व्यास उवाच:
भद्रे द्रक्ष्यसि गान्धारि पुत्रान्भ्रातॄन्सखींस्तथा |
१ क
व्यास उवाच:
वधूश्च पतिभिः सार्धं निशि सुप्तोत्थिता इव ||
१ ख
व्यास उवाच:
कर्णं द्रक्ष्यति कुन्ती च सौभद्रं चापि यादवी |
२ क
व्यास उवाच:
द्रौपदी पञ्च पुत्रांश्च पितॄन्भ्रातॄंस्तथैव च ||
२ ख
व्यास उवाच:
पूर्वमेवैष हृदय़े व्यवसाय़ोऽभवन्मम |
३ क
व्यास उवाच:
यथास्मि चोदितो राज्ञा भवत्या पृथय़ैव च ||
३ ख
व्यास उवाच:
न ते शोच्या महात्मानः सर्व एव नरर्षभाः |
४ क
व्यास उवाच:
क्षत्रधर्मपराः सन्तस्तथा हि निधनं गताः ||
४ ख
व्यास उवाच:
भवितव्यमवश्यं तत्सुरकार्यमनिन्दिते |
५ क
व्यास उवाच:
अवतेरुस्ततः सर्वे देवभागैर्महीतलम् ||
५ ख
व्यास उवाच:
गन्धर्वाप्सरसश्चैव पिशाचा गुह्यराक्षसाः |
६ क
व्यास उवाच:
तथा पुण्यजनाश्चैव सिद्धा देवर्षय़ोऽपि च ||
६ ख
व्यास उवाच:
देवाश्च दानवाश्चैव तथा व्रह्मर्षय़ोऽमलाः |
७ क
व्यास उवाच:
त एते निधनं प्राप्ताः कुरुक्षेत्रे रणाजिरे ||
७ ख
व्यास उवाच:
गन्धर्वराजो यो धीमान्धृतराष्ट्र इति श्रुतः |
८ क
व्यास उवाच:
स एव मानुषे लोके धृतराष्ट्रः पतिस्तव ||
८ ख
व्यास उवाच:
पाण्डुं मरुद्गणं विद्धि विशिष्टतममच्युतम् |
९ क
व्यास उवाच:
धर्मस्यांशोऽभवत्क्षत्ता राजा चाय़ं युधिष्ठिरः ||
९ ख
व्यास उवाच:
कलिं दुर्योधनं विद्धि शकुनिं द्वापरं तथा |
१० क
व्यास उवाच:
दुःशासनादीन्विद्धि त्वं राक्षसाञ्शुभदर्शने ||
१० ख
व्यास उवाच:
मरुद्गणाद्भीमसेनं वलवन्तमरिन्दमम् |
११ क
व्यास उवाच:
विद्धि च त्वं नरमृषिमिमं पार्थं धनञ्जय़म् |
११ ख
व्यास उवाच:
नाराय़णं हृषीकेशमश्विनौ यमजावुभौ ||
११ ग
व्यास उवाच:
द्विधा कृत्वात्मनो देहमादित्यं तपतां वरम् |
१२ क
व्यास उवाच:
लोकांश्च तापय़ानं वै विद्धि कर्णं च शोभने |
१२ ख
व्यास उवाच:
यश्च वैरार्थमुद्भूतः सङ्घर्षजननस्तथा ||
१२ ग
व्यास उवाच:
यश्च पाण्डवदाय़ादो हतः षड्भिर्महारथैः |
१३ क
व्यास उवाच:
स सोम इह सौभद्रो योगादेवाभवद्द्विधा ||
१३ ख
व्यास उवाच:
द्रौपद्या सह सम्भूतं धृष्टद्युम्नं च पावकात् |
१४ क
व्यास उवाच:
अग्नेर्भागं शुभं विद्धि राक्षसं तु शिखण्डिनम् ||
१४ ख
व्यास उवाच:
द्रोणं वृहस्पतेर्भागं विद्धि द्रौणिं च रुद्रजम् |
१५ क
व्यास उवाच:
भीष्मं च विद्धि गाङ्गेय़ं वसुं मानुषतां गतम् ||
१५ ख
व्यास उवाच:
एवमेते महाप्राज्ञे देवा मानुष्यमेत्य हि |
१६ क
व्यास उवाच:
ततः पुनर्गताः स्वर्गं कृते कर्मणि शोभने ||
१६ ख
व्यास उवाच:
यच्च वो हृदि सर्वेषां दुःखमेनच्चिरं स्थितम् |
१७ क
व्यास उवाच:
तदद्य व्यपनेष्यामि परलोककृताद्भय़ात् ||
१७ ख
व्यास उवाच:
सर्वे भवन्तो गच्छन्तु नदीं भागीरथीं प्रति |
१८ क
व्यास उवाच:
तत्र द्रक्ष्यथ तान्सर्वान्ये हतास्मिन्रणाजिरे ||
१८ ख
वैशम्पाय़न उवाच:
इति व्यासस्य वचनं श्रुत्वा सर्वो जनस्तदा |
१९ क
वैशम्पाय़न उवाच:
महता सिंहनादेन गङ्गामभिमुखो यय़ौ ||
१९ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रश्च सामात्यः प्रय़यौ सह पाण्डवैः |
२० क
वैशम्पाय़न उवाच:
सहितो मुनिशार्दूलैर्गन्धर्वैश्च समागतैः ||
२० ख
वैशम्पाय़न उवाच:
ततो गङ्गां समासाद्य क्रमेण स जनार्णवः |
२१ क
वैशम्पाय़न उवाच:
निवासमकरोत्सर्वो यथाप्रीति यथासुखम् ||
२१ ख
वैशम्पाय़न उवाच:
राजा च पाण्डवैः सार्धमिष्टे देशे सहानुगः |
२२ क
वैशम्पाय़न उवाच:
निवासमकरोद्धीमान्सस्त्रीवृद्धपुरःसरः ||
२२ ख
वैशम्पाय़न उवाच:
जगाम तदहश्चापि तेषां वर्षशतं यथा |
२३ क
वैशम्पाय़न उवाच:
निशां प्रतीक्षमाणानां दिदृक्षूणां मृतान्नृपान् ||
२३ ख
वैशम्पाय़न उवाच:
अथ पुण्यं गिरिवरमस्तमभ्यगमद्रविः |
२४ क
वैशम्पाय़न उवाच:
ततः कृताभिषेकास्ते नैशं कर्म समाचरन् ||
२४ ख