chevron_left कर्ण पर्व अध्याय ३९
सञ्जय़ उवाच:
द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेय़ेनाभिरक्षितम् |
१ क
सञ्जय़ उवाच:
द्रौपदेय़ैस्तथा शूरैरभ्यवर्तत हृष्टवत् ||
१ ख
सञ्जय़ उवाच:
किरन्निषुगणान्घोरान्स्वर्णपुङ्खाञ्शिलाशितान् |
२ क
सञ्जय़ उवाच:
दर्शय़न्विविधान्मार्गाञ्शिक्षार्थं लघुहस्तवत् ||
२ ख
सञ्जय़ उवाच:
ततः खं पूरय़ामास शरैर्दिव्यास्त्रमन्त्रितैः |
३ क
सञ्जय़ उवाच:
युधिष्ठिरं च समरे पर्यवारय़दस्त्रवित् ||
३ ख
सञ्जय़ उवाच:
द्रौणाय़निशरच्छन्नं न प्राज्ञाय़त किञ्चन |
४ क
सञ्जय़ उवाच:
वाणभूतमभूत्सर्वमाय़ोधनशिरो हि तत् ||
४ ख
सञ्जय़ उवाच:
वाणजालं दिविष्ठं तत्स्वर्णजालविभूषितम् |
५ क
सञ्जय़ उवाच:
शुशुभे भरतश्रेष्ठ वितानमिव विष्ठितम् ||
५ ख
सञ्जय़ उवाच:
तेन छन्ने रणे राजन्वाणजालेन भास्वता |
६ क
सञ्जय़ उवाच:
अभ्रच्छाय़ेव सञ्जज्ञे वाणरुद्धे नभस्तले ||
६ ख
सञ्जय़ उवाच:
तत्राश्चर्यमपश्याम वाणभूते तथाविधे |
७ क
सञ्जय़ उवाच:
न स्म सम्पतते भूमौ दृष्ट्वा द्रौणेः पराक्रमम् ||
७ ख
सञ्जय़ उवाच:
लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः |
८ क
सञ्जय़ उवाच:
व्यस्मय़न्त महाराज न चैनं प्रतिवीक्षितुम् |
८ ख
सञ्जय़ उवाच:
शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् ||
८ ग
सञ्जय़ उवाच:
सात्यकिर्यतमानस्तु धर्मराजश्च पाण्डवः |
९ क
सञ्जय़ उवाच:
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ||
९ ख
सञ्जय़ उवाच:
वध्यमाने ततः सैन्ये द्रौपदेय़ा महारथाः |
१० क
सञ्जय़ उवाच:
सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः |
१० ख
सञ्जय़ उवाच:
त्यक्त्वा मृत्युभय़ं घोरं द्रौणाय़निमुपाद्रवन् ||
१० ग
सञ्जय़ उवाच:
सात्यकिः पञ्चविंशत्या द्रौणिं विद्ध्वा शिलामुखैः |
११ क
सञ्जय़ उवाच:
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ||
११ ख
सञ्जय़ उवाच:
युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः |
१२ क
सञ्जय़ उवाच:
श्रुतकर्मा त्रिभिर्वाणैः श्रुतकीर्तिस्तु सप्तभिः ||
१२ ख
सञ्जय़ उवाच:
सुतसोमश्च नवभिः शतानीकश्च सप्तभिः |
१३ क
सञ्जय़ उवाच:
अन्ये च वहवः शूरा विव्यधुस्तं समन्ततः ||
१३ ख
सञ्जय़ उवाच:
सोऽतिक्रुद्धस्ततो राजन्नाशीविष इव श्वसन् |
१४ क
सञ्जय़ उवाच:
सात्यकिं पञ्चविंशत्या प्राविध्यत शिलाशितैः ||
१४ ख
सञ्जय़ उवाच:
श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः |
१५ क
सञ्जय़ उवाच:
अष्टभिः श्रुतकर्माणं प्रतिविन्ध्यं त्रिभिः शरैः |
१५ ख
सञ्जय़ उवाच:
शतानीकं च नवभिर्धर्मपुत्रं च सप्तभिः ||
१५ ग
सञ्जय़ उवाच:
अथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडय़त् |
१६ क
सञ्जय़ उवाच:
श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः ||
१६ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ श्रुतकीर्तिर्महारथः |
१७ क
सञ्जय़ उवाच:
द्रौणाय़निं त्रिभिर्विद्ध्वा विव्याधान्यैः शितैः शरैः ||
१७ ख
सञ्जय़ उवाच:
ततो द्रौणिर्महाराज शरवर्षेण भारत |
१८ क
सञ्जय़ उवाच:
छादय़ामास तत्सैन्यं समन्ताच्च शरैर्नृपान् ||
१८ ख
सञ्जय़ उवाच:
ततः पुनरमेय़ात्मा धर्मराजस्य कार्मुकम् |
