अर्जुन उवाच:
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धय़ान्विताः |
१ क
अर्जुन उवाच:
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ||
१ ख
श्रीभगवानु उवाच:
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |
२ क
श्रीभगवानु उवाच:
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||
२ ख
श्रीभगवानु उवाच:
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |
३ क
श्रीभगवानु उवाच:
श्रद्धामय़ोऽय़ं पुरुषो यो यच्छ्रद्धः स एव सः ||
३ ख
श्रीभगवानु उवाच:
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः |
४ क
श्रीभगवानु उवाच:
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ||
४ ख
श्रीभगवानु उवाच:
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः |
५ क
श्रीभगवानु उवाच:
दम्भाहङ्कारसंय़ुक्ताः कामरागवलान्विताः ||
५ ख
श्रीभगवानु उवाच:
कर्शय़न्तः शरीरस्थं भूतग्राममचेतसः |
६ क
श्रीभगवानु उवाच:
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चय़ान् ||
६ ख
श्रीभगवानु उवाच:
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय़ः |
७ क
श्रीभगवानु उवाच:
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ||
७ ख
श्रीभगवानु उवाच:
आय़ुःसत्त्ववलारोग्यसुखप्रीतिविवर्धनाः |
८ क
श्रीभगवानु उवाच:
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रिय़ाः ||
८ ख
श्रीभगवानु उवाच:
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः |
९ क
श्रीभगवानु उवाच:
आहारा राजसस्येष्टा दुःखशोकामय़प्रदाः ||
९ ख
श्रीभगवानु उवाच:
यातय़ामं गतरसं पूति पर्युषितं च यत् |
१० क
श्रीभगवानु उवाच:
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रिय़म् ||
१० ख
श्रीभगवानु उवाच:
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते |
११ क
श्रीभगवानु उवाच:
यष्टव्यमेवेति मनः समाधाय़ स सात्त्विकः ||
११ ख
श्रीभगवानु उवाच:
अभिसन्धाय़ तु फलं दम्भार्थमपि चैव यत् |
१२ क
श्रीभगवानु उवाच:
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ||
१२ ख
श्रीभगवानु उवाच:
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् |
१३ क
श्रीभगवानु उवाच:
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ||
१३ ख
श्रीभगवानु उवाच:
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् |
१४ क
श्रीभगवानु उवाच:
व्रह्मचर्यमहिंसा च शारीरं तप उच्यते ||
१४ ख
श्रीभगवानु उवाच:
अनुद्वेगकरं वाक्यं सत्यं प्रिय़हितं च यत् |
१५ क
श्रीभगवानु उवाच:
स्वाध्याय़ाभ्यसनं चैव वाङ्मय़ं तप उच्यते ||
१५ ख
श्रीभगवानु उवाच:
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः |
१६ क
श्रीभगवानु उवाच:
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ||
१६ ख
श्रीभगवानु उवाच:
श्रद्धय़ा परय़ा तप्तं तपस्तत्त्रिविधं नरैः |
१७ क
श्रीभगवानु उवाच:
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ||
१७ ख
श्रीभगवानु उवाच:
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् |
१८ क
श्रीभगवानु उवाच:
क्रिय़ते तदिह प्रोक्तं राजसं चलमध्रुवम् ||
१८ ख
श्रीभगवानु उवाच:
मूढग्राहेणात्मनो यत्पीडय़ा क्रिय़ते तपः |
१९ क
श्रीभगवानु उवाच:
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ||
१९ ख
श्रीभगवानु उवाच:
दातव्यमिति यद्दानं दीय़तेऽनुपकारिणे |
२० क
श्रीभगवानु उवाच:
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ||
२० ख
श्रीभगवानु उवाच:
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः |
२१ क
श्रीभगवानु उवाच:
दीय़ते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ||
२१ ख
श्रीभगवानु उवाच:
अदेशकाले यद्दानमपात्रेभ्यश्च दीय़ते |
२२ क
श्रीभगवानु उवाच:
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ||
२२ ख
श्रीभगवानु उवाच:
ओं तत्सदिति निर्देशो व्रह्मणस्त्रिविधः स्मृतः |
२३ क
श्रीभगवानु उवाच:
व्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ||
२३ ख
श्रीभगवानु उवाच:
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रिय़ाः |
२४ क
श्रीभगवानु उवाच:
प्रवर्तन्ते विधानोक्ताः सततं व्रह्मवादिनाम् ||
२४ ख
श्रीभगवानु उवाच:
तदित्यनभिसन्धाय़ फलं यज्ञतपःक्रिय़ाः |
२५ क
श्रीभगवानु उवाच:
दानक्रिय़ाश्च विविधाः क्रिय़न्ते मोक्षकाङ्क्षिभिः ||
२५ ख
श्रीभगवानु उवाच:
सद्भावे साधुभावे च सदित्येतत्प्रय़ुज्यते |
२६ क
श्रीभगवानु उवाच:
प्रशस्ते कर्मणि तथा सच्छव्दः पार्थ युज्यते ||
२६ ख
श्रीभगवानु उवाच:
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते |
२७ क
श्रीभगवानु उवाच:
कर्म चैव तदर्थीय़ं सदित्येवाभिधीय़ते ||
२७ ख
श्रीभगवानु उवाच:
अश्रद्धय़ा हुतं दत्तं तपस्तप्तं कृतं च यत् |
२८ क
श्रीभगवानु उवाच:
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ||
२८ ख