सञ्जय़ उवाच:
महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु |
१ क
सञ्जय़ उवाच:
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्वुदैः ||
१ ख
सञ्जय़ उवाच:
तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव |
२ क
सञ्जय़ उवाच:
ततो हतममन्याम द्रोणं दृष्टिपथे हते ||
२ ख
सञ्जय़ उवाच:
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः |
३ क
सञ्जय़ उवाच:
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ||
३ ख
सञ्जय़ उवाच:
यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः |
४ क
सञ्जय़ उवाच:
वारय़ध्वं यथाय़ोगं पाण्डवानामनीकिनीम् ||
४ ख
सञ्जय़ उवाच:
ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव |
५ क
सञ्जय़ उवाच:
आराद्दृष्ट्वा किरन्वाणैरिच्छन्द्रोणस्य जीवितम् ||
५ ख
सञ्जय़ उवाच:
तं वाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे |
६ क
सञ्जय़ उवाच:
तं च भीमोऽतुदद्वाणैस्तदासीत्तुमुलं महत् ||
६ ख
सञ्जय़ उवाच:
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः |
७ क
सञ्जय़ उवाच:
वाह्यं मृत्युभय़ं कृत्वा प्रत्यतिष्ठन्परान्युधि ||
७ ख
सञ्जय़ उवाच:
कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते |
८ क
सञ्जय़ उवाच:
पर्यवारय़दाय़ान्तं शूरं समितिशोभनम् ||
८ ख
सञ्जय़ उवाच:
तं शैनेय़ः शरव्रातैः क्रुद्धः क्रुद्धमवारय़त् |
९ क
सञ्जय़ उवाच:
कृतवर्मा च शैनेय़ं मत्तो मत्तमिव द्विपम् ||
९ ख
सञ्जय़ उवाच:
सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् |
१० क
सञ्जय़ उवाच:
उग्रधन्वा महेष्वासं यत्तो द्रोणादवारय़त् ||
१० ख
सञ्जय़ उवाच:
क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके |
११ क
सञ्जय़ उवाच:
नाराचैर्वहुभिः क्रुद्धः सर्वमर्मस्वताडय़त् ||
११ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सैन्धवः कृतहस्तवत् |
१२ क
सञ्जय़ उवाच:
विव्याध क्षत्रधर्माणं रणे सर्वाय़सैः शरैः ||
१२ ख
सञ्जय़ उवाच:
युय़ुत्सुं पाण्डवार्थाय़ यतमानं महारथम् |
१३ क
सञ्जय़ उवाच:
सुवाहुर्भ्रातरं शूरं यत्तो द्रोणादवारय़त् ||
१३ ख
सञ्जय़ उवाच:
सुवाहोः सधनुर्वाणावस्यतः परिघोपमौ |
१४ क
सञ्जय़ उवाच:
युय़ुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ||
१४ ख
सञ्जय़ उवाच:
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् |
१५ क
सञ्जय़ उवाच:
वेलेव सागरं क्षुव्धं मद्रराट्समवारय़त् ||
१५ ख
सञ्जय़ उवाच:
तं धर्मराजो वहुभिर्मर्मभिद्भिरवाकिरत् |
१६ क
सञ्जय़ उवाच:
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ||
१६ ख
सञ्जय़ उवाच:
तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् |
१७ क
सञ्जय़ उवाच:
क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ||
१७ ख
सञ्जय़ उवाच:
तथैव राजा वाह्लीको राजानं द्रुपदं शरैः |
१८ क
सञ्जय़ उवाच:
आद्रवन्तं सहानीकं सहानीको न्यवारय़त् ||
१८ ख
सञ्जय़ उवाच:
तद्युद्धमभवद्घोरं वृद्धय़ोः सहसेनय़ोः |
१९ क
सञ्जय़ उवाच:
यथा महाय़ूथपय़ोर्द्विपय़ोः सम्प्रभिन्नय़ोः ||
१९ ख
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् |
२० क
सञ्जय़ उवाच:
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा वलिम् ||
२० ख
सञ्जय़ उवाच:
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् |
२१ क
सञ्जय़ उवाच:
मत्स्यानां केकय़ैः सार्धमभीताश्वरथद्विपम् ||
२१ ख
सञ्जय़ उवाच:
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः |
२२ क
सञ्जय़ उवाच:
अस्यन्तमिषुजालानि यान्तं द्रोणादवारय़त् ||
२२ ख
सञ्जय़ उवाच:
ततो नकुलदाय़ादस्त्रिभिर्भल्लैः सुसंशितैः |
२३ क
सञ्जय़ उवाच:
चक्रे विवाहुशिरसं भूतकर्माणमाहवे ||
२३ ख
सञ्जय़ उवाच:
सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् |
२४ क
सञ्जय़ उवाच:
द्रोणाय़ाभिमुखं वीरं विविंशतिरवारय़त् ||
२४ ख
सञ्जय़ उवाच:
सुतसोमस्तु सङ्क्रुद्धः स्वपितृव्यमजिह्मगैः |
२५ क
सञ्जय़ उवाच:
विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ||
