chevron_left सभा पर्व अध्याय ३८
शिशुपाल उवाच:
विभीषिकाभिर्वह्वीभिर्भीषय़न्सर्वपार्थिवान् |
१ क
शिशुपाल उवाच:
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ||
१ ख
शिशुपाल उवाच:
युक्तमेतत्तृतीय़ाय़ां प्रकृतौ वर्तता त्वय़ा |
२ क
शिशुपाल उवाच:
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ||
२ ख
शिशुपाल उवाच:
नावि नौरिव सम्वद्धा यथान्धो वान्धमन्विय़ात् |
३ क
शिशुपाल उवाच:
तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः ||
३ ख
शिशुपाल उवाच:
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः |
४ क
शिशुपाल उवाच:
त्वय़ा कीर्तय़तास्माकं भूय़ः प्रच्यावितं मनः ||
४ ख
शिशुपाल उवाच:
अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः |
५ क
शिशुपाल उवाच:
कथं भीष्म न ते जिह्वा शतधेय़ं विदीर्यते ||
५ ख
शिशुपाल उवाच:
यत्र कुत्सा प्रय़ोक्तव्या भीष्म वालतरैर्नरैः |
६ क
शिशुपाल उवाच:
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ||
६ ख
शिशुपाल उवाच:
यद्यनेन हता वाल्ये शकुनिश्चित्रमत्र किम् |
७ क
शिशुपाल उवाच:
तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ ||
७ ख
शिशुपाल उवाच:
चेतनारहितं काष्ठं यद्यनेन निपातितम् |
८ क
शिशुपाल उवाच:
पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् ||
८ ख
शिशुपाल उवाच:
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः |
९ क
शिशुपाल उवाच:
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ||
९ ख
शिशुपाल उवाच:
भुक्तमेतेन वह्वन्नं क्रीडता नगमूर्धनि |
१० क
शिशुपाल उवाच:
इति ते भीष्म शृण्वानाः परं विस्मय़मागताः ||
१० ख
शिशुपाल उवाच:
यस्य चानेन धर्मज्ञ भुक्तमन्नं वलीय़सः |
११ क
शिशुपाल उवाच:
स चानेन हतः कंस इत्येतन्न महाद्भुतम् ||
११ ख
शिशुपाल उवाच:
न ते श्रुतमिदं भीष्म नूनं कथय़तां सताम् |
१२ क
शिशुपाल उवाच:
यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम ||
१२ ख
शिशुपाल उवाच:
स्त्रीषु गोषु न शस्त्राणि पातय़ेद्व्राह्मणेषु च |
१३ क
शिशुपाल उवाच:
यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः ||
१३ ख
शिशुपाल उवाच:
इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा |
१४ क
शिशुपाल उवाच:
भीष्म लोके हि तत्सर्वं वितथं त्वय़ि दृश्यते ||
१४ ख
शिशुपाल उवाच:
ज्ञानवृद्धं च वृद्धं च भूय़ांसं केशवं मम |
१५ क
शिशुपाल उवाच:
अजानत इवाख्यासि संस्तुवन्कुरुसत्तम |
१५ ख
शिशुपाल उवाच:
गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति ||
१५ ग
शिशुपाल उवाच:
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः |
१६ क
शिशुपाल उवाच:
सम्भावय़ति यद्येवं त्वद्वाक्याच्च जनार्दनः |
१६ ख
शिशुपाल उवाच:
एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् ||
१६ ग
शिशुपाल उवाच:
न गाथा गाथिनं शास्ति वहु चेदपि गाय़ति |
१७ क
शिशुपाल उवाच:
प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ||
१७ ख
शिशुपाल उवाच:
नूनं प्रकृतिरेषा ते जघन्या नात्र संशय़ः |
१८ क
शिशुपाल उवाच:
अतः पापीय़सी चैषां पाण्डवानामपीष्यते ||
१८ ख
शिशुपाल उवाच:
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः |
१९ क
शिशुपाल उवाच:
धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः ||
१९ ख
शिशुपाल उवाच:
को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः |
२० क
शिशुपाल उवाच:
कुर्याद्यथा त्वय़ा भीष्म कृतं धर्ममवेक्षता ||
२० ख
शिशुपाल उवाच:
अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना |
२१ क
शिशुपाल उवाच:
अम्वा नामेति भद्रं ते कथं सापहृता त्वय़ा ||
२१ ख
शिशुपाल उवाच:
यां त्वय़ापहृतां भीष्म कन्यां नैषितवान्नृपः |
२२ क
शिशुपाल उवाच:
भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः ||
२२ ख
शिशुपाल उवाच:
दारय़ोर्यस्य चान्येन मिषतः प्राज्ञमानिनः |
२३ क
शिशुपाल उवाच:
तव जातान्यपत्यानि सज्जनाचरिते पथि ||
२३ ख
शिशुपाल उवाच:
न हि धर्मोऽस्ति ते भीष्म व्रह्मचर्यमिदं वृथा |
२४ क
शिशुपाल उवाच:
यद्धारय़सि मोहाद्वा क्लीवत्वाद्वा न संशय़ः ||
२४ ख
शिशुपाल उवाच:
न त्वहं तव धर्मज्ञ पश्याम्युपचय़ं क्वचित् |
२५ क
शिशुपाल उवाच:
न हि ते सेविता वृद्धा य एवं धर्ममव्रुवन् ||
२५ ख
शिशुपाल उवाच:
इष्टं दत्तमधीतं च यज्ञाश्च वहुदक्षिणाः |
२६ क
शिशुपाल उवाच:
सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् ||
२६ ख
शिशुपाल उवाच:
व्रतोपवासैर्वहुभिः कृतं भवति भीष्म यत् |
२७ क
शिशुपाल उवाच:
सर्वं तदनपत्यस्य मोघं भवति निश्चय़ात् ||
२७ ख
शिशुपाल उवाच:
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् |
२८ क
शिशुपाल उवाच:
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुय़ा वधम् ||
२८ ख
शिशुपाल उवाच:
एवं हि कथय़न्त्यन्ये नरा ज्ञानविदः पुरा |
२९ क
शिशुपाल उवाच:
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ||
२९ ख
शिशुपाल उवाच:
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा |
३० क
शिशुपाल उवाच:
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह ||
३० ख
शिशुपाल उवाच:
धर्मं चरत माधर्ममिति तस्य वचः किल |
३१ क
शिशुपाल उवाच:
पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ||
३१ ख
शिशुपाल उवाच:
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः |
३२ क
शिशुपाल उवाच:
अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ||
३२ ख
शिशुपाल उवाच:
तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः |
३३ क
शिशुपाल उवाच:
समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ||
३३ ख
शिशुपाल उवाच:
तेषामण्डानि सर्वेषां भक्षय़ामास पापकृत् |
३४ क
शिशुपाल उवाच:
स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि ||
३४ ख
शिशुपाल उवाच:
ततः प्रक्षीय़माणेषु तेष्वण्डेष्वण्डजोऽपरः |
३५ क
शिशुपाल उवाच:
अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह ||
३५ ख
शिशुपाल उवाच:
ततः स कथय़ामास दृष्ट्वा हंसस्य किल्विषम् |
३६ क
शिशुपाल उवाच:
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ||
३६ ख
शिशुपाल उवाच:
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः |
३७ क
शिशुपाल उवाच:
निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ||
३७ ख
शिशुपाल उवाच:
ते त्वां हंससधर्माणमपीमे वसुधाधिपाः |
३८ क
शिशुपाल उवाच:
निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तमिवाण्डजम् ||
३८ ख
शिशुपाल उवाच:
गाथामप्यत्र गाय़न्ति ये पुराणविदो जनाः |
३९ क
शिशुपाल उवाच:
भीष्म यां तां च ते सम्यक्कथय़िष्यामि भारत ||
३९ ख
शिशुपाल उवाच:
अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम् |
४० क
शिशुपाल उवाच:
अण्डभक्षणमशुचि ते; कर्म वाचमतिशय़ते ||
४० ख