शिशुपाल उवाच:
स मे वहुमतो राजा जरासन्धो महावलः |
१ क
शिशुपाल उवाच:
योऽनेन युद्धं नेय़ेष दासोऽय़मिति संय़ुगे ||
१ ख
शिशुपाल उवाच:
केशवेन कृतं यत्तु जरासन्धवधे तदा |
२ क
शिशुपाल उवाच:
भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ||
२ ख
शिशुपाल उवाच:
अद्वारेण प्रविष्टेन छद्मना व्रह्मवादिना |
३ क
शिशुपाल उवाच:
दृष्टः प्रभावः कृष्णेन जरासन्धस्य धीमतः ||
३ ख
शिशुपाल उवाच:
येन धर्मात्मनात्मानं व्रह्मण्यमभिजानता |
४ क
शिशुपाल उवाच:
नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने ||
४ ख
शिशुपाल उवाच:
भुज्यतामिति तेनोक्ताः कृष्णभीमधनञ्जय़ाः |
५ क
शिशुपाल उवाच:
जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम् ||
५ ख
शिशुपाल उवाच:
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे |
६ क
शिशुपाल उवाच:
कस्मान्न व्राह्मणं सम्यगात्मानमवगच्छति ||
६ ख
शिशुपाल उवाच:
इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वय़ा |
७ क
शिशुपाल उवाच:
अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ||
७ ख
शिशुपाल उवाच:
अथ वा नैतदाश्चर्यं येषां त्वमसि भारत |
८ क
शिशुपाल उवाच:
स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ||
८ ख
वैशम्पाय़न उवाच:
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं वहु |
९ क
वैशम्पाय़न उवाच:
चुकोप वलिनां श्रेष्ठो भीमसेनः प्रतापवान् ||
९ ख
वैशम्पाय़न उवाच:
तस्य पद्मप्रतीकाशे स्वभावाय़तविस्तृते |
१० क
वैशम्पाय़न उवाच:
भूय़ः क्रोधाभिताम्रान्ते रक्ते नेत्रे वभूवतुः ||
१० ख
वैशम्पाय़न उवाच:
त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः |
११ क
वैशम्पाय़न उवाच:
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ||
११ ख
वैशम्पाय़न उवाच:
दन्तान्सन्दशतस्तस्य कोपाद्ददृशुराननम् |
१२ क
वैशम्पाय़न उवाच:
युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ||
१२ ख
वैशम्पाय़न उवाच:
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् |
१३ क
वैशम्पाय़न उवाच:
भीष्म एव महावाहुर्महासेनमिवेश्वरः ||
१३ ख
वैशम्पाय़न उवाच:
तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत |
१४ क
वैशम्पाय़न उवाच:
गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ||
१४ ख
वैशम्पाय़न उवाच:
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः |
१५ क
वैशम्पाय़न उवाच:
समुद्धूतो घनापाय़े वेलामिव महोदधिः ||
१५ ख
वैशम्पाय़न उवाच:
शिशुपालस्तु सङ्क्रुद्धे भीमसेने नराधिप |
१६ क
वैशम्पाय़न उवाच:
नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः ||
१६ ख
वैशम्पाय़न उवाच:
उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः |
१७ क
वैशम्पाय़न उवाच:
न स तं चिन्तय़ामास सिंहः क्षुद्रमृगं यथा ||
१७ ख
वैशम्पाय़न उवाच:
प्रहसंश्चाव्रवीद्वाक्यं चेदिराजः प्रतापवान् |
१८ क
वैशम्पाय़न उवाच:
भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ||
१८ ख
वैशम्पाय़न उवाच:
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः |
१९ क
वैशम्पाय़न उवाच:
मत्प्रतापाग्निनिर्दग्धं पतङ्गमिव वह्निना ||
१९ ख
वैशम्पाय़न उवाच:
ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः |
२० क
वैशम्पाय़न उवाच:
भीमसेनमुवाचेदं भीष्मो मतिमतां वरः ||
२० ख