वैशम्पाय़न उवाच:
ततः सागरसङ्काशं दृष्ट्वा नृपतिसागरम् |
१ क
वैशम्पाय़न उवाच:
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः ||
१ ख
वैशम्पाय़न उवाच:
भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् |
२ क
वैशम्पाय़न उवाच:
वृहस्पतिं वृहत्तेजाः पुरुहूत इवारिहा ||
२ ख
वैशम्पाय़न उवाच:
असौ रोषात्प्रचलितो महान्नृपतिसागरः |
३ क
वैशम्पाय़न उवाच:
अत्र यत्प्रतिपत्तव्यं तन्मे व्रूहि पितामह ||
३ ख
वैशम्पाय़न उवाच:
यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत् |
४ क
वैशम्पाय़न उवाच:
यथा सर्वत्र तत्सर्वं व्रूहि मेऽद्य पितामह ||
४ ख
वैशम्पाय़न उवाच:
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे |
५ क
वैशम्पाय़न उवाच:
उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ||
५ ख
वैशम्पाय़न उवाच:
मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति |
६ क
वैशम्पाय़न उवाच:
शिवः पन्थाः सुनीतोऽत्र मय़ा पूर्वतरं वृतः ||
६ ख
वैशम्पाय़न उवाच:
प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः |
७ क
वैशम्पाय़न उवाच:
भषेय़ुः सहिताः सर्वे तथेमे वसुधाधिपाः ||
७ ख
वैशम्पाय़न उवाच:
वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः |
८ क
वैशम्पाय़न उवाच:
भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य संनिधौ ||
८ ख
वैशम्पाय़न उवाच:
न हि सम्वुध्यते तावत्सुप्तः सिंह इवाच्युतः |
९ क
वैशम्पाय़न उवाच:
तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुङ्गवः ||
९ ख
वैशम्पाय़न उवाच:
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः |
१० क
वैशम्पाय़न उवाच:
सर्वान्सर्वात्मना तात नेतुकामो यमक्षय़म् ||
१० ख
वैशम्पाय़न उवाच:
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः |
११ क
वैशम्पाय़न उवाच:
यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत ||
११ ख
वैशम्पाय़न उवाच:
विप्लुता चास्य भद्रं ते वुद्धिर्वुद्धिमतां वर |
१२ क
वैशम्पाय़न उवाच:
चेदिराजस्य कौन्तेय़ सर्वेषां च महीक्षिताम् ||
१२ ख
वैशम्पाय़न उवाच:
आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा |
१३ क
वैशम्पाय़न उवाच:
तस्य विप्लवते वुद्धिरेवं चेदिपतेर्यथा ||
१३ ख
वैशम्पाय़न उवाच:
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः |
१४ क
वैशम्पाय़न उवाच:
प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ||
१४ ख
वैशम्पाय़न उवाच:
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः |
१५ क
वैशम्पाय़न उवाच:
भीष्मं रूक्षाक्षरा वाचः श्रावय़ामास भारत ||
१५ ख