व्रह्मो उवाच:
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः |
१ क
व्रह्मो उवाच:
निवोधत महाभागा गुणवृत्तं च सर्वशः ||
१ ख
व्रह्मो उवाच:
सङ्घातो रूपमाय़ासः सुखदुःखे हिमातपौ |
२ क
व्रह्मो उवाच:
ऐश्वर्यं विग्रहः सन्धिर्हेतुवादोऽरतिः क्षमा ||
२ ख
व्रह्मो उवाच:
वलं शौर्यं मदो रोषो व्याय़ामकलहावपि |
३ क
व्रह्मो उवाच:
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ||
३ ख
व्रह्मो उवाच:
वधवन्धपरिक्लेशाः क्रय़ो विक्रय़ एव च |
४ क
व्रह्मो उवाच:
निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् ||
४ ख
व्रह्मो उवाच:
उग्रं दारुणमाक्रोशः परवित्तानुशासनम् |
५ क
व्रह्मो उवाच:
लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् ||
५ ख
व्रह्मो उवाच:
मृषावादो मृषादानं विकल्पः परिभाषणम् |
६ क
व्रह्मो उवाच:
निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् ||
६ ख
व्रह्मो उवाच:
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रय़ः |
७ क
व्रह्मो उवाच:
व्यूहोऽनय़ः प्रमादश्च परितापः परिग्रहः ||
७ ख
व्रह्मो उवाच:
संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक् |
८ क
व्रह्मो उवाच:
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ||
८ ख
व्रह्मो उवाच:
सन्तापोऽप्रत्ययश्चैव व्रतानि निय़माश्च ये |
९ क
व्रह्मो उवाच:
प्रदानमाशीर्युक्तं च सततं मे भवत्विति ||
९ ख
व्रह्मो उवाच:
स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिय़ा |
१० क
व्रह्मो उवाच:
याजनाध्यापने चोभे तथैवाहुः परिग्रहम् ||
१० ख
व्रह्मो उवाच:
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः |
११ क
व्रह्मो उवाच:
अभिद्रोहस्तथा माय़ा निकृतिर्मान एव च ||
११ ख
व्रह्मो उवाच:
स्तैन्यं हिंसा परीवादः परितापः प्रजागरः |
१२ क
व्रह्मो उवाच:
स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ||
१२ ख
व्रह्मो उवाच:
द्यूतं च जनवादश्च सम्वन्धाः स्त्रीकृताश्च ये |
१३ क
व्रह्मो उवाच:
नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन |
१३ ख
व्रह्मो उवाच:
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः ||
१३ ग
व्रह्मो उवाच:
भूतभव्यभविष्याणां भावानां भुवि भावनाः |
१४ क
व्रह्मो उवाच:
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ||
१४ ख
व्रह्मो उवाच:
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः |
१५ क
व्रह्मो उवाच:
अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः ||
१५ ख
व्रह्मो उवाच:
अस्मिँल्लोके प्रमोदन्ते जाय़मानाः पुनः पुनः |
१६ क
व्रह्मो उवाच:
प्रेत्यभाविकमीहन्त इह लौकिकमेव च |
१६ ख
व्रह्मो उवाच:
ददति प्रतिगृह्णन्ति जपन्त्यथ च जुह्वति ||
१६ ग
व्रह्मो उवाच:
रजोगुणा वो वहुधानुकीर्तिता; यथावदुक्तं गुणवृत्तमेव च |
१७ क
व्रह्मो उवाच:
नरो हि यो वेद गुणानिमान्सदा; स राजसैः सर्वगुणैर्विमुच्यते ||
१७ ख