chevron_left कर्ण पर्व अध्याय ३६
सञ्जय़ उवाच:
क्षत्रिय़ास्ते महाराज परस्परवधैषिणः |
१ क
सञ्जय़ उवाच:
अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् ||
१ ख
सञ्जय़ उवाच:
रथौघाश्च हय़ौघाश्च नरौघाश्च समन्ततः |
२ क
सञ्जय़ उवाच:
गजौघाश्च महाराज संसक्ताः स्म परस्परम् ||
२ ख
सञ्जय़ उवाच:
गदानां परिघाणां च कणपानां च सर्पताम् |
३ क
सञ्जय़ उवाच:
प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः ||
३ ख
सञ्जय़ उवाच:
सम्पातं चान्वपश्याम सङ्ग्रामे भृशदारुणे |
४ क
सञ्जय़ उवाच:
शलभा इव सम्पेतुः समन्ताच्छरवृष्टय़ः ||
४ ख
सञ्जय़ उवाच:
नागा नागान्समासाद्य व्यधमन्त परस्परम् |
५ क
सञ्जय़ उवाच:
हय़ा हय़ांश्च समरे रथिनो रथिनस्तथा |
५ ख
सञ्जय़ उवाच:
पत्तय़ः पत्तिसङ्घैश्च हय़सङ्घैर्हय़ास्तथा ||
५ ग
सञ्जय़ उवाच:
पत्तय़ो रथमातङ्गान्रथा हस्त्यश्वमेव च |
६ क
सञ्जय़ उवाच:
नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ||
६ ख
सञ्जय़ उवाच:
पततां तत्र शूराणां क्रोशतां च परस्परम् |
७ क
सञ्जय़ उवाच:
घोरमाय़ोधनं जज्ञे पशूनां वैशसं यथा ||
७ ख
सञ्जय़ उवाच:
रुधिरेण समास्तीर्णा भाति भारत मेदिनी |
८ क
सञ्जय़ उवाच:
शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा ||
८ ख
सञ्जय़ उवाच:
यथा वा वाससी शुक्ले महारजनरञ्जिते |
९ क
सञ्जय़ उवाच:
विभृय़ाद्युवतिः श्यामा तद्वदासीद्वसुन्धरा |
९ ख
सञ्जय़ उवाच:
मांसशोणितचित्रेव शातकौम्भमय़ीव च ||
९ ग
सञ्जय़ उवाच:
छिन्नानां चोत्तमाङ्गानां वाहूनां चोरुभिः सह |
१० क
सञ्जय़ उवाच:
कुण्डलानां प्रविद्धानां भूषणानां च भारत ||
१० ख
सञ्जय़ उवाच:
निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् |
११ क
सञ्जय़ उवाच:
वर्मणां सपताकानां सङ्घास्तत्रापतन्भुवि ||
११ ख
सञ्जय़ उवाच:
गजान्गजाः समासाद्य विषाणाग्रैरदारय़न् |
१२ क
सञ्जय़ उवाच:
विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा ||
१२ ख
सञ्जय़ उवाच:
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव |
१३ क
सञ्जय़ उवाच:
यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः ||
१३ ख
सञ्जय़ उवाच:
तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्वहून् |
१४ क
सञ्जय़ उवाच:
हस्तैर्विचेरुस्ते नागा वभञ्जुश्चापरे तथा ||
१४ ख
सञ्जय़ उवाच:
नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः |
१५ क
सञ्जय़ उवाच:
हिमागमे महाराज व्यभ्रा इव महीधराः ||
१५ ख
सञ्जय़ उवाच:
शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः |
१६ क
सञ्जय़ उवाच:
उल्काभिः सम्प्रदीप्ताग्राः पर्वता इव मारिष ||
१६ ख
सञ्जय़ उवाच:
केचिदभ्याहता नागा नागैर्नगनिभा भुवि |
१७ क
सञ्जय़ उवाच:
निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रय़ः ||
१७ ख
सञ्जय़ उवाच:
अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः |
१८ क
सञ्जय़ उवाच:
प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ||
१८ ख
सञ्जय़ उवाच:
निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् |
१९ क
सञ्जय़ उवाच:
मम्लुश्च वहवो राजंश्चुकूजुश्चापरे तथा ||
१९ ख
सञ्जय़ उवाच:
हय़ाश्च निहता वाणैः स्वर्णभाण्डपरिच्छदाः |
२० क
सञ्जय़ उवाच:
निषेदुश्चैव मम्लुश्च वभ्रमुश्च दिशो दश ||
२० ख
सञ्जय़ उवाच:
अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले |
२१ क
सञ्जय़ उवाच:
भावान्वहुविधांश्चक्रुस्ताडिताः शरतोमरैः ||
२१ ख
सञ्जय़ उवाच:
नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष |
२२ क
सञ्जय़ उवाच:
दृष्ट्वा च वान्धवानन्ये पितॄनन्ये पितामहान् ||
२२ ख
सञ्जय़ उवाच:
धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत |
२३ क
सञ्जय़ उवाच:
गोत्रनामानि ख्यातानि शशंसुरितरेतरम् ||
२३ ख
सञ्जय़ उवाच:
तेषां छिन्ना महाराज भुजाः कनकभूषणाः |
२४ क
सञ्जय़ उवाच:
उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च ||
२४ ख
सञ्जय़ उवाच:
निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः |
२५ क
सञ्जय़ उवाच:
वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः ||
२५ ख
सञ्जय़ उवाच:
ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते |
२६ क
सञ्जय़ उवाच:
लोहितार्द्रा भृशं रेजुस्तपनीय़ध्वजा इव ||
२६ ख
सञ्जय़ उवाच:
वर्तमाने तथा घोरे सङ्कुले सर्वतोदिशम् |
२७ क
सञ्जय़ उवाच:
अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ||
२७ ख
सञ्जय़ उवाच:
भौमेन रजसा कीर्णे शस्त्रसम्पातसङ्कुले |
२८ क
सञ्जय़ उवाच:
नैव स्वे न परे राजन्व्यज्ञाय़न्त तमोवृते ||
२८ ख
सञ्जय़ उवाच:
तथा तदभवद्युद्धं घोररूपं भय़ानकम् |
२९ क
सञ्जय़ उवाच:
शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ||
२९ ख
सञ्जय़ उवाच:
शीर्षपाषाणसञ्छन्नाः केशशैवलशाद्वलाः |
३० क
सञ्जय़ उवाच:
अस्थिसङ्घातसङ्कीर्णा धनुःशरवरोत्तमाः ||
३० ख
सञ्जय़ उवाच:
मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः |
३१ क
सञ्जय़ उवाच:
नदीः प्रवर्तय़ामासुर्यमराष्ट्रविवर्धनीः ||
३१ ख
सञ्जय़ उवाच:
ता नद्यो घोररूपाश्च नय़न्त्यो यमसादनम् |
३२ क
सञ्जय़ उवाच:
अवगाढा मज्जय़न्त्यः क्षत्रस्याजनय़न्भय़म् ||
३२ ख
सञ्जय़ उवाच:
क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह |
३३ क
सञ्जय़ उवाच:
घोरमाय़ोधनं जज्ञे प्रेतराजपुरोपमम् ||
३३ ख
सञ्जय़ उवाच:
उत्थितान्यगणेय़ानि कवन्धानि समन्ततः |
३४ क
सञ्जय़ उवाच:
नृत्यन्ति वै भूतगणाः सन्तृप्ता मांसशोणितैः ||
३४ ख
सञ्जय़ उवाच:
पीत्वा च शोणितं तत्र वसां पीत्वा च भारत |
३५ क
सञ्जय़ उवाच:
मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि |
३५ ख
सञ्जय़ उवाच:
धावमानाश्च दृश्यन्ते काकगृध्रवलास्तथा ||
३५ ग
सञ्जय़ उवाच:
शूरास्तु समरे राजन्भय़ं त्यक्त्वा सुदुस्त्यजम् |
३६ क
सञ्जय़ उवाच:
योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ||
३६ ख
सञ्जय़ उवाच:
शरशक्तिसमाकीर्णे क्रव्यादगणसङ्कुले |
३७ क
सञ्जय़ उवाच:
व्यचरन्त गणैः शूराः ख्यापय़न्तः स्वपौरुषम् ||
३७ ख
सञ्जय़ उवाच:
अन्योन्यं श्रावय़न्ति स्म नामगोत्राणि भारत |
३८ क
सञ्जय़ उवाच:
पितृनामानि च रणे गोत्रनामानि चाभितः ||
३८ ख
सञ्जय़ उवाच:
श्रावय़न्तो हि वहवस्तत्र योधा विशां पते |
३९ क
सञ्जय़ उवाच:
अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः ||
३९ ख
सञ्जय़ उवाच:
वर्तमाने तदा युद्धे घोररूपे सुदारुणे |
४० क
सञ्जय़ उवाच:
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ||
४० ख