वैशम्पाय़न उवाच:
प्रवेशने तु पार्थानां जनस्य पुरवासिनः |
१ क
वैशम्पाय़न उवाच:
दिदृक्षूणां सहस्राणि समाजग्मुर्वहून्यथ ||
१ ख
वैशम्पाय़न उवाच:
स राजमार्गः शुशुभे समलङ्कृतचत्वरः |
२ क
वैशम्पाय़न उवाच:
यथा चन्द्रोदय़े राजन्वर्धमानो महोदधिः ||
२ ख
वैशम्पाय़न उवाच:
गृहाणि राजमार्गे तु रत्नवन्ति वृहन्ति च |
३ क
वैशम्पाय़न उवाच:
प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत ||
३ ख
वैशम्पाय़न उवाच:
ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम् |
४ क
वैशम्पाय़न उवाच:
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ||
४ ख
वैशम्पाय़न उवाच:
धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान् |
५ क
वैशम्पाय़न उवाच:
उपतिष्ठसि कल्याणि महर्षीनिव गौतमी ||
५ ख
वैशम्पाय़न उवाच:
तव कर्माण्यमोघानि व्रतचर्या च भामिनि |
६ क
वैशम्पाय़न उवाच:
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रिय़ः ||
६ ख
वैशम्पाय़न उवाच:
प्रशंसावचनैस्तासां मिथःशव्दैश्च भारत |
७ क
वैशम्पाय़न उवाच:
प्रीतिजैश्च तदा शव्दैः पुरमासीत्समाकुलम् ||
७ ख
वैशम्पाय़न उवाच:
तमतीत्य यथाय़ुक्तं राजमार्गं युधिष्ठिरः |
८ क
वैशम्पाय़न उवाच:
अलङ्कृतं शोभमानमुपाय़ाद्राजवेश्म ह ||
८ ख
वैशम्पाय़न उवाच:
ततः प्रकृतय़ः सर्वाः पौरजानपदास्तथा |
९ क
वैशम्पाय़न उवाच:
ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः ||
९ ख
वैशम्पाय़न उवाच:
दिष्ट्या जय़सि राजेन्द्र शत्रूञ्शत्रुनिसूदन |
१० क
वैशम्पाय़न उवाच:
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च वलेन च ||
१० ख
वैशम्पाय़न उवाच:
भव नस्त्वं महाराज राजेह शरदां शतम् |
११ क
वैशम्पाय़न उवाच:
प्रजाः पालय़ धर्मेण यथेन्द्रस्त्रिदिवं नृप ||
११ ख
वैशम्पाय़न उवाच:
एवं राजकुलद्वारि मङ्गलैरभिपूजितः |
१२ क
वैशम्पाय़न उवाच:
आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः ||
१२ ख
वैशम्पाय़न उवाच:
प्रविश्य भवनं राजा देवराजगृहोपमम् |
१३ क
वैशम्पाय़न उवाच:
श्रुत्वा विजय़संय़ुक्तं रथात्पश्चादवातरत् ||
१३ ख
वैशम्पाय़न उवाच:
प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च |
१४ क
वैशम्पाय़न उवाच:
पूजय़ामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः ||
१४ ख
वैशम्पाय़न उवाच:
निश्चक्राम ततः श्रीमान्पुनरेव महाय़शाः |
१५ क
वैशम्पाय़न उवाच:
ददर्श व्राह्मणांश्चैव सोऽभिरूपानुपस्थितान् ||
१५ ख
वैशम्पाय़न उवाच:
स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः |
१६ क
वैशम्पाय़न उवाच:
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा ||
१६ ख
वैशम्पाय़न उवाच:
तान्स सम्पूजय़ामास कौन्तेय़ो विधिवद्द्विजान् |
१७ क
वैशम्पाय़न उवाच:
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च ||
१७ ख
वैशम्पाय़न उवाच:
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा |
१८ क
वैशम्पाय़न उवाच:
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः ||
१८ ख
वैशम्पाय़न उवाच:
ततः पुण्याहघोषोऽभूद्दिवं स्तव्ध्वेव भारत |
१९ क
वैशम्पाय़न उवाच:
सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः ||
१९ ख
वैशम्पाय़न उवाच:
हंसवन्नेदुषां राजन्द्विजानां तत्र भारती |
२० क
वैशम्पाय़न उवाच:
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा ||
२० ख
वैशम्पाय़न उवाच:
ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः |
२१ क
वैशम्पाय़न उवाच:
जय़ं प्रवदतां तत्र स्वनः प्रादुरभून्नृप ||
२१ ख
वैशम्पाय़न उवाच:
निःशव्दे च स्थिते तत्र ततो विप्रजने पुनः |
२२ क
वैशम्पाय़न उवाच:
राजानं व्राह्मणच्छद्मा चार्वाको राक्षसोऽव्रवीत् ||
२२ ख
वैशम्पाय़न उवाच:
तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः |
२३ क
वैशम्पाय़न उवाच:
साङ्ख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ||
२३ ख
वैशम्पाय़न उवाच:
वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः |
२४ क
वैशम्पाय़न उवाच:
परंसहस्रै राजेन्द्र तपोनिय़मसंस्थितैः ||
२४ ख
वैशम्पाय़न उवाच:
स दुष्टः पापमाशंसन्पाण्डवानां महात्मनाम् |
२५ क
वैशम्पाय़न उवाच:
अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम् ||
२५ ख
वैशम्पाय़न उवाच:
इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मय़ि |
२६ क
वैशम्पाय़न उवाच:
धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै ||
२६ ख
वैशम्पाय़न उवाच:
किं ते राज्येन कौन्तेय़ कृत्वेमं ज्ञातिसङ्क्षय़म् |
२७ क
वैशम्पाय़न उवाच:
घातय़ित्वा गुरूंश्चैव मृतं श्रेय़ो न जीवितम् ||
२७ ख
वैशम्पाय़न उवाच:
इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः |
२८ क
वैशम्पाय़न उवाच:
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः ||
२८ ख
वैशम्पाय़न उवाच:
ततस्ते व्राह्मणाः सर्वे स च राजा युधिष्ठिरः |
२९ क
वैशम्पाय़न उवाच:
व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशां पते ||
२९ ख
युधिष्ठिर उवाच:
प्रसीदन्तु भवन्तो मे प्रणतस्याभिय़ाचतः |
३० क
युधिष्ठिर उवाच:
प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ ||
३० ख
वैशम्पाय़न उवाच:
ततो राजन्व्राह्मणास्ते सर्व एव विशां पते |
३१ क
वैशम्पाय़न उवाच:
ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव ||
३१ ख
वैशम्पाय़न उवाच:
जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा |
३२ क
वैशम्पाय़न उवाच:
व्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः ||
३२ ख
व्राह्मणा ऊचुः:
एष दुर्योधनसखा चार्वाको नाम राक्षसः |
३३ क
व्राह्मणा ऊचुः:
परिव्राजकरूपेण हितं तस्य चिकीर्षति ||
३३ ख
व्राह्मणा ऊचुः:
न वय़ं व्रूम धर्मात्मन्व्येतु ते भय़मीदृशम् |
३४ क
व्राह्मणा ऊचुः:
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह ||
३४ ख
वैशम्पाय़न उवाच:
ततस्ते व्राह्मणाः सर्वे हुङ्कारैः क्रोधमूर्छिताः |
३५ क
वैशम्पाय़न उवाच:
निर्भर्त्सय़न्तः शुचय़ो निजघ्नुः पापराक्षसम् ||
३५ ख
वैशम्पाय़न उवाच:
स पपात विनिर्दग्धस्तेजसा व्रह्मवादिनाम् |
३६ क
वैशम्पाय़न उवाच:
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव ||
३६ ख
वैशम्पाय़न उवाच:
पूजिताश्च यय़ुर्विप्रा राजानमभिनन्द्य तम् |
३७ क
वैशम्पाय़न उवाच:
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः ||
३७ ख
वासुदेव उवाच:
व्राह्मणास्तात लोकेऽस्मिन्नर्चनीय़ाः सदा मम |
३८ क
वासुदेव उवाच:
एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः ||
३८ ख
वासुदेव उवाच:
पुरा कृतय़ुगे तात चार्वाको नाम राक्षसः |
३९ क
वासुदेव उवाच:
तपस्तेपे महावाहो वदर्यां वहुवत्सरम् ||
३९ ख
वासुदेव उवाच:
छन्द्यमानो वरेणाथ व्रह्मणा स पुनः पुनः |
४० क
वासुदेव उवाच:
अभय़ं सर्वभूतेभ्यो वरय़ामास भारत ||
४० ख
वासुदेव उवाच:
द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम् |
४१ क
वासुदेव उवाच:
अभय़ं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः ||
४१ ख
वासुदेव उवाच:
स तु लव्धवरः पापो देवानमितविक्रमः |
४२ क
वासुदेव उवाच:
राक्षसस्तापय़ामास तीव्रकर्मा महावलः ||
४२ ख
वासुदेव उवाच:
ततो देवाः समेत्याथ व्रह्माणमिदमव्रुवन् |
४३ क
वासुदेव उवाच:
वधाय़ रक्षसस्तस्य वलविप्रकृतास्तदा ||
४३ ख
वासुदेव उवाच:
तानुवाचाव्ययो देवो विहितं तत्र वै मय़ा |
४४ क
वासुदेव उवाच:
यथास्य भविता मृत्युरचिरेणैव भारत ||
४४ ख
वासुदेव उवाच:
राजा दुर्योधनो नाम सखास्य भविता नृप |
४५ क
वासुदेव उवाच:
तस्य स्नेहाववद्धोऽसौ व्राह्मणानवमंस्यते ||
४५ ख
वासुदेव उवाच:
तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः |
४६ क
वासुदेव उवाच:
धक्ष्यन्ति वाग्वलाः पापं ततो नाशं गमिष्यति ||
४६ ख
वासुदेव उवाच:
स एष निहतः शेते व्रह्मदण्डेन राक्षसः |
४७ क
वासुदेव उवाच:
चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ ||
४७ ख
वासुदेव उवाच:
हतास्ते क्षत्रधर्मेण ज्ञातय़स्तव पार्थिव |
४८ क
वासुदेव उवाच:
स्वर्गताश्च महात्मानो वीराः क्षत्रिय़पुङ्गवाः ||
४८ ख
वासुदेव उवाच:
स त्वमातिष्ठ कल्याणं मा ते भूद्ग्लानिरच्युत |
४९ क
वासुदेव उवाच:
शत्रूञ्जहि प्रजा रक्ष द्विजांश्च प्रतिपालय़ ||
४९ ख