chevron_left वन पर्व अध्याय ३८
वैशम्पाय़न उवाच:
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
संस्मृत्य मुनिसन्देशमिदं वचनमव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् |
२ क
वैशम्पाय़न उवाच:
सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ||
२ ख
वैशम्पाय़न उवाच:
स मुहूर्तमिव ध्यात्वा वनवासमरिन्दमः |
३ क
वैशम्पाय़न उवाच:
धनञ्जय़ं धर्मराजो रहसीदमुवाच ह ||
३ ख
वैशम्पाय़न उवाच:
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत |
४ क
वैशम्पाय़न उवाच:
धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ||
४ ख
वैशम्पाय़न उवाच:
व्राह्मं दैवमासुरं च सप्रय़ोगचिकित्सितम् |
५ क
वैशम्पाय़न उवाच:
सर्वास्त्राणां प्रय़ोगं च तेऽभिजानन्ति कृत्स्नशः ||
५ ख
वैशम्पाय़न उवाच:
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः |
६ क
वैशम्पाय़न उवाच:
संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ||
६ ख
वैशम्पाय़न उवाच:
सर्वय़ोधेषु चैवास्य सदा वृत्तिरनुत्तमा |
७ क
वैशम्पाय़न उवाच:
शक्तिं न हापय़िष्यन्ति ते काले प्रतिपूजिताः ||
७ ख
वैशम्पाय़न उवाच:
अद्य चेय़ं मही कृत्स्ना दुर्योधनवशानुगा |
८ क
वैशम्पाय़न उवाच:
त्वय़ि व्यपाश्रय़ोऽस्माकं त्वय़ि भारः समाहितः |
८ ख
वैशम्पाय़न उवाच:
तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिन्दम ||
८ ग
वैशम्पाय़न उवाच:
कृष्णद्वैपाय़नात्तात गृहीतोपनिषन्मय़ा |
९ क
वैशम्पाय़न उवाच:
तय़ा प्रय़ुक्तय़ा सम्यग्जगत्सर्वं प्रकाशते |
९ ख
वैशम्पाय़न उवाच:
तेन त्वं व्रह्मणा तात संय़ुक्तः सुसमाहितः ||
९ ग
वैशम्पाय़न उवाच:
देवतानां यथाकालं प्रसादं प्रतिपालय़ |
१० क
वैशम्पाय़न उवाच:
तपसा योजय़ात्मानमुग्रेण भरतर्षभ ||
१० ख
वैशम्पाय़न उवाच:
धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः |
११ क
वैशम्पाय़न उवाच:
न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् |
११ ख
वैशम्पाय़न उवाच:
इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय़ ||
११ ग
वैशम्पाय़न उवाच:
वृत्राद्भीतैस्तदा देवैर्वलमिन्द्रे समर्पितम् |
१२ क
वैशम्पाय़न उवाच:
तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ||
१२ ख
वैशम्पाय़न उवाच:
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति |
१३ क
वैशम्पाय़न उवाच:
दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरन्दरम् ||
१३ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा धर्मराजस्तमध्यापय़त प्रभुः |
१४ क
वैशम्पाय़न उवाच:
दीक्षितं विधिना तेन यतवाक्काय़मानसम् |
१४ ख
वैशम्पाय़न उवाच:
अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः ||
१४ ग
वैशम्पाय़न उवाच:
निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरन्दरम् |
१५ क
वैशम्पाय़न उवाच:
धनुर्गाण्डीवमादाय़ तथाक्षय़्यौ महेषुधी ||
१५ ख
वैशम्पाय़न उवाच:
कवची सतलत्राणो वद्धगोधाङ्गुलित्रवान् |
१६ क
वैशम्पाय़न उवाच:
हुत्वाग्निं व्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ||
१६ ख
वैशम्पाय़न उवाच:
प्रातिष्ठत महावाहुः प्रगृहीतशरासनः |
१७ क
वैशम्पाय़न उवाच:
वधाय़ धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ||
१७ ख
वैशम्पाय़न उवाच:
तं दृष्ट्वा तत्र कौन्तेय़ं प्रगृहीतशरासनम् |
१८ क
वैशम्पाय़न उवाच:
अव्रुवन्व्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च |
१८ ख
वैशम्पाय़न उवाच:
क्षिप्रं प्राप्नुहि कौन्तेय़ मनसा यद्यदिच्छसि ||
१८ ग
वैशम्पाय़न उवाच:
तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् |
१९ क
वैशम्पाय़न उवाच:
मनांस्यादाय़ सर्वेषां कृष्णा वचनमव्रवीत् ||
१९ ख
वैशम्पाय़न उवाच:
यत्ते कुन्ती महावाहो जातस्यैच्छद्धनञ्जय़ |
२० क
वैशम्पाय़न उवाच:
तत्तेऽस्तु सर्वं कौन्तेय़ यथा च स्वय़मिच्छसि ||
२० ख
वैशम्पाय़न उवाच:
मास्माकं क्षत्रिय़कुले जन्म कश्चिदवाप्नुय़ात् |
२१ क
वैशम्पाय़न उवाच:
व्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका ||
२१ ख
वैशम्पाय़न उवाच:
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे |
२२ क
वैशम्पाय़न उवाच:
रंस्यन्ते वीरकर्माणि कीर्तय़न्तः पुनः पुनः ||
२२ ख
वैशम्पाय़न उवाच:
नैव नः पार्थ भोगेषु न धने नोत जीविते |
२३ क
वैशम्पाय़न उवाच:
तुष्टिर्वुद्धिर्भवित्री वा त्वय़ि दीर्घप्रवासिनि ||
