chevron_left शान्ति पर्व अध्याय ३७
वैशम्पाय़न उवाच:
एवमुक्तो भगवता धर्मराजो युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
चिन्तय़ित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् ||
१ ख
वैशम्पाय़न उवाच:
किं भक्ष्यं किमभक्ष्यं च किं च देय़ं प्रशस्यते |
२ क
वैशम्पाय़न उवाच:
किं च पात्रमपात्रं वा तन्मे व्रूहि पितामह ||
२ ख
व्यास उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
३ क
व्यास उवाच:
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ||
३ ख
व्यास उवाच:
सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम् |
४ क
व्यास उवाच:
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ||
४ ख
व्यास उवाच:
कथमन्नं कथं दानं कथमध्ययनं तपः |
५ क
व्यास उवाच:
कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते ||
५ ख
व्यास उवाच:
तैरेवमुक्तो भगवान्मनुः स्वाय़म्भुवोऽव्रवीत् |
६ क
व्यास उवाच:
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ||
६ ख
व्यास उवाच:
अदत्तस्यानुपादानं दानमध्ययनं तपः |
७ क
व्यास उवाच:
अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम् ||
७ ख
व्यास उवाच:
य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः |
८ क
व्यास उवाच:
आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः ||
८ ख
व्यास उवाच:
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् |
९ क
व्यास उवाच:
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदय़ोः ||
९ ख
व्यास उवाच:
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् |
१० क
व्यास उवाच:
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च ||
१० ख
व्यास उवाच:
एतय़ोश्चोभय़ोः स्यातां शुभाशुभतय़ा तथा |
११ क
व्यास उवाच:
दैवं च दैवय़ुक्तं च प्राणश्च प्रलय़श्च ह ||
११ ख
व्यास उवाच:
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् |
१२ क
व्यास उवाच:
ऊर्ध्वं भवति सन्देहादिह दृष्टार्थमेव वा |
१२ ख
व्यास उवाच:
अप्रेक्षापूर्वकरणात्प्राय़श्चित्तं विधीय़ते ||
१२ ग
व्यास उवाच:
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः |
१३ क
व्यास उवाच:
शरीराणामुपक्लेशो मनसश्च प्रिय़ाप्रिय़े |
१३ ख
व्यास उवाच:
तदौषधैश्च मन्त्रैश्च प्राय़श्चित्तैश्च शाम्यति ||
१३ ग
व्यास उवाच:
जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः |
१४ क
व्यास उवाच:
वर्जय़ेन्न हि तं धर्मं येषां धर्मो न विद्यते ||
१४ ख
व्यास उवाच:
दश वा वेदशास्त्रज्ञास्त्रय़ो वा धर्मपाठकाः |
१५ क
व्यास उवाच:
यद्व्रूय़ुः कार्य उत्पन्ने स धर्मो धर्मसंशय़े ||
१५ ख
व्यास उवाच:
अरुणा मृत्तिका चैव तथा चैव पिपीलकाः |
१६ क
व्यास उवाच:
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ||
१६ ख
व्यास उवाच:
अभक्ष्या व्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः |
१७ क
व्यास उवाच:
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ||
१७ ख
व्यास उवाच:
भासा हंसाः सुपर्णाश्च चक्रवाका वकाः प्लवाः |
१८ क
व्यास उवाच:
कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च ||
१८ ख
व्यास उवाच:
क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः |
१९ क
व्यास उवाच:
येषां चोभय़तो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ||
१९ ख
व्यास उवाच:
एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि |
२० क
व्यास उवाच:
मानुषीणां मृगीणां च न पिवेद्व्राह्मणः पय़ः ||
२० ख
व्यास उवाच:
प्रेतान्नं सूतिकान्नं च यच्च किञ्चिदनिर्दशम् |
