chevron_left कर्ण पर्व अध्याय ३८
सञ्जय़ उवाच:
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष |
१ क
सञ्जय़ उवाच:
उलूकः सौवलश्चैव राजा च सह सोदरैः ||
१ ख
सञ्जय़ उवाच:
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभय़ार्दिताम् |
२ क
सञ्जय़ उवाच:
समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे ||
२ ख
सञ्जय़ उवाच:
ततो युद्धमतीवासीन्मुहूर्तमिव भारत |
३ क
सञ्जय़ उवाच:
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ||
३ ख
सञ्जय़ उवाच:
कृपेण शरवर्षाणि विप्रमुक्तानि संय़ुगे |
४ क
सञ्जय़ उवाच:
सृञ्जय़ाः शातय़ामासुः शलभानां व्रजा इव ||
४ ख
सञ्जय़ उवाच:
शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो यय़ौ |
५ क
सञ्जय़ उवाच:
ववर्ष शरवर्षाणि समन्तादेव व्राह्मणे ||
५ ख
सञ्जय़ उवाच:
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित् |
६ क
सञ्जय़ उवाच:
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः ||
६ ख
सञ्जय़ उवाच:
ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे |
७ क
सञ्जय़ उवाच:
कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः ||
७ ख
सञ्जय़ उवाच:
ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः |
८ क
सञ्जय़ उवाच:
व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः ||
८ ख
सञ्जय़ उवाच:
हताश्वात्तु ततो यानादवप्लुत्य महारथः |
९ क
सञ्जय़ उवाच:
चर्मखड्गे च सङ्गृह्य सत्वरं व्राह्मणं यय़ौ ||
९ ख
सञ्जय़ उवाच:
तमापतन्तं सहसा शरैः संनतपर्वभिः |
१० क
सञ्जय़ उवाच:
छादय़ामास समरे तदद्भुतमिवाभवत् ||
१० ख
सञ्जय़ उवाच:
तत्राद्भुतमपश्याम शिलानां प्लवनं यथा |
११ क
सञ्जय़ उवाच:
निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत ||
११ ख
सञ्जय़ उवाच:
कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम् |
१२ क
सञ्जय़ उवाच:
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः ||
१२ ख
सञ्जय़ उवाच:
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति |
१३ क
सञ्जय़ उवाच:
प्रतिजग्राह वेगेन कृतवर्मा महारथः ||
१३ ख
सञ्जय़ उवाच:
युधिष्ठिरमथाय़ान्तं शारद्वतरथं प्रति |
१४ क
सञ्जय़ उवाच:
सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारय़त् ||
१४ ख
सञ्जय़ उवाच:
नकुलं सहदेवं च त्वरमाणौ महारथौ |
१५ क
सञ्जय़ उवाच:
प्रतिजग्राह ते पुत्रः शरवर्षेण वारय़न् ||
१५ ख
सञ्जय़ उवाच:
भीमसेनं करूषांश्च केकय़ान्सहसृञ्जय़ान् |
१६ क
सञ्जय़ उवाच:
कर्णो वैकर्तनो युद्धे वारय़ामास भारत ||
१६ ख
सञ्जय़ उवाच:
शिखण्डिनस्ततो वाणान्कृपः शारद्वतो युधि |
१७ क
सञ्जय़ उवाच:
प्राहिणोत्त्वरय़ा युक्तो दिधक्षुरिव मारिष ||
१७ ख
सञ्जय़ उवाच:
ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान् |
१८ क
सञ्जय़ उवाच:
चिच्छेद खड्गमाविध्य भ्रामय़ंश्च पुनः पुनः ||
१८ ख
सञ्जय़ उवाच:
शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह |
१९ क
सञ्जय़ उवाच:
व्यधमत्साय़कैस्तूर्णं तत उच्चुक्रुशुर्जनाः ||
१९ ख
सञ्जय़ उवाच:
स विचर्मा महाराज खड्गपाणिरुपाद्रवत् |
२० क
सञ्जय़ उवाच:
कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः ||
२० ख
सञ्जय़ उवाच:
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महावलम् |
२१ क
सञ्जय़ उवाच:
चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो यय़ौ ||
२१ ख
सञ्जय़ उवाच:
विकिरन्व्राह्मणं युद्धे वहुभिर्निशितैः शरैः |
२२ क
सञ्जय़ उवाच:
अभ्यापतदमेय़ात्मा गौतमस्य रथं प्रति ||
२२ ख
सञ्जय़ उवाच:
दृष्ट्वाविषह्यं तं युद्धे व्राह्मणं चरितव्रतम् |
२३ क
सञ्जय़ उवाच:
अपय़ातस्ततस्तूर्णं शिखण्डी राजसत्तम ||
२३ ख
सञ्जय़ उवाच:
सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः |
२४ क
सञ्जय़ उवाच:
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः ||
२४ ख
सञ्जय़ उवाच:
अथास्य सशरं चापं पुनश्चिच्छेद मारिष |
२५ क
सञ्जय़ उवाच:
सारथिं च शरेणास्य भृशं मर्मण्यताडय़त् ||
२५ ख
सञ्जय़ उवाच:
गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम् |
२६ क
सञ्जय़ उवाच:
सुकेतुं त्रिंशता वाणैः सर्वमर्मस्वताडय़त् ||
२६ ख
सञ्जय़ उवाच:
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे |
२७ क
सञ्जय़ उवाच:
भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम् ||
२७ ख
सञ्जय़ उवाच:
चलतस्तस्य काय़ात्तु शिरो ज्वलितकुण्डलम् |
२८ क
सञ्जय़ उवाच:
सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातय़त् ||
२८ ख
सञ्जय़ उवाच:
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम् |
२९ क
सञ्जय़ उवाच:
ततोऽस्य काय़ो वसुधां पश्चात्प्राप तदा च्युतः ||
२९ ख
सञ्जय़ उवाच:
तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः |
३० क
सञ्जय़ उवाच:
गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश ||
३० ख
सञ्जय़ उवाच:
धृष्टद्युम्नं तु समरे संनिवार्य महावलः |
३१ क
सञ्जय़ उवाच:
कृतवर्माव्रवीद्धृष्टस्तिष्ठ तिष्ठेति पार्षतम् ||
३१ ख
सञ्जय़ उवाच:
तदभूत्तुमुलं युद्धं वृष्णिपार्षतय़ो रणे |
३२ क
सञ्जय़ उवाच:
आमिषार्थे यथा युद्धं श्येनय़ोर्गृद्धय़ोर्नृप ||
३२ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु समरे हार्दिक्यं नवभिः शरैः |
३३ क
सञ्जय़ उवाच:
आजघानोरसि क्रुद्धः पीडय़न्हृदिकात्मजम् ||
३३ ख
सञ्जय़ उवाच:
कृतवर्मा तु समरे पार्षतेन दृढाहतः |
३४ क
सञ्जय़ उवाच:
पार्षतं सरथं साश्वं छादय़ामास साय़कैः ||
३४ ख
सञ्जय़ उवाच:
सरथश्छादितो राजन्धृष्टद्युम्नो न दृश्यते |
३५ क
सञ्जय़ उवाच:
मेघैरिव परिच्छन्नो भास्करो जलदागमे ||
३५ ख
सञ्जय़ उवाच:
विधूय़ तं वाणगणं शरैः कनकभूषणैः |
३६ क
सञ्जय़ उवाच:
व्यरोचत रणे राजन्धृष्टद्युम्नः कृतव्रणः ||
३६ ख
सञ्जय़ उवाच:
ततस्तु पार्षतः क्रुद्धः शस्त्रवृष्टिं सुदारुणाम् |
३७ क
सञ्जय़ उवाच:
कृतवर्माणमासाद्य व्यसृजत्पृतनापतिः ||
३७ ख
सञ्जय़ उवाच:
तामापतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम् |
३८ क
सञ्जय़ उवाच:
शरैरनेकसाहस्रैर्हार्दिक्यो व्यधमद्युधि ||
३८ ख
सञ्जय़ उवाच:
दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम् |
३९ क
सञ्जय़ उवाच:
कृतवर्माणमभ्येत्य वारय़ामास पार्षतः ||
३९ ख
सञ्जय़ उवाच:
सारथिं चास्य तरसा प्राहिणोद्यमसादनम् |
४० क
सञ्जय़ उवाच:
भल्लेन शितधारेण स हतः प्रापतद्रथात् ||
४० ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्तु वलवाञ्जित्वा शत्रुं महारथम् |
४१ क
सञ्जय़ उवाच:
कौरवान्समरे तूर्णं वारय़ामास साय़कैः ||
४१ ख
सञ्जय़ उवाच:
ततस्ते तावका योधा धृष्टद्युम्नमुपाद्रवन् |
४२ क
सञ्जय़ उवाच:
सिंहनादरवं कृत्वा ततो युद्धमवर्तत ||
४२ ख