chevron_left विराट पर्व अध्याय ३७
वैशम्पाय़न उवाच:
तं दृष्ट्वा क्लीववेषेण रथस्थं नरपुङ्गवम् |
१ क
वैशम्पाय़न उवाच:
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम् ||
१ ख
वैशम्पाय़न उवाच:
भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः |
२ क
वैशम्पाय़न उवाच:
वित्रस्तमनसः सर्वे धनञ्जय़कृताद्भय़ात् ||
२ ख
वैशम्पाय़न उवाच:
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान् |
३ क
वैशम्पाय़न उवाच:
गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत ||
३ ख
वैशम्पाय़न उवाच:
चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः |
४ क
वैशम्पाय़न उवाच:
भस्मवर्णप्रकाशेन तमसा संवृतं नभः ||
४ ख
वैशम्पाय़न उवाच:
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः |
५ क
वैशम्पाय़न उवाच:
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च ||
५ ख
वैशम्पाय़न उवाच:
शिवाश्च विनदन्त्येता दीप्ताय़ां दिशि दारुणाः |
६ क
वैशम्पाय़न उवाच:
हय़ाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः ||
६ ख
वैशम्पाय़न उवाच:
यादृशान्यत्र रूपाणि सन्दृश्यन्ते वहून्यपि |
७ क
वैशम्पाय़न उवाच:
यत्ता भवन्तस्तिष्ठन्तु स्याद्युद्धं समुपस्थितम् ||
७ ख
वैशम्पाय़न उवाच:
रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि |
८ क
वैशम्पाय़न उवाच:
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् ||
८ ख
वैशम्पाय़न उवाच:
एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः |
९ क
वैशम्पाय़न उवाच:
आगतः क्लीववेषेण पार्थो नास्त्यत्र संशय़ः ||
९ ख
वैशम्पाय़न उवाच:
स एष पार्थो विक्रान्तः सव्यसाची परन्तपः |
१० क
वैशम्पाय़न उवाच:
नाय़ुद्धेन निवर्तेत सर्वैरपि मरुद्गणैः ||
१० ख
वैशम्पाय़न उवाच:
क्लेशितश्च वने शूरो वासवेन च शिक्षितः |
११ क
वैशम्पाय़न उवाच:
अमर्षवशमापन्नो योत्स्यते नात्र संशय़ः ||
११ ख
वैशम्पाय़न उवाच:
नेहास्य प्रतिय़ोद्धारमहं पश्यामि कौरवाः |
१२ क
वैशम्पाय़न उवाच:
महादेवोऽपि पार्थेन श्रूय़ते युधि तोषितः ||
१२ ख
कर्ण उवाच:
सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे |
१३ क
कर्ण उवाच:
न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा ||
१३ ख
दुर्योधन उवाच:
यद्येष पार्थो राधेय़ कृतं कार्यं भवेन्मम |
१४ क
दुर्योधन उवाच:
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान् ||
१४ ख
दुर्योधन उवाच:
अथैष कश्चिदेवान्यः क्लीववेषेण मानवः |
१५ क
दुर्योधन उवाच:
शरैरेनं सुनिशितैः पातय़िष्यामि भूतले ||
१५ ख
वैशम्पाय़न उवाच:
तस्मिन्व्रुवति तद्वाक्यं धार्तराष्ट्रे परन्तपे |
१६ क
वैशम्पाय़न उवाच:
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजय़न् ||
१६ ख