२१ क
व्यास उवाच:
अभोज्यं चाप्यपेय़ं च धेन्वा दुग्धमनिर्दशम् ||
२१ ख
व्यास उवाच:
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च |
२२ क
व्यास उवाच:
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ||
२२ ख
व्यास उवाच:
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये |
२३ क
व्यास उवाच:
परिवित्तिनपुंषां च वन्दिद्यूतविदां तथा ||
२३ ख
व्यास उवाच:
वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् |
२४ क
व्यास उवाच:
सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् ||
२४ ख
व्यास उवाच:
पिष्टमांसेक्षुशाकानां विकाराः पय़सस्तथा |
२५ क
व्यास उवाच:
सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः ||
२५ ख
व्यास उवाच:
पाय़सं कृसरं मांसमपूपाश्च वृथा कृताः |
२६ क
व्यास उवाच:
अभोज्याश्चाप्यभक्ष्याश्च व्राह्मणैर्गृहमेधिभिः ||
२६ ख
व्यास उवाच:
देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः |
२७ क
व्यास उवाच:
पूजय़ित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ||
२७ ख
व्यास उवाच:
यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत् |
२८ क
व्यास उवाच:
एवंवृत्तः प्रिय़ैर्दारैः संवसन्धर्ममाप्नुय़ात् ||
२८ ख
व्यास उवाच:
न दद्याद्यशसे दानं न भय़ान्नोपकारिणे |
२९ क
व्यास उवाच:
न नृत्तगीतशीलेषु हासकेषु च धार्मिकः ||
२९ ख
व्यास उवाच:
न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके |
३० क
व्यास उवाच:
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने ||
३० ख
व्यास उवाच:
न दुर्जने दौष्कुले वा व्रतैर्वा यो न संस्कृतः |
३१ क
व्यास उवाच:
अश्रोत्रिय़े मृतं दानं व्राह्मणेऽव्रह्मवादिनि ||
३१ ख
व्यास उवाच:
असम्यक्चैव यद्दत्तमसम्यक्च प्रतिग्रहः |
३२ क
व्यास उवाच:
उभय़ोः स्यादनर्थाय़ दातुरादातुरेव च ||
३२ ख
व्यास उवाच:
यथा खदिरमालम्व्य शिलां वाप्यर्णवं तरन् |
३३ क
व्यास उवाच:
मज्जते मज्जते तद्वद्दाता यश्च प्रतीच्छकः ||
३३ ख
व्यास उवाच:
काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते |
३४ क
व्यास उवाच:
तपःस्वाध्याय़चारित्रैरेवं हीनः प्रतिग्रही ||
३४ ख
व्यास उवाच:
कपाले यद्वदापः स्युः श्वदृतौ वा यथा पय़ः |
३५ क
व्यास उवाच:
आश्रय़स्थानदोषेण वृत्तहीने तथा श्रुतम् ||
३५ ख
व्यास उवाच:
निर्मन्त्रो निर्व्रतो यः स्यादशास्त्रज्ञोऽनसूय़कः |
३६ क
व्यास उवाच:
अनुक्रोशात्प्रदातव्यं दीनेष्वेवं नरेष्वपि ||
३६ ख
व्यास उवाच:
न वै देय़मनुक्रोशाद्दीनाय़ाप्यपकारिणे |
३७ क
व्यास उवाच:
आप्ताचरितमित्येव धर्म इत्येव वा पुनः ||
३७ ख
व्यास उवाच:
निष्कारणं स्म तद्दत्तं व्राह्मणे धर्मवर्जिते |
३८ क
व्यास उवाच:
भवेदपात्रदोषेण न मेऽत्रास्ति विचारणा ||
३८ ख
व्यास उवाच:
यथा दारुमय़ो हस्ती यथा चर्ममय़ो मृगः |
३९ क
व्यास उवाच:
व्राह्मणश्चानधीय़ानस्त्रय़स्ते नामधारकाः ||
३९ ख
व्यास उवाच:
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला |
४० क
व्यास उवाच:
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो व्राह्मणस्तथा ||
४० ख
व्यास उवाच:
ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः |
४१ क
व्यास उवाच:
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ ||
४१ ख
व्यास उवाच:
देवतानां पितॄणां च हव्यकव्यविनाशनः |
४२ क
व्यास उवाच:
शत्रुरर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति ||
४२ ख
व्यास उवाच:
एतत्ते कथितं सर्वं यथा वृत्तं युधिष्ठिर |
४३ क
व्यास उवाच:
समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ ||
४३ ख