुषेण |
२१ क
हंस उवाच:
न त्वेव सम्यग्लभते प्रशंसां; न वृत्तमाप्नोति महाकुलानाम् ||
२१ ख
धृतराष्ट्र उवाच:
महाकुलानां स्पृहय़न्ति देवा; धर्मार्थवृद्धाश्च वहुश्रुताश्च |
२२ क
धृतराष्ट्र उवाच:
पृच्छामि त्वां विदुर प्रश्नमेतं; भवन्ति वै कानि महाकुलानि ||
२२ ख
विदुर उवाच:
तपो दमो व्रह्मवित्त्वं वितानाः; पुण्या विवाहाः सततान्नदानम् |
२३ क
विदुर उवाच:
येष्वेवैते सप्त गुणा भवन्ति; सम्यग्वृत्तास्तानि महाकुलानि ||
२३ ख
विदुर उवाच:
येषां न वृत्तं व्यथते न योनि; र्वृत्तप्रसादेन चरन्ति धर्मम् |
२४ क
विदुर उवाच:
ये कीर्तिमिच्छन्ति कुले विशिष्टां; त्यक्तानृतास्तानि महाकुलानि ||
२४ ख
विदुर उवाच:
अनिज्ययाविवाहैश्च वेदस्योत्सादनेन च |
२५ क
विदुर उवाच:
कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ||
२५ ख
विदुर उवाच:
देवद्रव्यविनाशेन व्रह्मस्वहरणेन च |
२६ क
विदुर उवाच:
कुलान्यकुलतां यान्ति व्राह्मणातिक्रमेण च ||
२६ ख
विदुर उवाच:
व्राह्मणानां परिभवात्परिवादाच्च भारत |
२७ क
विदुर उवाच:
कुलान्यकुलतां यान्ति न्यासापहरणेन च ||
२७ ख
विदुर उवाच:
कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः |
२८ क
विदुर उवाच:
कुलसङ्ख्यां न गच्छन्ति यानि हीनानि वृत्ततः ||
२८ ख
विदुर उवाच:
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि |
२९ क
विदुर उवाच:
कुलसङ्ख्यां तु गच्छन्ति कर्षन्ति च महद्यशः ||
२९ ख
विदुर उवाच:
मा नः कुले वैरकृत्कश्चिदस्तु; राजामात्यो मा परस्वापहारी |
३० क
विदुर उवाच:
मित्रद्रोही नैकृतिकोऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः ||
३० ख
विदुर उवाच:
यश्च नो व्राह्मणं हन्याद्यश्च नो व्राह्मणान्द्विषेत् |
३१ क
विदुर उवाच:
न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ||
३१ ख
विदुर उवाच:
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता |
३२ क
विदुर उवाच:
सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ||
३२ ख
विदुर उवाच:
श्रद्धय़ा परय़ा राजन्नुपनीतानि सत्कृतिम् |
३३ क
विदुर उवाच:
प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ||
३३ ख
विदुर उवाच:
सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै; शक्तो वोढुं न तथान्ये महीजाः |
३४ क
विदुर उवाच:
एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः ||
३४ ख
विदुर उवाच:
न तन्मित्रं यस्य कोपाद्विभेति; यद्वा मित्रं शङ्कितेनोपचर्यम् |
३५ क
विदुर उवाच:
यस्मिन्मित्रे पितरीवाश्वसीत; तद्वै मित्रं सङ्गतानीतराणि ||
३५ ख
विदुर उवाच:
यदि चेदप्यसम्वन्धो मित्रभावेन वर्तते |
३६ क
विदुर उवाच:
स एव वन्धुस्तन्मित्रं सा गतिस्तत्पराय़णम् ||
३६ ख
विदुर उवाच:
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः |
३७ क
विदुर उवाच:
पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः ||
३७ ख
विदुर उवाच:
चलचित्तमनात्मानमिन्द्रिय़ाणां वशानुगम् |
३८ क
विदुर उवाच:
अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ||
३८ ख
विदुर उवाच:
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः |
३९ क
विदुर उवाच:
शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ||
३९ ख
विदुर उवाच:
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये |
४० क
विदुर उवाच:
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ||
४० ख
विदुर उवाच:
अर्थय़ेदेव मित्राणि सति वासति वा धने |
४१ क
विदुर उवाच:
नानर्थय़न्विजानाति मित्राणां सारफल्गुताम् ||
४१ ख
विदुर उवाच:
सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते वलम् |
४२ क
विदुर उवाच:
सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति ||
४२ ख
विदुर उवाच:
अनवाप्यं च शोकेन शरीरं चोपतप्यते |
४३ क
विदुर उवाच:
अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ||
४३ ख
विदुर उवाच:
पुनर्नरो म्रिय़ते जाय़ते च; पुनर्नरो हीय़ते वर्धते पुनः |
४४ क
विदुर उवाच:
पुनर्नरो याचति याच्यते च; पुनर्नरः शोचति शोच्यते पुनः ||
४४ ख
विदुर उवाच:
सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च |
४५ क
विदुर उवाच:
पर्याय़शः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न शोचेत् ||
४५ ख
विदुर उवाच:
चलानि हीमानि षडिन्द्रिय़ाणि; तेषां यद्यद्वर्तते यत्र यत्र |
४६ क
विदुर उवाच:
ततस्ततः स्रवते वुद्धिरस्य; छिद्रोदकुम्भादिव नित्यमम्भः ||
४६ ख
धृतराष्ट्र उवाच:
तनुरुच्छः शिखी राजा मिथ्योपचरितो मय़ा |
४७ क
धृतराष्ट्र उवाच:
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ||
४७ ख
धृतराष्ट्र उवाच:
नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः |
४८ क
धृतराष्ट्र उवाच:
यत्तत्पदमनुद्विग्नं तन्मे वद महामते ||
४८ ख
विदुर उवाच:
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रिय़निग्रहात् |
४९ क
विदुर उवाच:
नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ ||
४९ ख
विदुर उवाच:
वुद्ध्या भय़ं प्रणुदति तपसा विन्दते महत् |
५० क
विदुर उवाच:
गुरुशुश्रूषय़ा ज्ञानं शान्तिं त्यागेन विन्दति ||
५० ख