chevron_left शान्ति पर्व अध्याय ३८
युधिष्ठिर उवाच:
श्रोतुमिच्छामि भगवन्विस्तरेण महामुने |
१ क
युधिष्ठिर उवाच:
राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ||
१ ख
युधिष्ठिर उवाच:
आपत्सु च यथा नीतिर्विधातव्या महीक्षिता |
२ क
युधिष्ठिर उवाच:
धर्म्यमालम्व्य पन्थानं विजय़ेय़ं कथं महीम् ||
२ ख
युधिष्ठिर उवाच:
प्राय़श्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता |
३ क
युधिष्ठिर उवाच:
कौतूहलानुप्रवणा हर्षं जनय़तीव मे ||
३ ख
युधिष्ठिर उवाच:
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते |
४ क
युधिष्ठिर उवाच:
येन मुह्यति मे चेतश्चिन्तय़ानस्य नित्यशः ||
४ ख
वैशम्पाय़न उवाच:
तमुवाच महातेजा व्यासो वेदविदां वरः |
५ क
वैशम्पाय़न उवाच:
नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ||
५ ख
वैशम्पाय़न उवाच:
श्रोतुमिच्छसि चेद्धर्मानखिलेन युधिष्ठिर |
६ क
वैशम्पाय़न उवाच:
प्रैहि भीष्मं महावाहो वृद्धं कुरुपितामहम् ||
६ ख
वैशम्पाय़न उवाच:
स ते सर्वरहस्येषु संशय़ान्मनसि स्थितान् |
७ क
वैशम्पाय़न उवाच:
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ||
७ ख
वैशम्पाय़न उवाच:
जनय़ामास यं देवी दिव्या त्रिपथगा नदी |
८ क
वैशम्पाय़न उवाच:
साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान् ||
८ ख
वैशम्पाय़न उवाच:
वृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः |
९ क
वैशम्पाय़न उवाच:
तोषय़ित्वोपचारेण राजनीतिमधीतवान् ||
९ ख
वैशम्पाय़न उवाच:
उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः |
१० क
वैशम्पाय़न उवाच:
तच्च सर्वं सवैय़ाख्यं प्राप्तवान्कुरुसत्तमः ||
१० ख
वैशम्पाय़न उवाच:
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपवृंहितान् |
११ क
वैशम्पाय़न उवाच:
प्रतिपेदे महावुद्धिर्वसिष्ठाच्च यतव्रतात् ||
११ ख
वैशम्पाय़न उवाच:
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् |
१२ क
वैशम्पाय़न उवाच:
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ||
१२ ख
वैशम्पाय़न उवाच:
मार्कण्डेय़मुखात्कृत्स्नं यतिधर्ममवाप्तवान् |
१३ क
वैशम्पाय़न उवाच:
रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ ||
१३ ख
वैशम्पाय़न उवाच:
मृत्युरात्मेच्छय़ा यस्य जातस्य मनुजेष्वपि |
१४ क
वैशम्पाय़न उवाच:
तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः ||
१४ ख
वैशम्पाय़न उवाच:
यस्य व्रह्मर्षय़ः पुण्या नित्यमासन्सभासदः |
१५ क
वैशम्पाय़न उवाच:
यस्य नाविदितं किञ्चिज्ज्ञानज्ञेय़ेषु विद्यते ||
१५ ख
वैशम्पाय़न उवाच:
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् |
१६ क
वैशम्पाय़न उवाच:
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ||
१६ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु कौन्तेय़ो दीर्घप्रज्ञो महाद्युतिः |
१७ क
वैशम्पाय़न उवाच:
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ||
१७ ख
वैशम्पाय़न उवाच:
वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम् |
१८ क
वैशम्पाय़न उवाच:
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ||
१८ ख
वैशम्पाय़न उवाच:
घातय़ित्वा तमेवाजौ छलेनाजिह्मय़ोधिनम् |
१९ क
वैशम्पाय़न उवाच:
उपसम्प्रष्टुमर्हामि तमहं केन हेतुना ||
१९ ख
वैशम्पाय़न उवाच:
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सय़ा |
२० क
वैशम्पाय़न उवाच:
पुनराह महावाहुर्यदुश्रेष्ठो महाद्युतिः ||
२० ख
वैशम्पाय़न उवाच:
नेदानीमतिनिर्वन्धं शोके कर्तुमिहार्हसि |
२१ क
वैशम्पाय़न उवाच:
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ||
२१ ख
वैशम्पाय़न उवाच:
व्राह्मणास्त्वां महावाहो भ्रातरश्च महौजसः |
२२ क
वैशम्पाय़न उवाच:
पर्जन्यमिव घर्मार्ता आशंसाना उपासते ||
२२ ख
वैशम्पाय़न उवाच:
हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् |
२३ क
वैशम्पाय़न उवाच:
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ||
२३ ख
वैशम्पाय़न उवाच:
प्रिय़ार्थमपि चैतेषां व्राह्मणानां महात्मनाम् |
२४ क
वैशम्पाय़न उवाच:
निय़ोगादस्य च गुरोर्व्यासस्यामिततेजसः ||
