chevron_left कर्ण पर्व अध्याय ३७
सञ्जय़ उवाच:
वर्तमाने तदा युद्धे क्षत्रिय़ाणां निमज्जने |
१ क
सञ्जय़ उवाच:
गाण्डीवस्य महान्घोषः शुश्रुवे युधि मारिष ||
१ ख
सञ्जय़ उवाच:
संशप्तकानां कदनमकरोद्यत्र पाण्डवः |
२ क
सञ्जय़ उवाच:
कोसलानां तथा राजन्नाराय़णवलस्य च ||
२ ख
सञ्जय़ उवाच:
संशप्तकास्तु समरे शरवृष्टिं समन्ततः |
३ क
सञ्जय़ उवाच:
अपातय़न्पार्थमूर्ध्नि जय़गृद्धाः प्रमन्यवः ||
३ ख
सञ्जय़ उवाच:
तां वृष्टिं सहसा राजंस्तरसा धारय़न्प्रभुः |
४ क
सञ्जय़ उवाच:
व्यगाहत रणे पार्थो विनिघ्नन्रथिनां वरः ||
४ ख
सञ्जय़ उवाच:
निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः |
५ क
सञ्जय़ उवाच:
आससाद रणे पार्थः सुशर्माणं महारथम् ||
५ ख
सञ्जय़ उवाच:
स तस्य शरवर्षाणि ववर्ष रथिनां वरः |
६ क
सञ्जय़ उवाच:
तथा संशप्तकाश्चैव पार्थस्य समरे स्थिताः ||
६ ख
सञ्जय़ उवाच:
सुशर्मा तु ततः पार्थं विद्ध्वा नवभिराशुगैः |
७ क
सञ्जय़ उवाच:
जनार्दनं त्रिभिर्वाणैरभ्यहन्दक्षिणे भुजे |
७ ख
सञ्जय़ उवाच:
ततोऽपरेण भल्लेन केतुं विव्याध मारिष ||
७ ग
सञ्जय़ उवाच:
स वानरवरो राजन्विश्वकर्मकृतो महान् |
८ क
सञ्जय़ उवाच:
ननाद सुमहन्नादं भीषय़न्वै ननर्द च ||
८ ख
सञ्जय़ उवाच:
कपेस्तु निनदं श्रुत्वा सन्त्रस्ता तव वाहिनी |
९ क
सञ्जय़ उवाच:
भय़ं विपुलमादाय़ निश्चेष्टा समपद्यत ||
९ ख
सञ्जय़ उवाच:
ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप |
१० क
सञ्जय़ उवाच:
नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम् ||
१० ख
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां योधास्ते कुरुसत्तम |
११ क
सञ्जय़ उवाच:
अर्जुनं सिषिचुर्वाणैः पर्वतं जलदा इव |
११ ख
सञ्जय़ उवाच:
परिवव्रुस्तदा सर्वे पाण्डवस्य महारथम् ||
११ ग
सञ्जय़ उवाच:
ते हय़ान्रथचक्रे च रथेषाश्चापि भारत |
१२ क
सञ्जय़ उवाच:
निगृह्य वलवत्तूर्णं सिंहनादमथानदन् ||
१२ ख
सञ्जय़ उवाच:
अपरे जगृहुश्चैव केशवस्य महाभुजौ |
१३ क
सञ्जय़ उवाच:
पार्थमन्ये महाराज रथस्थं जगृहुर्मुदा ||
१३ ख
सञ्जय़ उवाच:
केशवस्तु तदा वाहू विधुन्वन्रणमूर्धनि |
१४ क
सञ्जय़ उवाच:
पातय़ामास तान्सर्वान्दुष्टहस्तीव हस्तिनः ||
१४ ख
सञ्जय़ उवाच:
ततः क्रुद्धो रणे पार्थः संवृतस्तैर्महारथैः |
१५ क
सञ्जय़ उवाच:
निगृहीतं रथं दृष्ट्वा केशवं चाप्यभिद्रुतम् |
१५ ख
सञ्जय़ उवाच:
रथारूढांश्च सुवहून्पदातींश्चाप्यपातय़त् ||
१५ ग
सञ्जय़ उवाच:
आसन्नांश्च ततो योधाञ्शरैरासन्नय़ोधिभिः |
१६ क
सञ्जय़ उवाच:
च्यावय़ामास समरे केशवं चेदमव्रवीत् ||
१६ ख
सञ्जय़ उवाच:
पश्य कृष्ण महावाहो संशप्तकगणान्मय़ा |
१७ क
सञ्जय़ उवाच:
कुर्वाणान्दारुणं कर्म वध्यमानान्सहस्रशः ||
१७ ख
सञ्जय़ उवाच:
रथवन्धमिमं घोरं पृथिव्यां नास्ति कश्चन |
१८ क
सञ्जय़ उवाच:
यः सहेत पुमाँल्लोके मदन्यो यदुपुङ्गव ||
१८ ख
सञ्जय़ उवाच:
इत्येवमुक्त्वा वीभत्सुर्देवदत्तमथाधमत् |
१९ क
सञ्जय़ उवाच:
पाञ्चजन्यं च कृष्णोऽपि पूरय़न्निव रोदसी ||
१९ ख
सञ्जय़ उवाच:
तं तु शङ्खस्वनं श्रुत्वा संशप्तकवरूथिनी |
