chevron_left द्रोण पर्व अध्याय ३६
सञ्जय़ उवाच:
तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा |
१ क
सञ्जय़ उवाच:
दुर्योधनो भृशं क्रुद्धः स्वय़ं सौभद्रमभ्ययात् ||
१ ख
सञ्जय़ उवाच:
ततो राजानमावृत्तं सौभद्रं प्रति संय़ुगे |
२ क
सञ्जय़ उवाच:
दृष्ट्वा द्रोणोऽव्रवीद्योधान्पर्याप्नुत नराधिपम् ||
२ ख
सञ्जय़ उवाच:
पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् |
३ क
सञ्जय़ उवाच:
तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् ||
३ ख
सञ्जय़ उवाच:
ततः कृतज्ञा वलिनः सुहृदो जितकाशिनः |
४ क
सञ्जय़ उवाच:
त्रास्यमाना भय़ाद्वीरं परिवव्रुस्तवात्मजम् ||
४ ख
सञ्जय़ उवाच:
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौवलः |
५ क
सञ्जय़ उवाच:
वृहद्वलो मद्रराजो भूरिर्भूरिश्रवाः शलः ||
५ ख
सञ्जय़ उवाच:
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् |
६ क
सञ्जय़ उवाच:
सौभद्रं शरवर्षेण महता समवाकिरन् ||
६ ख
सञ्जय़ उवाच:
संमोहय़ित्वा तमथ दुर्योधनममोचय़न् |
७ क
सञ्जय़ उवाच:
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ||
७ ख
सञ्जय़ उवाच:
ताञ्शरौघेण महता साश्वसूतान्महारथान् |
८ क
सञ्जय़ उवाच:
विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ||
८ ख
सञ्जय़ उवाच:
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः |
९ क
सञ्जय़ उवाच:
नामृष्यन्त सुसंरव्धाः पुनर्द्रोणमुखा रथाः ||
९ ख
सञ्जय़ उवाच:
त एनं कोष्ठकीकृत्य रथवंशेन मारिष |
१० क
सञ्जय़ उवाच:
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः ||
१० ख
सञ्जय़ उवाच:
तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः |
११ क
सञ्जय़ उवाच:
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ||
११ ख
सञ्जय़ उवाच:
ततस्ते कोपितास्तेन शरैराशीविषोपमैः |
१२ क
सञ्जय़ उवाच:
परिवव्रुर्जिघांसन्तः सौभद्रमपलाय़िनम् ||
१२ ख
सञ्जय़ उवाच:
समुद्रमिव पर्यस्तं त्वदीय़ं तद्वलार्णवम् |
१३ क
सञ्जय़ उवाच:
अभिमन्युर्दधारैको वेलेव मकरालय़म् ||
१३ ख
सञ्जय़ उवाच:
शूराणां युध्यमानानां निघ्नतामितरेतरम् |
१४ क
सञ्जय़ उवाच:
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ||
१४ ख
सञ्जय़ उवाच:
तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भय़ङ्करे |
१५ क
सञ्जय़ उवाच:
दुःसहो नवभिर्वाणैरभिमन्युमविध्यत ||
१५ ख
सञ्जय़ उवाच:
दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः |
१६ क
सञ्जय़ उवाच:
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ||
१६ ख
सञ्जय़ उवाच:
विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः |
१७ क
सञ्जय़ उवाच:
वृहद्वलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ||
१७ ख
सञ्जय़ उवाच:
भूरिश्रवास्त्रिभिर्वाणैर्मद्रेशः षड्भिराशुगैः |
१८ क
सञ्जय़ उवाच:
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ||
१८ ख
सञ्जय़ उवाच:
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः |
१९ क
सञ्जय़ उवाच:
नृत्यन्निव महाराज चापहस्तः प्रतापवान् ||
१९ ख
सञ्जय़ उवाच:
ततोऽभिमन्युः सङ्क्रुद्धस्ताप्यमानस्तवात्मजैः |
२० क
सञ्जय़ उवाच:
विदर्शय़न्वै सुमहच्छिक्षौरसकृतं वलम् ||
२० ख
सञ्जय़ उवाच:
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हय़ैः |
२१ क
सञ्जय़ उवाच:
दान्तैरश्मकदाय़ादं त्वरमाणोऽभ्यहारय़त् |
२१ ख
सञ्जय़ उवाच:
विव्याध चैनं दशभिर्वाणैस्तिष्ठेति चाव्रवीत् ||
२१ ग
सञ्जय़ उवाच:
तस्याभिमन्युर्दशभिर्वाणैः सूतं हय़ान्ध्वजम् |
२२ क
सञ्जय़ उवाच:
वाहू धनुः शिरश्चोर्व्यां स्मय़मानोऽभ्यपातय़त् ||
२२ ख
सञ्जय़ उवाच:
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे |
२३ क
सञ्जय़ उवाच:
सञ्चचाल वलं सर्वं पलाय़नपराय़णम् ||
२३ ख
सञ्जय़ उवाच:
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः |
२४ क
सञ्जय़ उवाच:
शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ||
२४ ख
सञ्जय़ उवाच:
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः |
२५ क
सञ्जय़ उवाच:
वृन्दारको ललित्थश्च प्रवाहुर्दीर्घलोचनः |
२५ ख
सञ्जय़ उवाच:
दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् ||
२५ ग
सञ्जय़ उवाच:
सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः |
२६ क
सञ्जय़ उवाच:
शरमादत्त कर्णाय़ परकाय़ावभेदनम् ||
२६ ख
सञ्जय़ उवाच:
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः |
२७ क
सञ्जय़ उवाच:
प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ||
२७ ख
सञ्जय़ उवाच:
स तेनातिप्रहारेण व्यथितो विह्वलन्निव |
२८ क
सञ्जय़ उवाच:
सञ्चचाल रणे कर्णः क्षितिकम्पे यथाचलः ||
२८ ख
सञ्जय़ उवाच:
अथान्यैर्निशितैर्वाणैः सुषेणं दीर्घलोचनम् |
२९ क
सञ्जय़ उवाच:
कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्वली ||
२९ ख
सञ्जय़ उवाच:
कर्णस्तं पञ्चविंशत्या नाराचानां समर्पय़त् |
३० क
सञ्जय़ उवाच:
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ||
३० ख
सञ्जय़ उवाच:
स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः |
३१ क
सञ्जय़ उवाच:
विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ||
३१ ख
सञ्जय़ उवाच:
शल्यं च वाणवर्षेण समीपस्थमवाकिरत् |
३२ क
सञ्जय़ उवाच:
उदक्रोशन्महावाहुस्तव सैन्यानि भीषय़न् ||
३२ ख
सञ्जय़ उवाच:
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः |
३३ क
सञ्जय़ उवाच:
शल्यो राजन्रथोपस्थे निषसाद मुमोह च ||
३३ ख
सञ्जय़ उवाच:
तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना |
३४ क
सञ्जय़ उवाच:
सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ||
३४ ख
सञ्जय़ उवाच:
प्रेक्षन्तस्तं महावाहुं रुक्मपुङ्खैः समावृतम् |
३५ क
सञ्जय़ उवाच:
त्वदीय़ाश्च पलाय़न्ते मृगाः सिंहार्दिता इव ||
३५ ख
सञ्जय़ उवाच:
स तु रणय़शसाभिपूज्यमानः; पितृसुरचारणसिद्धय़क्षसङ्घैः |
३६ क
सञ्जय़ उवाच:
अवनितलगतैश्च भूतसङ्घै; रतिविवभौ हुतभुग्यथाज्यसिक्तः ||
३६ ख