युधिष्ठिर उवाच:
इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः |
१ क
युधिष्ठिर उवाच:
मोहेन परमाविष्टा दैवादिष्टेन पार्थिव |
१ ख
युधिष्ठिर उवाच:
स्त्रिय़श्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् ||
१ ग
युधिष्ठिर उवाच:
अत्र मे संशय़स्तीव्रो हृदि सम्परिवर्तते |
२ क
युधिष्ठिर उवाच:
कथमासां नराः सङ्गं कुर्वते कुरुनन्दन |
२ ख
युधिष्ठिर उवाच:
स्त्रिय़ो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः ||
२ ग
युधिष्ठिर उवाच:
इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम् |
३ क
युधिष्ठिर उवाच:
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ||
३ ख
युधिष्ठिर उवाच:
एता हि मय़माय़ाभिर्वञ्चय़न्तीह मानवान् |
४ क
युधिष्ठिर उवाच:
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः |
४ ख
युधिष्ठिर उवाच:
गावो नवतृणानीव गृह्णन्त्येव नवान्नवान् ||
४ ग
युधिष्ठिर उवाच:
शम्वरस्य च या माय़ा या माय़ा नमुचेरपि |
५ क
युधिष्ठिर उवाच:
वलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ||
५ ख
युधिष्ठिर उवाच:
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च |
६ क
युधिष्ठिर उवाच:
अप्रिय़ं प्रिय़वाक्यैश्च गृह्णते कालय़ोगतः ||
६ ख
युधिष्ठिर उवाच:
उशना वेद यच्छास्त्रं यच्च वेद वृहस्पतिः |
७ क
युधिष्ठिर उवाच:
स्त्रीवुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ||
७ ख
युधिष्ठिर उवाच:
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् |
८ क
युधिष्ठिर उवाच:
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ||
८ ख
युधिष्ठिर उवाच:
स्त्रीणां वुद्ध्युपनिष्कर्षादर्थशास्त्राणि शत्रुहन् |
९ क
युधिष्ठिर उवाच:
वृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै ||
९ ख
युधिष्ठिर उवाच:
सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु |
१० क
युधिष्ठिर उवाच:
अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रिय़ः ||
१० ख
युधिष्ठिर उवाच:
कस्ताः शक्तो रक्षितुं स्यादिति मे संशय़ो महान् |
११ क
युधिष्ठिर उवाच:
तन्मे व्रूहि महावाहो कुरूणां वंशवर्धन ||
११ ख
युधिष्ठिर उवाच:
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथञ्चन |
१२ क
युधिष्ठिर उवाच:
कर्तुं वा कृतपूर्वा वा तन्मे व्याख्यातुमर्हसि ||
१२ ख