chevron_left आश्वमेधिक पर्व अध्याय ३८
व्रह्मो उवाच:
अतः परं प्रवक्ष्यामि तृतीय़ं गुणमुत्तमम् |
१ क
व्रह्मो उवाच:
सर्वभूतहितं लोके सतां धर्ममनिन्दितम् ||
१ ख
व्रह्मो उवाच:
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च |
२ क
व्रह्मो उवाच:
अकार्पण्यमसंरम्भः सन्तोषः श्रद्दधानता ||
२ ख
व्रह्मो उवाच:
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् |
३ क
व्रह्मो उवाच:
अक्रोधश्चानसूय़ा च शौचं दाक्ष्यं पराक्रमः ||
३ ख
व्रह्मो उवाच:
मुधा ज्ञानं मुधा वृत्तं मुधा सेवा मुधा श्रमः |
४ क
व्रह्मो उवाच:
एवं यो युक्तधर्मः स्यात्सोऽमुत्रानन्त्यमश्नुते ||
४ ख
व्रह्मो उवाच:
निर्ममो निरहङ्कारो निराशीः सर्वतः समः |
५ क
व्रह्मो उवाच:
अकामहत इत्येष सतां धर्मः सनातनः ||
५ ख
व्रह्मो उवाच:
विश्रम्भो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता |
६ क
व्रह्मो उवाच:
आनृशंस्यमसंमोहो दय़ा भूतेष्वपैशुनम् ||
६ ख
व्रह्मो उवाच:
हर्षस्तुष्टिर्विस्मय़श्च विनय़ः साधुवृत्तता |
७ क
व्रह्मो उवाच:
शान्तिकर्म विशुद्धिश्च शुभा वुद्धिर्विमोचनम् ||
७ ख
व्रह्मो उवाच:
उपेक्षा व्रह्मचर्यं च परित्यागश्च सर्वशः |
८ क
व्रह्मो उवाच:
निर्ममत्वमनाशीस्त्वमपरिक्रीतधर्मता ||
८ ख
व्रह्मो उवाच:
मुधा दानं मुधा यज्ञो मुधाधीतं मुधा व्रतम् |
९ क
व्रह्मो उवाच:
मुधा प्रतिग्रहश्चैव मुधा धर्मो मुधा तपः ||
९ ख
व्रह्मो उवाच:
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्त्वसंश्रय़ाः |
१० क
व्रह्मो उवाच:
व्राह्मणा व्रह्मय़ोनिस्थास्ते धीराः साधुदर्शिनः ||
१० ख
व्रह्मो उवाच:
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः |
११ क
व्रह्मो उवाच:
दिवं प्राप्य तु ते धीराः कुर्वते वै ततस्ततः ||
११ ख
व्रह्मो उवाच:
ईशित्वं च वशित्वं च लघुत्वं मनसश्च ते |
१२ क
व्रह्मो उवाच:
विकुर्वते महात्मानो देवास्त्रिदिवगा इव ||
१२ ख
व्रह्मो उवाच:
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः |
१३ क
व्रह्मो उवाच:
विकुर्वते प्रकृत्या वै दिवं प्राप्तास्ततस्ततः |
१३ ख
व्रह्मो उवाच:
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च ||
१३ ग
व्रह्मो उवाच:
इत्येतत्सात्त्विकं वृत्तं कथितं वो द्विजर्षभाः |
१४ क
व्रह्मो उवाच:
एतद्विज्ञाय़ विधिवल्लभते यद्यदिच्छति ||
१४ ख
व्रह्मो उवाच:
प्रकीर्तिताः सत्त्वगुणा विशेषतो; यथावदुक्तं गुणवृत्तमेव च |
१५ क
व्रह्मो उवाच:
नरस्तु यो वेद गुणानिमान्सदा; गुणान्स भुङ्क्ते न गुणैः स भुज्यते ||
१५ ख