२३ ख
वैशम्पाय़न उवाच:
त्वय़ि नः पार्थ सर्वेषां सुखदुःखे समाहिते |
२४ क
वैशम्पाय़न उवाच:
जीवितं मरणं चैव राज्यमैश्वर्यमेव च |
२४ ख
वैशम्पाय़न उवाच:
आपृष्टो मेऽसि कौन्तेय़ स्वस्ति प्राप्नुहि पाण्डव ||
२४ ग
वैशम्पाय़न उवाच:
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामय़म् |
२५ क
वैशम्पाय़न उवाच:
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत |
२५ ख
वैशम्पाय़न उवाच:
दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः ||
२५ ग
वैशम्पाय़न उवाच:
ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः |
२६ क
वैशम्पाय़न उवाच:
प्रातिष्ठत महावाहुः प्रगृह्य रुचिरं धनुः ||
२६ ख
वैशम्पाय़न उवाच:
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः |
२७ क
वैशम्पाय़न उवाच:
युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ||
२७ ख
वैशम्पाय़न उवाच:
सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः |
२८ क
वैशम्पाय़न उवाच:
मनोजवगतिर्भूत्वा योगय़ुक्तो यथानिलः ||
२८ ख
वैशम्पाय़न उवाच:
हिमवन्तमतिक्रम्य गन्धमादनमेव च |
२९ क
वैशम्पाय़न उवाच:
अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ||
२९ ख
वैशम्पाय़न उवाच:
इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जय़ः |
३० क
वैशम्पाय़न उवाच:
अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा ||
३० ख
वैशम्पाय़न उवाच:
ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम् |
३१ क
वैशम्पाय़न उवाच:
व्राह्म्या श्रिय़ा दीप्यमानं पिङ्गलं जटिलं कृशम् ||
३१ ख
वैशम्पाय़न उवाच:
सोऽव्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः |
३२ क
वैशम्पाय़न उवाच:
कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी |
३२ ख
वैशम्पाय़न उवाच:
निवद्धासितलत्राणः क्षत्रधर्ममनुव्रतः ||
३२ ग
वैशम्पाय़न उवाच:
नेह शस्त्रेण कर्तव्यं शान्तानामय़मालय़ः |
३३ क
वैशम्पाय़न उवाच:
विनीतक्रोधहर्षाणां व्राह्मणानां तपस्विनाम् ||
३३ ख
वैशम्पाय़न उवाच:
नेहास्ति धनुषा कार्यं न सङ्ग्रामेण कर्हिचित् |
३४ क
वैशम्पाय़न उवाच:
निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् ||
३४ ख
वैशम्पाय़न उवाच:
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् |
३५ क
वैशम्पाय़न उवाच:
तथा वाचमथाभीक्ष्णं व्राह्मणोऽर्जुनमव्रवीत् |
३५ ख
वैशम्पाय़न उवाच:
न चैनं चालय़ामास धैर्यात्सुदृढनिश्चय़म् ||
३५ ग
वैशम्पाय़न उवाच:
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव |
३६ क
वैशम्पाय़न उवाच:
वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ||
३६ ख
वैशम्पाय़न उवाच:
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जय़ः |
३७ क
वैशम्पाय़न उवाच:
प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ||
३७ ख
वैशम्पाय़न उवाच:
ईप्सितो ह्येष मे कामो वरं चैनं प्रय़च्छ मे |
३८ क
वैशम्पाय़न उवाच:
त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् ||
३८ ख
वैशम्पाय़न उवाच:
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव |
३९ क
वैशम्पाय़न उवाच:
इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनञ्जय़ |
३९ ख
वैशम्पाय़न उवाच:
कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् ||
३९ ग
वैशम्पाय़न उवाच:
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जय़ः |
४० क
वैशम्पाय़न उवाच:
न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् ||
४० ख
वैशम्पाय़न उवाच:
न च सर्वामरैश्वर्यं कामय़े त्रिदशाधिप |
४१ क
वैशम्पाय़न उवाच:
भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतिय़ात्य च |
४१ ख
वैशम्पाय़न उवाच:
अकीर्तिं सर्वलोकेषु गच्छेय़ं शाश्वतीः समाः ||
४१ ग
वैशम्पाय़न उवाच:
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् |
४२ क
वैशम्पाय़न उवाच:
सान्त्वय़ञ्श्लक्ष्णय़ा वाचा सर्वलोकनमस्कृतः ||
४२ ख
वैशम्पाय़न उवाच:
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् |
४३ क
वैशम्पाय़न उवाच:
तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः ||
४३ ख
वैशम्पाय़न उवाच:
क्रिय़तां दर्शने यत्नो देवस्य परमेष्ठिनः |
४४ क
वैशम्पाय़न उवाच:
दर्शनात्तस्य कौन्तेय़ संसिद्धः स्वर्गमेष्यसि ||
४४ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः |
४५ क