व्रह्मो उवाच:
नैव शक्या गुणा वक्तुं पृथक्त्वेनेह सर्वशः |
१ क
व्रह्मो उवाच:
अविच्छिन्नानि दृश्यन्ते रजः सत्त्वं तमस्तथा ||
१ ख
व्रह्मो उवाच:
अन्योन्यमनुषज्जन्ते अन्योन्यं चानुजीविनः |
२ क
व्रह्मो उवाच:
अन्योन्यापाश्रय़ाः सर्वे तथान्योन्यानुवर्तिनः ||
२ ख
व्रह्मो उवाच:
यावत्सत्त्वं तमस्तावद्वर्तते नात्र संशय़ः |
३ क
व्रह्मो उवाच:
यावत्तमश्च सत्त्वं च रजस्तावदिहोच्यते ||
३ ख
व्रह्मो उवाच:
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः |
४ क
व्रह्मो उवाच:
सङ्घातवृत्तय़ो ह्येते वर्तन्ते हेत्वहेतुभिः ||
४ ख
व्रह्मो उवाच:
उद्रेकव्यतिरेकाणां तेषामन्योन्यवर्तिनाम् |
५ क
व्रह्मो उवाच:
वर्तते तद्यथान्यूनं व्यतिरिक्तं च सर्वशः ||
५ ख
व्रह्मो उवाच:
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत् |
६ क
व्रह्मो उवाच:
अल्पं तत्र रजो ज्ञेय़ं सत्त्वं चाल्पतरं ततः ||
६ ख
व्रह्मो उवाच:
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत् |
७ क
व्रह्मो उवाच:
अल्पं तत्र तमो ज्ञेय़ं सत्त्वं चाल्पतरं ततः ||
७ ख
व्रह्मो उवाच:
उद्रिक्तं च यदा सत्त्वमूर्ध्वस्रोतोगतं भवेत् |
८ क
व्रह्मो उवाच:
अल्पं तत्र रजो ज्ञेय़ं तमश्चाल्पतरं ततः ||
८ ख
व्रह्मो उवाच:
सत्त्वं वैकारिकं योनिरिन्द्रिय़ाणां प्रकाशिका |
९ क
व्रह्मो उवाच:
न हि सत्त्वात्परो भावः कश्चिदन्यो विधीय़ते ||
९ ख
व्रह्मो उवाच:
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |
१० क
व्रह्मो उवाच:
जघन्यगुणसंय़ुक्ता यान्त्यधस्तामसा जनाः ||
१० ख
व्रह्मो उवाच:
तमः शूद्रे रजः क्षत्रे व्राह्मणे सत्त्वमुत्तमम् |
११ क
व्रह्मो उवाच:
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रय़ः ||
११ ख
व्रह्मो उवाच:
दूरादपि हि दृश्यन्ते सहिताः सङ्घचारिणः |
१२ क
व्रह्मो उवाच:
तमः सत्त्वं रजश्चैव पृथक्त्वं नानुशुश्रुम ||
१२ ख
व्रह्मो उवाच:
दृष्ट्वा चादित्यमुद्यन्तं कुचोराणां भय़ं भवेत् |
१३ क
व्रह्मो उवाच:
अध्वगाः परितप्येरंस्तृष्णार्ता दुःखभागिनः ||
१३ ख
व्रह्मो उवाच:
आदित्यः सत्त्वमुद्दिष्टं कुचोरास्तु यथा तमः |
१४ क
व्रह्मो उवाच:
परितापोऽध्वगानां च राजसो गुण उच्यते ||
१४ ख
व्रह्मो उवाच:
प्राकाश्यं सत्त्वमादित्ये सन्तापो राजसो गुणः |
१५ क
व्रह्मो उवाच:
उपप्लवस्तु विज्ञेय़स्तामसस्तस्य पर्वसु ||
१५ ख
व्रह्मो उवाच:
एवं ज्योतिःषु सर्वेषु विवर्तन्ते गुणास्त्रय़ः |
१६ क
व्रह्मो उवाच:
पर्याय़ेण च वर्तन्ते तत्र तत्र तथा तथा ||
१६ ख
व्रह्मो उवाच:
स्थावरेषु च भूतेषु तिर्यग्भावगतं तमः |
१७ क
व्रह्मो उवाच:
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्त्विकः ||
१७ ख
व्रह्मो उवाच:
अहस्त्रिधा तु विज्ञेय़ं त्रिधा रात्रिर्विधीय़ते |
१८ क
व्रह्मो उवाच:
मासार्धमासवर्षाणि ऋतवः सन्धय़स्तथा ||
१८ ख
व्रह्मो उवाच:
त्रिधा दानानि दीय़न्ते त्रिधा यज्ञः प्रवर्तते |
१९ क
व्रह्मो उवाच:
त्रिधा लोकास्त्रिधा वेदास्त्रिधा विद्यास्त्रिधा गतिः ||
१९ ख
व्रह्मो उवाच:
भूतं भव्यं भविष्यच्च धर्मोऽर्थः काम इत्यपि |
२० क
व्रह्मो उवाच:
प्राणापानावुदानश्चाप्येत एव त्रय़ो गुणाः ||
२० ख
व्रह्मो उवाच:
यत्किञ्चिदिह वै लोके सर्वमेष्वेव तत्त्रिषु |
२१ क
व्रह्मो उवाच:
त्रय़ो गुणाः प्रवर्तन्ते अव्यक्ता नित्यमेव तु |
२१ ख
व्रह्मो उवाच:
सत्त्वं रजस्तमश्चैव गुणसर्गः सनातनः ||
२१ ग
व्रह्मो उवाच:
तमोऽव्यक्तं शिवं नित्यमजं योनिः सनातनः |
२२ क
व्रह्मो उवाच:
प्रकृतिर्विकारः प्रलय़ः प्रधानं प्रभवाप्ययौ ||
२२ ख
व्रह्मो उवाच:
अनुद्रिक्तमनूनं च ह्यकम्पमचलं ध्रुवम् |
२३ क
व्रह्मो उवाच:
सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम् |
२३ ख
व्रह्मो उवाच:
ज्ञेय़ानि नामधेय़ानि नरैरध्यात्मचिन्तकैः ||
२३ ग
व्रह्मो उवाच:
अव्यक्तनामानि गुणांश्च तत्त्वतो; यो वेद सर्वाणि गतीश्च केवलाः |
२४ क
व्रह्मो उवाच:
विमुक्तदेहः प्रविभागतत्त्ववि; त्स मुच्यते सर्वगुणैर्निरामय़ः ||
२४ ख