२४ ख
वैशम्पाय़न उवाच:
सुहृदां चास्मदादीनां द्रौपद्याश्च परन्तप |
२५ क
वैशम्पाय़न उवाच:
कुरु प्रिय़ममित्रघ्न लोकस्य च हितं कुरु ||
२५ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः |
२६ क
वैशम्पाय़न उवाच:
हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः ||
२६ ख
वैशम्पाय़न उवाच:
सोऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वय़म् |
२७ क
वैशम्पाय़न उवाच:
द्वैपाय़नेन च तथा देवस्थानेन जिष्णुना ||
२७ ख
वैशम्पाय़न उवाच:
एतैश्चान्यैश्च वहुभिरनुनीतो युधिष्ठिरः |
२८ क
वैशम्पाय़न उवाच:
व्यजहान्मानसं दुःखं सन्तापं च महामनाः ||
२८ ख
वैशम्पाय़न उवाच:
श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः |
२९ क
वैशम्पाय़न उवाच:
व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः ||
२९ ख
वैशम्पाय़न उवाच:
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः |
३० क
वैशम्पाय़न उवाच:
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ||
३० ख
वैशम्पाय़न उवाच:
प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः |
३१ क
वैशम्पाय़न उवाच:
अर्चय़ामास देवांश्च व्राह्मणांश्च सहस्रशः ||
३१ ख
वैशम्पाय़न उवाच:
ततो रथं नवं शुभ्रं कम्वलाजिनसंवृतम् |
३२ क
वैशम्पाय़न उवाच:
युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः ||
३२ ख
वैशम्पाय़न उवाच:
मन्त्रैरभ्यर्चितः पुण्यैः स्तूय़मानो महर्षिभिः |
३३ क
वैशम्पाय़न उवाच:
आरुरोह यथा देवः सोमोऽमृतमय़ं रथम् ||
३३ ख
वैशम्पाय़न उवाच:
जग्राह रश्मीन्कौन्तेय़ो भीमो भीमपराक्रमः |
३४ क
वैशम्पाय़न उवाच:
अर्जुनः पाण्डुरं छत्रं धारय़ामास भानुमत् ||
३४ ख
वैशम्पाय़न उवाच:
ध्रिय़माणं तु तच्छत्रं पाण्डुरं तस्य मूर्धनि |
३५ क
वैशम्पाय़न उवाच:
शुशुभे तारकाराजसितमभ्रमिवाम्वरे ||
३५ ख
वैशम्पाय़न उवाच:
चामरव्यजने चास्य वीरौ जगृहतुस्तदा |
३६ क
वैशम्पाय़न उवाच:
चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलङ्कृते ||
३६ ख
वैशम्पाय़न उवाच:
ते पञ्च रथमास्थाय़ भ्रातरः समलङ्कृताः |
३७ क
वैशम्पाय़न उवाच:
भूतानीव समस्तानि राजन्ददृशिरे तदा ||
३७ ख
वैशम्पाय़न उवाच:
आस्थाय़ तु रथं शुभ्रं युक्तमश्वैर्महाजवैः |
३८ क
वैशम्पाय़न उवाच:
अन्वय़ात्पृष्ठतो राजन्युय़ुत्सुः पाण्डवाग्रजम् ||
३८ ख
वैशम्पाय़न उवाच:
रथं हेममय़ं शुभ्रं सैन्यसुग्रीवय़ोजितम् |
३९ क
वैशम्पाय़न उवाच:
सह सात्यकिना कृष्णः समास्थाय़ान्वय़ात्कुरून् ||
३९ ख
वैशम्पाय़न उवाच:
नरय़ानेन तु ज्येष्ठः पिता पार्थस्य भारत |
४० क
वैशम्पाय़न उवाच:
अग्रतो धर्मराजस्य गान्धारीसहितो यय़ौ ||
४० ख
वैशम्पाय़न उवाच:
कुरुस्त्रिय़श्च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी |
४१ क
वैशम्पाय़न उवाच:
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ||
४१ ख
वैशम्पाय़न उवाच:
ततो रथाश्च वहुला नागाश्च समलङ्कृताः |
४२ क
वैशम्पाय़न उवाच:
पादाताश्च हय़ाश्चैव पृष्ठतः समनुव्रजन् ||
४२ ख
वैशम्पाय़न उवाच:
ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः |
४३ क
वैशम्पाय़न उवाच:
स्तूय़मानो यय़ौ राजा नगरं नागसाह्वय़म् ||
४३ ख
वैशम्पाय़न उवाच:
तत्प्रय़ाणं महावाहोर्वभूवाप्रतिमं भुवि |
४४ क
वैशम्पाय़न उवाच:
आकुलाकुलमुत्सृष्टं हृष्टपुष्टजनान्वितम् ||
४४ ख
वैशम्पाय़न उवाच:
अभिय़ाने तु पार्थस्य नरैर्नगरवासिभिः |
४५ क
वैशम्पाय़न उवाच:
नगरं राजमार्गश्च यथावत्समलङ्कृतम् ||
४५ ख
वैशम्पाय़न उवाच:
पाण्डुरेण च माल्येन पताकाभिश्च वेदिभिः |
४६ क
वैशम्पाय़न उवाच:
संवृतो राजमार्गश्च धूपनैश्च सुधूपितः ||
४६ ख
वैशम्पाय़न उवाच:
अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रिय़ङ्गुभिः |
४७ क
वैशम्पाय़न उवाच:
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ||
४७ ख
वैशम्पाय़न उवाच:
कुम्भाश्च नगरद्वारि वारिपूर्णा दृढा नवाः |
४८ क
वैशम्पाय़न उवाच:
कन्याः सुमनसश्छागाः स्थापितास्तत्र तत्र ह ||
४८ ख
वैशम्पाय़न उवाच:
तथा स्वलङ्कृतद्वारं नगरं पाण्डुनन्दनः |
४९ क
वैशम्पाय़न उवाच:
स्तूय़मानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ||
४९ ख