chevron_left उद्योग पर्व अध्याय ३७
विदुर उवाच:
सप्तदशेमान्राजेन्द्र मनुः स्वाय़म्भुवोऽव्रवीत् |
१ क
विदुर उवाच:
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ||
१ ख
विदुर उवाच:
तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽव्रवीत् |
२ क
विदुर उवाच:
अथो मरीचिनः पादाननाम्यान्नमतस्तथा ||
२ ख
विदुर उवाच:
यश्चाशिष्यं शासति यश्च कुप्यते; यश्चातिवेलं भजते द्विषन्तम् |
३ क
विदुर उवाच:
स्त्रिय़श्च योऽरक्षति भद्रमस्तु ते; यश्चाय़ाच्यं याचति यश्च कत्थते ||
३ ख
विदुर उवाच:
यश्चाभिजातः प्रकरोत्यकार्यं; यश्चावलो वलिना नित्यवैरी |
४ क
विदुर उवाच:
अश्रद्दधानाय़ च यो व्रवीति; यश्चाकाम्यं कामय़ते नरेन्द्र ||
४ ख
विदुर उवाच:
वध्वा हासं श्वशुरो यश्च मन्यते; वध्वा वसन्नुत यो मानकामः |
५ क
विदुर उवाच:
परक्षेत्रे निर्वपति यश्च वीजं; स्त्रिय़ं च यः परिवदतेऽतिवेलम् ||
५ ख
विदुर उवाच:
यश्चैव लव्ध्वा न स्मरामीत्युवाच; दत्त्वा च यः कत्थति याच्यमानः |
६ क
विदुर उवाच:
यश्चासतः सान्त्वमुपासतीह; एतेऽनुय़ान्त्यनिलं पाशहस्ताः ||
६ ख
विदुर उवाच:
यस्मिन्यथा वर्तते यो मनुष्य; स्तस्मिंस्तथा वर्तितव्यं स धर्मः |
७ क
विदुर उवाच:
माय़ाचारो माय़या वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेय़ः ||
७ ख
धृतराष्ट्र उवाच:
शताय़ुरुक्तः पुरुषः सर्ववेदेषु वै यदा |
८ क
धृतराष्ट्र उवाच:
नाप्नोत्यथ च तत्सर्वमाय़ुः केनेह हेतुना ||
८ ख
विदुर उवाच:
अतिवादोऽतिमानश्च तथात्यागो नराधिप |
९ क
विदुर उवाच:
क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ||
९ ख
विदुर उवाच:
एत एवासय़स्तीक्ष्णाः कृन्तन्त्याय़ूंषि देहिनाम् |
१० क
विदुर उवाच:
एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ||
१० ख
विदुर उवाच:
विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः |
११ क
विदुर उवाच:
वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ||
११ ख
विदुर उवाच:
शरणागतहा चैव सर्वे व्रह्महणैः समाः |
१२ क
विदुर उवाच:
एतैः समेत्य कर्तव्यं प्राय़श्चित्तमिति श्रुतिः ||
१२ ख
विदुर उवाच:
गृही वदान्योऽनपविद्धवाक्यः; शेषान्नभोक्ताप्यविहिंसकश्च |
१३ क
विदुर उवाच:
नानर्थकृत्त्यक्तकलिः कृतज्ञः; सत्यो मृदुः स्वर्गमुपैति विद्वान् ||
१३ ख
विदुर उवाच:
सुलभाः पुरुषा राजन्सततं प्रिय़वादिनः |
१४ क
विदुर उवाच:
अप्रिय़स्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ||
१४ ख
विदुर उवाच:
यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रिय़ाप्रिय़े |
१५ क
विदुर उवाच:
अप्रिय़ाण्याह पथ्यानि तेन राजा सहाय़वान् ||
१५ ख
विदुर उवाच:
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् |
१६ क
विदुर उवाच:
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||
१६ ख
विदुर उवाच:
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि |
१७ क
विदुर उवाच:
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ||
१७ ख
विदुर उवाच:
उक्तं मय़ा द्यूतकालेऽपि राज; न्नैवं युक्तं वचनं प्रातिपीय़ |
१८ क
विदुर उवाच:
तदौषधं पथ्यमिवातुरस्य; न रोचते तव वैचित्रवीर्य ||
१८ ख
विदुर उवाच:
काकैरिमांश्चित्रवर्हान्मय़ूरा; न्पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः |
१९ क
विदुर उवाच:
हित्वा सिंहान्क्रोष्टुकान्गूहमानः; प्राप्ते काले शोचिता त्वं नरेन्द्र ||
१९ ख
विदुर उवाच:
यस्तात न क्रुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य |
२० क
विदुर उवाच:
तस्मिन्भृत्या भर्तरि विश्वसन्ति; न चैनमापत्सु परित्यजन्ति ||
२० ख
विदुर उवाच:
न भृत्यानां वृत्तिसंरोधनेन; वाह्यं जनं सञ्जिघृक्षेदपूर्वम् |
२१ क
विदुर उवाच:
त्यजन्ति ह्येनमुचितावरुद्धाः; स्निग्धा ह्यमात्याः परिहीनभोगाः ||
२१ ख
विदुर उवाच:
कृत्यानि पूर्वं परिसङ्ख्याय़ सर्वा; ण्याय़व्ययावनुरूपां च वृत्तिम् |
२२ क
विदुर उवाच:
सङ्गृह्णीय़ादनुरूपान्सहाय़ा; न्सहाय़साध्यानि हि दुष्कराणि ||
२२ ख
विदुर उवाच:
अभिप्राय़ं यो विदित्वा तु भर्तुः; सर्वाणि कार्याणि करोत्यतन्द्रीः |
२३ क
विदुर उवाच:
वक्ता हितानामनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ||
२३ ख
विदुर उवाच:
वाक्यं तु यो नाद्रिय़तेऽनुशिष्टः; प्रत्याह यश्चापि निय़ुज्यमानः |
२४ क
विदुर उवाच:
प्रज्ञाभिमानी प्रतिकूलवादी; त्याज्यः स तादृक्त्वरय़ैव भृत्यः ||
२४ ख
विदुर उवाच:
अस्तव्धमक्लीवमदीर्घसूत्रं; सानुक्रोशं श्लक्ष्णमहार्यमन्यैः |
२५ क
विदुर उवाच:
अरोगजातीय़मुदारवाक्यं; दूतं वदन्त्यष्टगुणोपपन्नम् ||
२५ ख
विदुर उवाच:
न विश्वासाज्जातु परस्य गेहं; गच्छेन्नरश्चेतय़ानो विकाले |
२६ क
विदुर उवाच:
न चत्वरे निशि तिष्ठेन्निगूढो; न राजन्यां योषितं प्रार्थय़ीत ||
२६ ख
विदुर उवाच:
न निह्नवं सत्रगतस्य गच्छे; त्संसृष्टमन्त्रस्य कुसङ्गतस्य |
२७ क
विदुर उवाच:
न च व्रूय़ान्नाश्वसामि त्वय़ीति; सकारणं व्यपदेशं तु कुर्यात् ||
२७ ख
विदुर उवाच:
घृणी राजा पुंश्चली राजभृत्यः; पुत्रो भ्राता विधवा वालपुत्रा |
२८ क
विदुर उवाच:
सेनाजीवी चोद्धृतभक्त एव; व्यवहारे वै वर्जनीय़ाः स्युरेते ||
२८ ख
विदुर उवाच:
गुणा दश स्नानशीलं भजन्ते; वलं रूपं स्वरवर्णप्रशुद्धिः |
२९ क
विदुर उवाच:
स्पर्शश्च गन्धश्च विशुद्धता च; श्रीः सौकुमार्यं प्रवराश्च नार्यः ||
२९ ख
विदुर उवाच:
गुणाश्च षण्मितभुक्तं भजन्ते; आरोग्यमाय़ुश्च सुखं वलं च |
३० क
विदुर उवाच:
अनाविलं चास्य भवेदपत्यं; न चैनमाद्यून इति क्षिपन्ति ||
३० ख
विदुर उवाच:
अकर्मशीलं च महाशनं च; लोकद्विष्टं वहुमाय़ं नृशंसम् |
३१ क
विदुर उवाच:
अदेशकालज्ञमनिष्टवेष; मेतान्गृहे न प्रतिवासय़ीत ||
३१ ख
विदुर उवाच:
कदर्यमाक्रोशकमश्रुतं च; वराकसम्भूतममान्यमानिनम् |
३२ क
विदुर उवाच:
निष्ठूरिणं कृतवैरं कृतघ्न; मेतान्भृशार्तोऽपि न जातु याचेत् ||
३२ ख
विदुर उवाच:
सङ्क्लिष्टकर्माणमतिप्रवादं; नित्यानृतं चादृढभक्तिकं च |
३३ क
विदुर उवाच:
विकृष्टरागं वहुमानिनं चा; प्येतान्न सेवेत नराधमान्षट् ||
३३ ख
विदुर उवाच:
सहाय़वन्धना ह्यर्थाः सहाय़ाश्चार्थवन्धनाः |
३४ क
विदुर उवाच:
अन्योन्यवन्धनावेतौ विनान्योन्यं न सिध्यतः ||
३४ ख
विदुर उवाच:
उत्पाद्य पुत्राननृणांश्च कृत्वा; वृत्तिं च तेभ्योऽनुविधाय़ काञ्चित् |
३५ क
विदुर उवाच:
स्थाने कुमारीः प्रतिपाद्य सर्वा; अरण्यसंस्थो मुनिवद्वुभूषेत् ||
३५ ख
विदुर उवाच:
हितं यत्सर्वभूतानामात्मनश्च सुखावहम् |
३६ क
विदुर उवाच:
तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धय़े ||
३६ ख
विदुर उवाच:
वुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च |
३७ क
विदुर उवाच:
व्यवसाय़श्च यस्य स्यात्तस्यावृत्तिभय़ं कुतः ||
३७ ख
विदुर उवाच:
पश्य दोषान्पाण्डवैर्विग्रहे त्वं; यत्र व्यथेरन्नपि देवाः सशक्राः |
३८ क
विदुर उवाच:
पुत्रैर्वैरं नित्यमुद्विग्नवासो; यशःप्रणाशो द्विषतां च हर्षः ||
३८ ख
विदुर उवाच:
भीष्मस्य कोपस्तव चेन्द्रकल्प; द्रोणस्य राज्ञश्च युधिष्ठिरस्य |
३९ क
विदुर उवाच:
उत्सादय़ेल्लोकमिमं प्रवृद्धः; श्वेतो ग्रहस्तिर्यगिवापतन्खे ||
३९ ख
विदुर उवाच:
तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः |
४० क
विदुर उवाच:
पृथिवीमनुशासेय़ुरखिलां सागराम्वराम् ||
४० ख
विदुर उवाच:
धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः |
४१ क
विदुर उवाच:
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ||
४१ ख
विदुर उवाच:
न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम् |
४२ क
विदुर उवाच:
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ||
४२ ख
विदुर उवाच:
न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् |
४३ क
विदुर उवाच:
यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ||
४३ ख
विदुर उवाच:
अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत् |
४४ क
विदुर उवाच:
न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ||
४४ ख
विदुर उवाच:
यस्यात्मा विरतः पापात्कल्याणे च निवेशितः |
४५ क
विदुर उवाच:
तेन सर्वमिदं वुद्धं प्रकृतिर्विकृतिश्च या ||
४५ ख
विदुर उवाच:
यो धर्ममर्थं कामं च यथाकालं निषेवते |
४६ क
विदुर उवाच:
धर्मार्थकामसंय़ोगं सोऽमुत्रेह च विन्दति ||
४६ ख
विदुर उवाच:
संनिय़च्छति यो वेगमुत्थितं क्रोधहर्षय़ोः |
४७ क
विदुर उवाच:
स श्रिय़ो भाजनं राजन्यश्चापत्सु न मुह्यति ||
४७ ख
विदुर उवाच:
वलं पञ्चविधं नित्यं पुरुषाणां निवोध मे |
४८ क
विदुर उवाच:
यत्तु वाहुवलं नाम कनिष्ठं वलमुच्यते ||
४८ ख
विदुर उवाच:
अमात्यलाभो भद्रं ते द्वितीय़ं वलमुच्यते |
४९ क
विदुर उवाच:
धनलाभस्तृतीय़ं तु वलमाहुर्जिगीषवः ||
४९ ख
विदुर उवाच:
यत्त्वस्य सहजं राजन्पितृपैतामहं वलम् |
५० क
विदुर उवाच:
अभिजातवलं नाम तच्चतुर्थं वलं स्मृतम् ||
५० ख