१९ क
सञ्जय़ उवाच:
द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः ||
१९ ख
सञ्जय़ उवाच:
ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः |
२० क
सञ्जय़ उवाच:
द्रौणिं विव्याध सप्तत्या वाह्वोरुरसि चार्दय़त् ||
२० ख
सञ्जय़ उवाच:
सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे |
२१ क
सञ्जय़ उवाच:
अर्धचन्द्रेण तीक्ष्णेन धनुश्छित्त्वानदद्भृशम् ||
२१ ख
सञ्जय़ उवाच:
छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः |
२२ क
सञ्जय़ उवाच:
सारथिं पातय़ामास शैनेय़स्य रथाद्द्रुतम् ||
२२ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ द्रोणपुत्रः प्रतापवान् |
२३ क
सञ्जय़ उवाच:
शैनेय़ं शरवर्षेण छादय़ामास भारत ||
२३ ख
सञ्जय़ उवाच:
तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ |
२४ क
सञ्जय़ उवाच:
तत्र तत्रैव धावन्तः समदृश्यन्त भारत ||
२४ ख
सञ्जय़ उवाच:
युधिष्ठिरपुरोगास्ते द्रौणिं शस्त्रभृतां वरम् |
२५ क
सञ्जय़ उवाच:
अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्शरान् ||
२५ ख
सञ्जय़ उवाच:
आगच्छमानांस्तान्दृष्ट्वा रौद्ररूपान्परन्तपः |
२६ क
सञ्जय़ उवाच:
प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ||
२६ ख
सञ्जय़ उवाच:
ततः शरशतज्वालः सेनाकक्षं महारथः |
२७ क
सञ्जय़ उवाच:
द्रौणिर्ददाह समरे कक्षमग्निर्यथा वने ||
२७ ख
सञ्जय़ उवाच:
तद्वलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् |
२८ क
सञ्जय़ उवाच:
चुक्षुभे भरतश्रेष्ठ तिमिनेव नदीमुखम् ||
२८ ख
सञ्जय़ उवाच:
दृष्ट्वा ते च महाराज द्रोणपुत्रपराक्रमम् |
२९ क
सञ्जय़ उवाच:
निहतान्मेनिरे सर्वान्पाण्डून्द्रोणसुतेन वै ||
२९ ख
सञ्जय़ उवाच:
युधिष्ठिरस्तु त्वरितो द्रौणिं श्लिष्य महारथम् |
३० क
सञ्जय़ उवाच:
अव्रवीद्द्रोणपुत्रं तु रोषामर्षसमन्वितः ||
३० ख
सञ्जय़ उवाच:
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता |
३१ क
सञ्जय़ उवाच:
यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि ||
३१ ख
सञ्जय़ उवाच:
व्राह्मणेन तपः कार्यं दानमध्ययनं तथा |
३२ क
सञ्जय़ उवाच:
क्षत्रिय़ेण धनुर्नाम्यं स भवान्व्राह्मणव्रुवः ||
३२ ख
सञ्जय़ उवाच:
मिषतस्ते महावाहो जेष्यामि युधि कौरवान् |
३३ क
सञ्जय़ उवाच:
कुरुष्व समरे कर्म व्रह्मवन्धुरसि ध्रुवम् ||
३३ ख
सञ्जय़ उवाच:
एवमुक्तो महाराज द्रोणपुत्रः स्मय़न्निव |
३४ क
सञ्जय़ उवाच:
युक्तत्वं तच्च सञ्चिन्त्य नोत्तरं किञ्चिदव्रवीत् ||
३४ ख
सञ्जय़ उवाच:
अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम् |
३५ क
सञ्जय़ उवाच:
छादय़ामास समरे क्रुद्धोऽन्तक इव प्रजाः ||
३५ ख
सञ्जय़ उवाच:
सञ्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष |
३६ क
सञ्जय़ उवाच:
पार्थोऽपय़ातः शीघ्रं वै विहाय़ महतीं चमूम् ||
३६ ख
सञ्जय़ उवाच:
अपय़ाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे |
३७ क
सञ्जय़ उवाच:
द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः ||
३७ ख
सञ्जय़ उवाच:
ततो युधिष्ठिरो राजा त्यक्त्वा द्रौणिं महाहवे |
३८ क
सञ्जय़ उवाच:
प्रय़यौ तावकं सैन्यं युक्तः क्रूराय़ कर्मणे ||
३८ ख