श्रीभगवानु उवाच:
परं भूय़ः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |
१ क
श्रीभगवानु उवाच:
यज्ज्ञात्वा मुनय़ः सर्वे परां सिद्धिमितो गताः ||
१ ख
श्रीभगवानु उवाच:
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः |
२ क
श्रीभगवानु उवाच:
सर्गेऽपि नोपजाय़न्ते प्रलय़े न व्यथन्ति च ||
२ ख
श्रीभगवानु उवाच:
मम योनिर्महद्व्रह्म तस्मिन्गर्भं दधाम्यहम् |
३ क
श्रीभगवानु उवाच:
सम्भवः सर्वभूतानां ततो भवति भारत ||
३ ख
श्रीभगवानु उवाच:
सर्वय़ोनिषु कौन्तेय़ मूर्तय़ः सम्भवन्ति याः |
४ क
श्रीभगवानु उवाच:
तासां व्रह्म महद्योनिरहं वीजप्रदः पिता ||
४ ख
श्रीभगवानु उवाच:
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः |
५ क
श्रीभगवानु उवाच:
निवध्नन्ति महावाहो देहे देहिनमव्ययम् ||
५ ख
श्रीभगवानु उवाच:
तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामय़म् |
६ क
श्रीभगवानु उवाच:
सुखसङ्गेन वध्नाति ज्ञानसङ्गेन चानघ ||
६ ख
श्रीभगवानु उवाच:
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् |
७ क
श्रीभगवानु उवाच:
तन्निवध्नाति कौन्तेय़ कर्मसङ्गेन देहिनम् ||
७ ख
श्रीभगवानु उवाच:
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |
८ क
श्रीभगवानु उवाच:
प्रमादालस्यनिद्राभिस्तन्निवध्नाति भारत ||
८ ख
श्रीभगवानु उवाच:
सत्त्वं सुखे सञ्जय़ति रजः कर्मणि भारत |
९ क
श्रीभगवानु उवाच:
ज्ञानमावृत्य तु तमः प्रमादे सञ्जय़त्युत ||
९ ख
श्रीभगवानु उवाच:
रजस्तमश्चाभिभूय़ सत्त्वं भवति भारत |
१० क
श्रीभगवानु उवाच:
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ||
१० ख
श्रीभगवानु उवाच:
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजाय़ते |
११ क
श्रीभगवानु उवाच:
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ||
११ ख
श्रीभगवानु उवाच:
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा |
१२ क
श्रीभगवानु उवाच:
रजस्येतानि जाय़न्ते विवृद्धे भरतर्षभ ||
१२ ख
श्रीभगवानु उवाच:
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |
१३ क
श्रीभगवानु उवाच:
तमस्येतानि जाय़न्ते विवृद्धे कुरुनन्दन ||
१३ ख
श्रीभगवानु उवाच:
यदा सत्त्वे प्रवृद्धे तु प्रलय़ं याति देहभृत् |
१४ क
श्रीभगवानु उवाच:
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ||
१४ ख
श्रीभगवानु उवाच:
रजसि प्रलय़ं गत्वा कर्मसङ्गिषु जाय़ते |
१५ क
श्रीभगवानु उवाच:
तथा प्रलीनस्तमसि मूढय़ोनिषु जाय़ते ||
१५ ख
श्रीभगवानु उवाच:
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् |
१६ क
श्रीभगवानु उवाच:
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ||
१६ ख
श्रीभगवानु उवाच:
सत्त्वात्सञ्जाय़ते ज्ञानं रजसो लोभ एव च |
१७ क
श्रीभगवानु उवाच:
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ||
१७ ख
श्रीभगवानु उवाच:
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |
१८ क
श्रीभगवानु उवाच:
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ||
१८ ख
श्रीभगवानु उवाच:
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति |
१९ क
श्रीभगवानु उवाच:
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ||
१९ ख
श्रीभगवानु उवाच:
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् |
२० क
श्रीभगवानु उवाच:
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ||
२० ख
अर्जुन उवाच:
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो |
२१ क
अर्जुन उवाच:
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ||
२१ ख
श्रीभगवानु उवाच:
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |
२२ क
श्रीभगवानु उवाच:
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ||
२२ ख
श्रीभगवानु उवाच:
उदासीनवदासीनो गुणैर्यो न विचाल्यते |
२३ क
श्रीभगवानु उवाच:
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ||
२३ ख
श्रीभगवानु उवाच:
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |
२४ क
श्रीभगवानु उवाच:
तुल्यप्रिय़ाप्रिय़ो धीरस्तुल्यनिन्दात्मसंस्तुतिः ||
२४ ख
श्रीभगवानु उवाच:
मानावमानय़ोस्तुल्यस्तुल्यो मित्रारिपक्षय़ोः |
२५ क
श्रीभगवानु उवाच:
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ||
२५ ख
श्रीभगवानु उवाच:
मां च योऽव्यभिचारेण भक्तिय़ोगेन सेवते |
२६ क
श्रीभगवानु उवाच:
स गुणान्समतीत्यैतान्व्रह्मभूय़ाय़ कल्पते ||
२६ ख
श्रीभगवानु उवाच:
व्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |
२७ क
श्रीभगवानु उवाच:
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ||
२७ ख