श्रीभगवानु उवाच:
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् |
१ क
श्रीभगवानु उवाच:
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ||
१ ख
श्रीभगवानु उवाच:
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा; गुणप्रवृद्धा विषय़प्रवालाः |
२ क
श्रीभगवानु उवाच:
अधश्च मूलान्यनुसन्ततानि; कर्मानुवन्धीनि मनुष्यलोके ||
२ ख
श्रीभगवानु उवाच:
न रूपमस्येह तथोपलभ्यते; नान्तो न चादिर्न च सम्प्रतिष्ठा |
३ क
श्रीभगवानु उवाच:
अश्वत्थमेनं सुविरूढमूल; मसङ्गशस्त्रेण दृढेन छित्त्वा ||
३ ख
श्रीभगवानु उवाच:
ततः पदं तत्परिमार्गितव्यं; यस्मिन्गता न निवर्तन्ति भूय़ः |
४ क
श्रीभगवानु उवाच:
तमेव चाद्यं पुरुषं प्रपद्ये; यतः प्रवृत्तिः प्रसृता पुराणी ||
४ ख
श्रीभगवानु उवाच:
निर्मानमोहा जितसङ्गदोषा; अध्यात्मनित्या विनिवृत्तकामाः |
५ क
श्रीभगवानु उवाच:
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञै; र्गच्छन्त्यमूढाः पदमव्ययं तत् ||
५ ख
श्रीभगवानु उवाच:
न तद्भासय़ते सूर्यो न शशाङ्को न पावकः |
६ क
श्रीभगवानु उवाच:
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ||
६ ख
श्रीभगवानु उवाच:
ममैवांशो जीवलोके जीवभूतः सनातनः |
७ क
श्रीभगवानु उवाच:
मनःषष्ठानीन्द्रिय़ाणि प्रकृतिस्थानि कर्षति ||
७ ख
श्रीभगवानु उवाच:
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः |
८ क
श्रीभगवानु उवाच:
गृहीत्वैतानि संय़ाति वाय़ुर्गन्धानिवाशय़ात् ||
८ ख
श्रीभगवानु उवाच:
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च |
९ क
श्रीभगवानु उवाच:
अधिष्ठाय़ मनश्चाय़ं विषय़ानुपसेवते ||
९ ख
श्रीभगवानु उवाच:
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |
१० क
श्रीभगवानु उवाच:
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||
१० ख
श्रीभगवानु उवाच:
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |
११ क
श्रीभगवानु उवाच:
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ||
११ ख
श्रीभगवानु उवाच:
यदादित्यगतं तेजो जगद्भासय़तेऽखिलम् |
१२ क
श्रीभगवानु उवाच:
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ||
१२ ख
श्रीभगवानु उवाच:
गामाविश्य च भूतानि धारय़ाम्यहमोजसा |
१३ क
श्रीभगवानु उवाच:
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||
१३ ख
श्रीभगवानु उवाच:
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |
१४ क
श्रीभगवानु उवाच:
प्राणापानसमाय़ुक्तः पचाम्यन्नं चतुर्विधम् ||
१४ ख
श्रीभगवानु उवाच:
सर्वस्य चाहं हृदि संनिविष्टो; मत्तः स्मृतिर्ज्ञानमपोहनं च |
१५ क
श्रीभगवानु उवाच:
वेदैश्च सर्वैरहमेव वेद्यो; वेदान्तकृद्वेदविदेव चाहम् ||
१५ ख
श्रीभगवानु उवाच:
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |
१६ क
श्रीभगवानु उवाच:
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ||
१६ ख
श्रीभगवानु उवाच:
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः |
१७ क
श्रीभगवानु उवाच:
यो लोकत्रय़माविश्य विभर्त्यव्यय ईश्वरः ||
१७ ख
श्रीभगवानु उवाच:
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |
१८ क
श्रीभगवानु उवाच:
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||
१८ ख
श्रीभगवानु उवाच:
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् |
१९ क
श्रीभगवानु उवाच:
स सर्वविद्भजति मां सर्वभावेन भारत ||
१९ ख
श्रीभगवानु उवाच:
इति गुह्यतमं शास्त्रमिदमुक्तं मय़ानघ |
२० क
श्रीभगवानु उवाच:
एतद्वुद्ध्वा वुद्धिमान्स्यात्कृतकृत्यश्च भारत ||
२० ख