chevron_left द्रोण पर्व अध्याय २६
सञ्जय़ उवाच:
यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि |
१ क
सञ्जय़ उवाच:
तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे ||
१ ख
सञ्जय़ उवाच:
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् |
२ क
सञ्जय़ उवाच:
भज्यतां भगदत्तेन कौन्तेय़ः कृष्णमव्रवीत् ||
२ ख
सञ्जय़ उवाच:
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन |
३ क
सञ्जय़ उवाच:
त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः ||
३ ख
सञ्जय़ उवाच:
इन्द्रादनवरः सङ्ख्ये गजय़ानविशारदः |
४ क
सञ्जय़ उवाच:
प्रथमो वा द्वितीय़ो वा पृथिव्यामिति मे मतिः ||
४ ख
सञ्जय़ उवाच:
स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि |
५ क
सञ्जय़ उवाच:
सर्वशव्दातिगः सङ्ख्ये कृतकर्मा जितक्लमः ||
५ ख
सञ्जय़ उवाच:
सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ |
६ क
सञ्जय़ उवाच:
स पाण्डववलं व्यक्तमद्यैको नाशय़िष्यति ||
६ ख
सञ्जय़ उवाच:
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिवाधितुम् |
७ क
सञ्जय़ उवाच:
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ||
७ ख
सञ्जय़ उवाच:
शक्रसख्याद्द्विपवलैर्वय़सा चापि विस्मितम् |
८ क
सञ्जय़ उवाच:
अद्यैनं प्रेषय़िष्यामि वलहन्तुः प्रिय़ातिथिम् ||
८ ख
सञ्जय़ उवाच:
वचनादथ कृष्णस्तु प्रय़यौ सव्यसाचिनः |
९ क
सञ्जय़ उवाच:
दार्यते भगदत्तेन यत्र पाण्डववाहिनी ||
९ ख
सञ्जय़ उवाच:
तं प्रय़ान्तं ततः पश्चादाह्वय़न्तो महारथाः |
१० क
सञ्जय़ उवाच:
संशप्तकाः समारोहन्सहस्राणि चतुर्दश ||
१० ख
सञ्जय़ उवाच:
दशैव तु सहस्राणि त्रिगर्तानां नराधिप |
११ क
सञ्जय़ उवाच:
चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः ||
११ ख
सञ्जय़ उवाच:
दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष |
१२ क
सञ्जय़ उवाच:
आहूय़मानस्य च तैरभवद्धृदय़ं द्विधा ||
१२ ख
सञ्जय़ उवाच:
किं नु श्रेय़स्करं कर्म भवेदिति विचिन्तय़न् |
१३ क
सञ्जय़ उवाच:
इतो वा विनिवर्तेय़ं गच्छेय़ं वा युधिष्ठिरम् ||
१३ ख
सञ्जय़ उवाच:
तस्य वुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह |
१४ क
सञ्जय़ उवाच:
अभवद्भूय़सी वुद्धिः संशप्तकवधे स्थिरा ||
१४ ख
सञ्जय़ उवाच:
स संनिवृत्तः सहसा कपिप्रवरकेतनः |
१५ क
सञ्जय़ उवाच:
एको रथसहस्राणि निहन्तुं वासवी रणे ||
१५ ख
सञ्जय़ उवाच:
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभय़ोः |
१६ क
सञ्जय़ उवाच:
अर्जुनस्य वधोपाय़े तेन द्वैधमकल्पय़त् ||
१६ ख
सञ्जय़ उवाच:
स तु संवर्तय़ामास द्वैधीभावेन पाण्डवः |
१७ क
सञ्जय़ उवाच:
रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा ||
१७ ख
सञ्जय़ उवाच:
ततः शतसहस्राणि शराणां नतपर्वणाम् |
१८ क
सञ्जय़ उवाच:
व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः ||
१८ ख
सञ्जय़ उवाच:
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः |
१९ क
सञ्जय़ उवाच:
न हय़ा न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ||
१९ ख
सञ्जय़ उवाच:
यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः |
२० क
सञ्जय़ उवाच:
ततस्तान्प्राय़शः पार्थो वज्रास्त्रेण निजघ्निवान् ||
२० ख
सञ्जय़ उवाच:
शतशः पाणय़श्छिन्नाः सेषुज्यातलकार्मुकाः |
२१ क
सञ्जय़ उवाच:
केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ||
२१ ख
सञ्जय़ उवाच:
द्रुमाचलाग्राम्वुधरैः समरूपाः सुकल्पिताः |
२२ क
सञ्जय़ उवाच:
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ||
२२ ख
सञ्जय़ उवाच:
विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः |
२३ क
सञ्जय़ उवाच:
सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः ||
२३ ख
सञ्जय़ उवाच:
सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः |
२४ क
सञ्जय़ उवाच:
सञ्छिन्ना वाहवः पेतुर्नृणां भल्लैः किरीटिना ||
२४ ख
सञ्जय़ उवाच:
वालादित्याम्वुजेन्दूनां तुल्यरूपाणि मारिष |
२५ क
सञ्जय़ उवाच:
सञ्छिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे ||
२५ ख
सञ्जय़ उवाच:
जज्वालालङ्कृतैः सेना पत्रिभिः प्राणभोजनैः |
२६ क
सञ्जय़ उवाच:
नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने ||
२६ ख
सञ्जय़ उवाच:
क्षोभय़न्तं तदा सेनां द्विरदं नलिनीमिव |
२७ क
सञ्जय़ उवाच:
धनञ्जय़ं भूतगणाः साधु साध्वित्यपूजय़न् ||
२७ ख
सञ्जय़ उवाच:
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः |
२८ क
सञ्जय़ उवाच:
विस्मय़ं परमं गत्वा तलमाहत्य पूजय़त् ||
२८ ख
सञ्जय़ उवाच:
ततः संशप्तकान्हत्वा भूय़िष्ठं ये व्यवस्थिताः |
२९ क
सञ्जय़ उवाच:
भगदत्ताय़ याहीति पार्थः कृष्णमचोदय़त् ||
२९ ख