२५ ख
सञ्जय़ उवाच:
अथ भीमरथः शाल्वमाशुगैराय़सैः शितैः |
२६ क
सञ्जय़ उवाच:
षड्भिः साश्वनिय़न्तारमनय़द्यमसादनम् ||
२६ ख
सञ्जय़ उवाच:
श्रुतकर्माणमाय़ान्तं मय़ूरसदृशैर्हय़ैः |
२७ क
सञ्जय़ उवाच:
चैत्रसेनिर्महाराज तव पौत्रो न्यवारय़त् ||
२७ ख
सञ्जय़ उवाच:
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ |
२८ क
सञ्जय़ उवाच:
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ||
२८ ख
सञ्जय़ उवाच:
तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे |
२९ क
सञ्जय़ उवाच:
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारय़त् ||
२९ ख
सञ्जय़ उवाच:
तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः |
३० क
सञ्जय़ उवाच:
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ||
३० ख
सञ्जय़ उवाच:
प्रवपन्निव वीजानि वीजकाले नरर्षभ |
३१ क
सञ्जय़ उवाच:
द्रौणाय़निर्द्रौपदेय़ं शरवर्षैरवाकिरत् ||
३१ ख
सञ्जय़ उवाच:
यस्तु शूरतमो राजन्सेनय़ोरुभय़ोर्मतः |
३२ क
सञ्जय़ उवाच:
तं पटच्चरहन्तारं लक्ष्मणः समवारय़त् ||
३२ ख
सञ्जय़ उवाच:
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत |
३३ क
सञ्जय़ उवाच:
लक्ष्मणे शरजालानि विसृजन्वह्वशोभत ||
३३ ख
सञ्जय़ उवाच:
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् |
३४ क
सञ्जय़ उवाच:
पर्यवारय़दाय़ान्तं युवानं समरे युवा ||
३४ ख
सञ्जय़ उवाच:
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् |
३५ क
सञ्जय़ उवाच:
विधूय़ तद्वाणजालं वभौ तव सुतो वली ||
३५ ख
सञ्जय़ उवाच:
अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे |
३६ क
सञ्जय़ उवाच:
द्रोणाय़ाभिमुखं यान्तं वत्सदन्तैरवारय़त् ||
३६ ख
सञ्जय़ उवाच:
स सम्प्रहारस्तुमुलस्तय़ोः पुरुषसिंहय़ोः |
३७ क
सञ्जय़ उवाच:
सैनिकानां च सर्वेषां तय़ोश्च प्रीतिवर्धनः ||
३७ ख
सञ्जय़ उवाच:
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं वली |
३८ क
सञ्जय़ उवाच:
द्रोणाय़ाभिमुखं यान्तं कुन्तिभोजमवारय़त् ||
३८ ख
सञ्जय़ उवाच:
स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडय़त् |
३९ क
सञ्जय़ उवाच:
तस्य तद्विवभौ वक्त्रं सनालमिव पङ्कजम् ||
३९ ख
सञ्जय़ उवाच:
कर्णस्तु केकय़ान्भ्रातॄन्पञ्च लोहितकध्वजान् |
४० क
सञ्जय़ उवाच:
द्रोणाय़ाभिमुखं याताञ्शरवर्षैरवारय़त् ||
४० ख
सञ्जय़ उवाच:
ते चैनं भृशसङ्क्रुद्धाः शरव्रातैरवाकिरन् |
४१ क
सञ्जय़ उवाच:
स च तांश्छादय़ामास शरजालैः पुनः पुनः ||
४१ ख
सञ्जय़ उवाच:
नैव कर्णो न ते पञ्च ददृशुर्वाणसंवृताः |
४२ क
सञ्जय़ उवाच:
साश्वसूतध्वजरथाः परस्परशराचिताः ||
४२ ख
सञ्जय़ उवाच:
पुत्रस्ते दुर्जय़श्चैव जय़श्च विजय़श्च ह |
४३ क
सञ्जय़ उवाच:
नीलं काश्यं जय़ं शूरास्त्रय़स्त्रीन्प्रत्यवारय़न् ||
४३ ख
सञ्जय़ उवाच:
तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् |
४४ क
सञ्जय़ उवाच:
सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ||
४४ ख
सञ्जय़ उवाच:
क्षेमधूर्तिवृहन्तौ तौ भ्रातरौ सात्वतं युधि |
४५ क
सञ्जय़ उवाच:
द्रोणाय़ाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ||
४५ ख
सञ्जय़ उवाच:
तय़ोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् |
४६ क
सञ्जय़ उवाच:
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ||
४६ ख
सञ्जय़ उवाच:
राजानं तु तथाम्वष्ठमेकं युद्धाभिनन्दिनम् |
४७ क
सञ्जय़ उवाच:
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारय़त् ||
४७ ख
सञ्जय़ उवाच:
तमम्वष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकय़ा |
४८ क
सञ्जय़ उवाच:
स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ||
४८ ख
सञ्जय़ उवाच:
वार्धक्षेमिं तु वार्ष्णेय़ं कृपः शारद्वतः शरैः |
४९ क
सञ्जय़ उवाच:
अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारय़त् ||
४९ ख
सञ्जय़ उवाच:
युध्यन्तौ कृपवार्ष्णेय़ौ येऽपश्यंश्चित्रय़ोधिनौ |
५० क
सञ्जय़ उवाच:
ते युद्धसक्तमनसो नान्या वुवुधिरे क्रिय़ाः ||
५० ख