chevron_left द्रोण पर्व अध्याय ३८
धृतराष्ट्र उवाच:
द्वैधीभवति मे चित्तं ह्रिय़ा तुष्ट्या च सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
मम पुत्रस्य यत्सैन्यं सौभद्रः समवारय़त् ||
१ ख
धृतराष्ट्र उवाच:
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः |
२ क
धृतराष्ट्र उवाच:
विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ||
२ ख
सञ्जय़ उवाच:
हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम् |
३ क
सञ्जय़ उवाच:
एकस्य च वहूनां च यथासीत्तुमुलो रणः ||
३ ख
सञ्जय़ उवाच:
अभिमन्युः कृतोत्साहः कृतोत्साहानरिन्दमान् |
४ क
सञ्जय़ उवाच:
रथस्थो रथिनः सर्वांस्तावकानप्यहर्षय़त् ||
४ ख
सञ्जय़ उवाच:
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं वृहद्वलम् |
५ क
सञ्जय़ उवाच:
दुर्योधनं सौमदत्तिं शकुनिं च महावलम् ||
५ ख
सञ्जय़ उवाच:
नानानृपान्नृपसुतान्सैन्यानि विविधानि च |
६ क
सञ्जय़ उवाच:
अलातचक्रवत्सर्वांश्चरन्वाणैः समभ्ययात् ||
६ ख
सञ्जय़ उवाच:
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् |
७ क
सञ्जय़ उवाच:
अदर्शय़त तेजस्वी दिक्षु सर्वासु भारत ||
७ ख
सञ्जय़ उवाच:
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः |
८ क
सञ्जय़ उवाच:
समकम्पन्त सैन्यानि त्वदीय़ानि पुनः पुनः ||
८ ख
सञ्जय़ उवाच:
अथाव्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् |
९ क
सञ्जय़ उवाच:
हर्षेणोत्फुल्लनय़नः कृपमाभाष्य सत्वरम् ||
९ ख
सञ्जय़ उवाच:
घट्टय़न्निव मर्माणि तव पुत्रस्य मारिष |
१० क
सञ्जय़ उवाच:
अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ||
१० ख
सञ्जय़ उवाच:
एष गच्छति सौभद्रः पार्थानामग्रतो युवा |
११ क
सञ्जय़ उवाच:
नन्दय़न्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ||
११ ख
सञ्जय़ उवाच:
नकुलं सहदेवं च भीमसेनं च पाण्डवम् |
१२ क
सञ्जय़ उवाच:
वन्धून्सम्वन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ||
१२ ख
सञ्जय़ उवाच:
नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम् |
१३ क
सञ्जय़ उवाच:
इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ||
१३ ख
सञ्जय़ उवाच:
द्रोणस्य प्रीतिसंय़ुक्तं श्रुत्वा वाक्यं तवात्मजः |
१४ क
सञ्जय़ उवाच:
आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मय़न्निव ||
१४ ख
सञ्जय़ उवाच:
अथ दुर्योधनः कर्णमव्रवीद्वाह्लिकं कृपम् |
१५ क
सञ्जय़ उवाच:
दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ||
१५ ख
सञ्जय़ उवाच:
सर्वमूर्धावसिक्तानामाचार्यो व्रह्मवित्तमः |
१६ क
सञ्जय़ उवाच:
अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ||
१६ ख
सञ्जय़ उवाच:
न ह्यस्य समरे मुच्येदन्तकोऽप्यातताय़िनः |
१७ क
सञ्जय़ उवाच:
किमङ्ग पुनरेवान्यो मर्त्यः सत्यं व्रवीमि वः ||
१७ ख
सञ्जय़ उवाच:
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति |
१८ क
सञ्जय़ उवाच:
पुत्राः शिष्याश्च दय़ितास्तदपत्यं च धर्मिणाम् ||
१८ ख
सञ्जय़ उवाच:
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः |
१९ क
सञ्जय़ उवाच:
आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् ||
१९ ख
सञ्जय़ उवाच:
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः |
२० क
सञ्जय़ उवाच:
संरव्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ||
२० ख
सञ्जय़ उवाच:
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा |
२१ क
सञ्जय़ उवाच:
अव्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ||
२१ ख
सञ्जय़ उवाच:
अहमेनं हनिष्यामि महाराज व्रवीमि ते |
२२ क
सञ्जय़ उवाच:
मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् |
२२ ख
सञ्जय़ उवाच:
ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ||
२२ ग
सञ्जय़ उवाच:
उत्क्रुश्य चाव्रवीद्वाक्यं कुरुराजमिदं पुनः |
२३ क
सञ्जय़ उवाच:
श्रुत्वा कृष्णौ मय़ा ग्रस्तं सौभद्रमतिमानिनौ |
२३ ख
सञ्जय़ उवाच:
गमिष्यतः प्रेतलोकं जीवलोकान्न संशय़ः ||
२३ ग
सञ्जय़ उवाच:
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः |
२४ क
सञ्जय़ उवाच:
एकाह्ना ससुहृद्वर्गाः क्लैव्याद्धास्यन्ति जीवितम् ||
२४ ख
सञ्जय़ उवाच:
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव |
२५ क
सञ्जय़ उवाच:
शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ||
२५ ख
सञ्जय़ उवाच:
एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव |
२६ क
सञ्जय़ उवाच:
सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ||
२६ ख
सञ्जय़ उवाच:
तमभिक्रुद्धमाय़ान्तं तव पुत्रमरिन्दमः |
२७ क
सञ्जय़ उवाच:
अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पय़त् ||
२७ ख
सञ्जय़ उवाच:
दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः |
२८ क
सञ्जय़ उवाच:
अय़ोधय़त सौभद्रमभिमन्युश्च तं रणे ||
२८ ख
सञ्जय़ उवाच:
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् |
२९ क
सञ्जय़ उवाच:
चरमाणावय़ुध्येतां रथशिक्षाविशारदौ ||
२९ ख
सञ्जय़ उवाच:
अथ पणवमृदङ्गदुन्दुभीनां; कृकरमहानकभेरिझर्झराणाम् |
३० क
सञ्जय़ उवाच:
निनदमतिभृशं नराः प्रचक्रु; र्लवणजलोद्भवसिंहनादमिश्रम् ||
३० ख