२० क
सञ्जय़ उवाच:
सञ्चचाल महाराज वित्रस्ता चाभवद्भृशम् ||
२० ख
सञ्जय़ उवाच:
पदवन्धं ततश्चक्रे पाण्डवः परवीरहा |
२१ क
सञ्जय़ उवाच:
नागमस्त्रं महाराज सम्प्रोदीर्य मुहुर्मुहुः ||
२१ ख
सञ्जय़ उवाच:
यानुद्दिश्य रणे पार्थः पदवन्धं चकार ह |
२२ क
सञ्जय़ उवाच:
ते वद्धाः पदवन्धेन पाण्डवेन महात्मना |
२२ ख
सञ्जय़ उवाच:
निश्चेष्टा अभवन्राजन्नश्मसारमय़ा इव ||
२२ ग
सञ्जय़ उवाच:
निश्चेष्टांस्तु ततो योधानवधीत्पाण्डुनन्दनः |
२३ क
सञ्जय़ उवाच:
यथेन्द्रः समरे दैत्यांस्तारकस्य वधे पुरा ||
२३ ख
सञ्जय़ उवाच:
ते वध्यमानाः समरे मुमुचुस्तं रथोत्तमम् |
२४ क
सञ्जय़ उवाच:
आय़ुधानि च सर्वाणि विस्रष्टुमुपचक्रमुः ||
२४ ख
सञ्जय़ उवाच:
ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम् |
२५ क
सञ्जय़ उवाच:
सौपर्णमस्त्रं त्वरितः प्रादुश्चक्रे महारथः ||
२५ ख
सञ्जय़ उवाच:
ततः सुपर्णाः सम्पेतुर्भक्षय़न्तो भुजङ्गमान् |
२६ क
सञ्जय़ उवाच:
ते वै विदुद्रुवुर्नागा दृष्ट्वा तान्खचरान्नृप ||
२६ ख
सञ्जय़ उवाच:
वभौ वलं तद्विमुक्तं पदवन्धाद्विशां पते |
२७ क
सञ्जय़ उवाच:
मेघवृन्दाद्यथा मुक्तो भास्करस्तापय़न्प्रजाः ||
२७ ख
सञ्जय़ उवाच:
विप्रमुक्तास्तु ते योधाः फल्गुनस्य रथं प्रति |
२८ क
सञ्जय़ उवाच:
ससृजुर्वाणसङ्घांश्च शस्त्रसङ्घांश्च मारिष ||
२८ ख
सञ्जय़ उवाच:
तां महास्त्रमय़ीं वृष्टिं सञ्छिद्य शरवृष्टिभिः |
२९ क
सञ्जय़ उवाच:
व्यवातिष्ठत्ततो योधान्वासविः परवीरहा ||
२९ ख
सञ्जय़ उवाच:
सुशर्मा तु ततो राजन्वाणेनानतपर्वणा |
३० क
सञ्जय़ उवाच:
अर्जुनं हृदय़े विद्ध्वा विव्याधान्यैस्त्रिभिः शरैः |
३० ख
सञ्जय़ उवाच:
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ||
३० ग
सञ्जय़ उवाच:
प्रतिलभ्य ततः सञ्ज्ञां श्वेताश्वः कृष्णसारथिः |
३१ क
सञ्जय़ उवाच:
ऐन्द्रमस्त्रममेय़ात्मा प्रादुश्चक्रे त्वरान्वितः |
३१ ख
सञ्जय़ उवाच:
ततो वाणसहस्राणि समुत्पन्नानि मारिष ||
३१ ग
सञ्जय़ उवाच:
सर्वदिक्षु व्यदृश्यन्त सूदय़न्तो नृप द्विपान् |
३२ क
सञ्जय़ उवाच:
हय़ान्रथांश्च समरे शस्त्रैः शतसहस्रशः ||
३२ ख
सञ्जय़ उवाच:
वध्यमाने ततः सैन्ये विपुला भीः समाविशत् |
३३ क
सञ्जय़ उवाच:
संशप्तकगणानां च गोपालानां च भारत |
३३ ख
सञ्जय़ उवाच:
न हि कश्चित्पुमांस्तत्र योऽर्जुनं प्रत्ययुध्यत ||
३३ ग
सञ्जय़ उवाच:
पश्यतां तत्र वीराणामहन्यत महद्वलम् |
३४ क
सञ्जय़ उवाच:
हन्यमानमपश्यंश्च निश्चेष्टाः स्म पराक्रमे ||
३४ ख
सञ्जय़ उवाच:
अय़ुतं तत्र योधानां हत्वा पाण्डुसुतो रणे |
३५ क
सञ्जय़ उवाच:
व्यभ्राजत रणे राजन्विधूमोऽग्निरिव ज्वलन् ||
३५ ख
सञ्जय़ उवाच:
चतुर्दश सहस्राणि यानि शिष्टानि भारत |
३६ क
सञ्जय़ उवाच:
रथानामय़ुतं चैव त्रिसाहस्राश्च दन्तिनः ||
३६ ख
सञ्जय़ उवाच:
ततः संशप्तका भूय़ः परिवव्रुर्धनञ्जय़म् |
३७ क
सञ्जय़ उवाच:
मर्तव्यमिति निश्चित्य जय़ं वापि निवर्तनम् ||
३७ ख
सञ्जय़ उवाच:
तत्र युद्धं महद्ध्यासीत्तावकानां विशां पते |
३८ क
सञ्जय़ उवाच:
शूरेण वलिना सार्धं पाण्डवेन किरीटिना ||
३८ ख