chevron_left विराट पर्व अध्याय ३९
उत्तर उवाच:
सुवर्णविकृतानीमान्याय़ुधानि महात्मनाम् |
१ क
उत्तर उवाच:
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ||
१ ख
उत्तर उवाच:
क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः |
२ क
उत्तर उवाच:
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ||
२ ख
उत्तर उवाच:
सर्व एव महात्मानः सर्वामित्रविनाशनाः |
३ क
उत्तर उवाच:
राज्यमक्षैः पराकीर्य न श्रूय़न्ते कदाचन ||
३ ख
उत्तर उवाच:
द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता |
४ क
उत्तर उवाच:
जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् ||
४ ख
अर्जुन उवाच:
अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः |
५ क
अर्जुन उवाच:
वल्लवो भीमसेनस्तु पितुस्ते रसपाचकः ||
५ ख
अर्जुन उवाच:
अश्ववन्धोऽथ नकुलः सहदेवस्तु गोकुले |
६ क
अर्जुन उवाच:
सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः ||
६ ख
उत्तर उवाच:
दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे |
७ क
उत्तर उवाच:
प्रव्रूय़ास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ||
७ ख
अर्जुन उवाच:
हन्त तेऽहं समाचक्षे दश नामानि यानि मे |
८ क
अर्जुन उवाच:
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः |
८ ख
अर्जुन उवाच:
वीभत्सुर्विजय़ः कृष्णः सव्यसाची धनञ्जय़ः ||
८ ग
उत्तर उवाच:
केनासि विजय़ो नाम केनासि श्वेतवाहनः |
९ क
उत्तर उवाच:
किरीटी नाम केनासि सव्यसाची कथं भवान् ||
९ ख
उत्तर उवाच:
अर्जुनः फल्गुनो जिष्णुः कृष्णो वीभत्सुरेव च |
१० क
उत्तर उवाच:
धनञ्जय़श्च केनासि प्रव्रूहि मम तत्त्वतः |
१० ख
उत्तर उवाच:
श्रुता मे तस्य वीरस्य केवला नामहेतवः ||
१० ग
अर्जुन उवाच:
सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम् |
११ क
अर्जुन उवाच:
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्जय़म् ||
११ ख
अर्जुन उवाच:
अभिप्रय़ामि सङ्ग्रामे यदहं युद्धदुर्मदान् |
१२ क
अर्जुन उवाच:
नाजित्वा विनिवर्तामि तेन मां विजय़ं विदुः ||
१२ ख
अर्जुन उवाच:
श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हय़ाः |
१३ क
अर्जुन उवाच:
सङ्ग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ||
१३ ख
अर्जुन उवाच:
उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा |
१४ क
अर्जुन उवाच:
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ||
१४ ख
अर्जुन उवाच:
पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः |
१५ क
अर्जुन उवाच:
किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् ||
१५ ख
अर्जुन उवाच:
न कुर्यां कर्म वीभत्सं युध्यमानः कथञ्चन |
१६ क
अर्जुन उवाच:
तेन देवमनुष्येषु वीभत्सुरिति मां विदुः ||
१६ ख
अर्जुन उवाच:
उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे |
१७ क
अर्जुन उवाच:
तेन देवमनुष्येषु सव्यसाचीति मां विदुः ||
१७ ख
अर्जुन उवाच:
पृथिव्यां चतुरन्ताय़ां वर्णो मे दुर्लभः समः |
१८ क
अर्जुन उवाच:
करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः ||
१८ ख
अर्जुन उवाच:
अहं दुरापो दुर्धर्षो दमनः पाकशासनिः |
१९ क
अर्जुन उवाच:
तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः ||
१९ ख
अर्जुन उवाच:
कृष्ण इत्येव दशमं नाम चक्रे पिता मम |
२० क
अर्जुन उवाच:
कृष्णावदातस्य सतः प्रिय़त्वाद्वालकस्य वै ||
२० ख
वैशम्पाय़न उवाच:
ततः पार्थं स वैराटिरभ्यवादय़दन्तिकात् |
२१ क
वैशम्पाय़न उवाच:
अहं भूमिञ्जय़ो नाम नाम्नाहमपि चोत्तरः ||
२१ ख
वैशम्पाय़न उवाच:
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनञ्जय़ |
२२ क
वैशम्पाय़न उवाच:
लोहिताक्ष महावाहो नागराजकरोपम |
२२ ख
वैशम्पाय़न उवाच:
यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम ||
२२ ग
वैशम्पाय़न उवाच:
यतस्त्वय़ा कृतं पूर्वं विचित्रं कर्म दुष्करम् |
२३ क
वैशम्पाय़न उवाच:
अतो भय़ं व्यतीतं मे प्रीतिश्च परमा त्वय़ि ||
२३ ख