विदुर उवाच:
येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत |
५१ क
विदुर उवाच:
यद्वलानां वलं श्रेष्ठं तत्प्रज्ञावलमुच्यते ||
५१ ख
विदुर उवाच:
महते योऽपकाराय़ नरस्य प्रभवेन्नरः |
५२ क
विदुर उवाच:
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ||
५२ ख
विदुर उवाच:
स्त्रीषु राजसु सर्पेषु स्वाध्याय़े शत्रुसेविषु |
५३ क
विदुर उवाच:
भोगे चाय़ुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ||
५३ ख
विदुर उवाच:
प्रज्ञाशरेणाभिहतस्य जन्तो; श्चिकित्सकाः सन्ति न चौषधानि |
५४ क
विदुर उवाच:
न होममन्त्रा न च मङ्गलानि; नाथर्वणा नाप्यगदाः सुसिद्धाः ||
५४ ख
विदुर उवाच:
सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत |
५५ क
विदुर उवाच:
नावज्ञेय़ा मनुष्येण सर्वे ते ह्यतितेजसः ||
५५ ख
विदुर उवाच:
अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु |
५६ क
विदुर उवाच:
न चोपय़ुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ||
५६ ख
विदुर उवाच:
स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते |
५७ क
विदुर उवाच:
तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ||
५७ ख
विदुर उवाच:
एवमेव कुले जाताः पावकोपमतेजसः |
५८ क
विदुर उवाच:
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ||
५८ ख
विदुर उवाच:
लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः |
५९ क
विदुर उवाच:
न लता वर्धते जातु महाद्रुममनाश्रिता ||
५९ ख
विदुर उवाच:
वनं राजंस्त्वं सपुत्रोऽम्विकेय़; सिंहान्वने पाण्डवांस्तात विद्धि |
६० क
विदुर उवाच:
सिंहैर्विहीनं हि वनं विनश्ये; त्सिंहा विनश्येय़ुरृते वनेन ||
६० ख