युधिष्ठिर उवाच:
स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम |
१ क
युधिष्ठिर उवाच:
स्त्रिय़ो हि मूलं दोषाणां लघुचित्ताः पितामह ||
१ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
२ क
भीष्म उवाच:
नारदस्य च संवादं पुंश्चल्या पञ्चचूडय़ा ||
२ ख
भीष्म उवाच:
लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा |
३ क
भीष्म उवाच:
ददर्शाप्सरसं व्राह्मीं पञ्चचूडामनिन्दिताम् ||
३ ख
भीष्म उवाच:
तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः |
४ क
भीष्म उवाच:
संशय़ो हृदि मे कश्चित्तन्मे व्रूहि सुमध्यमे ||
४ ख
भीष्म उवाच:
एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् |
५ क
भीष्म उवाच:
विषय़े सति वक्ष्यामि समर्थां मन्यसे च माम् ||
५ ख
नारद उवाच:
न त्वामविषय़े भद्रे निय़ोक्ष्यामि कथञ्चन |
६ क
नारद उवाच:
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ||
६ ख
भीष्म उवाच:
एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा |
७ क
भीष्म उवाच:
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रिय़ः ||
७ ख
भीष्म उवाच:
विदितास्ते स्त्रिय़ो याश्च यादृशाश्च स्वभावतः |
८ क
भीष्म उवाच:
न मामर्हसि देवर्षे निय़ोक्तुं प्रश्न ईदृशे ||
८ ख
भीष्म उवाच:
तामुवाच स देवर्षिः सत्यं वद सुमध्यमे |
९ क
भीष्म उवाच:
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ||
९ ख
भीष्म उवाच:
इत्युक्ता सा कृतमतिरभवच्चारुहासिनी |
१० क
भीष्म उवाच:
स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे ||
१० ख
पञ्चचूडो उवाच:
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः |
११ क
पञ्चचूडो उवाच:
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ||
११ ख
पञ्चचूडो उवाच:
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीय़स्तरमस्ति वै |
१२ क
पञ्चचूडो उवाच:
स्त्रिय़ो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ||
१२ ख
पञ्चचूडो उवाच:
समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् |
१३ क
पञ्चचूडो उवाच:
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ||
१३ ख
पञ्चचूडो उवाच:
असद्धर्मस्त्वय़ं स्त्रीणामस्माकं भवति प्रभो |
१४ क
पञ्चचूडो उवाच:
पापीय़सो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ||
१४ ख
पञ्चचूडो उवाच:
स्त्रिय़ं हि यः प्रार्थय़ते संनिकर्षं च गच्छति |
१५ क
पञ्चचूडो उवाच:
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ||
१५ ख
पञ्चचूडो उवाच:
अनर्थित्वान्मनुष्याणां भय़ात्परिजनस्य च |
१६ क
पञ्चचूडो उवाच:
मर्यादाय़ाममर्यादाः स्त्रिय़स्तिष्ठन्ति भर्तृषु ||
१६ ख
पञ्चचूडो उवाच:
नासां कश्चिदगम्योऽस्ति नासां वय़सि संस्थितिः |
१७ क
पञ्चचूडो उवाच:
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ||
१७ ख
पञ्चचूडो उवाच:
न भय़ान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन |
१८ क
पञ्चचूडो उवाच:
न ज्ञातिकुलसम्वन्धात्स्त्रिय़स्तिष्ठन्ति भर्तृषु ||
१८ ख
पञ्चचूडो उवाच:
यौवने वर्तमानानां मृष्टाभरणवाससाम् |
१९ क
पञ्चचूडो उवाच:
नारीणां स्वैरवृत्तानां स्पृहय़न्ति कुलस्त्रिय़ः ||
१९ ख
पञ्चचूडो उवाच:
याश्च शश्वद्वहुमता रक्ष्यन्ते दय़िताः स्त्रिय़ः |
२० क
पञ्चचूडो उवाच:
अपि ताः सम्प्रसज्जन्ते कुव्जान्धजडवामनैः ||
२० ख
पञ्चचूडो उवाच:
पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः |
२१ क
पञ्चचूडो उवाच:
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ||
२१ ख
पञ्चचूडो उवाच:
यदि पुंसां गतिर्व्रह्म कथञ्चिन्नोपपद्यते |
२२ क
पञ्चचूडो उवाच:
अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ||
२२ ख
पञ्चचूडो उवाच:
अलाभात्पुरुषाणां हि भय़ात्परिजनस्य च |
२३ क
पञ्चचूडो उवाच:
वधवन्धभय़ाच्चापि स्वय़ं गुप्ता भवन्ति ताः ||
२३ ख
पञ्चचूडो उवाच:
चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा |
२४ क
पञ्चचूडो उवाच:
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रिय़ः ||
२४ ख
पञ्चचूडो उवाच:
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः |
२५ क
पञ्चचूडो उवाच:
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ||
२५ ख
पञ्चचूडो उवाच:
इदमन्यच्च देवर्षे रहस्यं सर्वय़ोषिताम् |
२६ क
पञ्चचूडो उवाच:
दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रिय़ः ||
२६ ख
पञ्चचूडो उवाच:
कामानामपि दातारं कर्तारं मानसान्त्वय़ोः |
२७ क
पञ्चचूडो उवाच:
रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रिय़ः ||
२७ ख
पञ्चचूडो उवाच:
न कामभोगान्वहुलान्नालङ्कारार्थसञ्चय़ान् |
२८ क
पञ्चचूडो उवाच:
तथैव वहु मन्यन्ते यथा रत्यामनुग्रहम् ||
२८ ख
पञ्चचूडो उवाच:
अन्तकः शमनो मृत्युः पातालं वडवामुखम् |
२९ क
पञ्चचूडो उवाच:
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रिय़ः ||
२९ ख
पञ्चचूडो उवाच:
यतश्च भूतानि महान्ति पञ्च; यतश्च लोका विहिता विधात्रा |
३० क
पञ्चचूडो उवाच:
यतः पुमांसः प्रमदाश्च निर्मिता; स्तदैव दोषाः प्रमदासु नारद ||
३० ख