जनमेजय़ उवाच:
कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः |
१ क
जनमेजय़ उवाच:
सिन्धुद्वीपः कथं चापि व्राह्मण्यं लव्धवांस्तदा ||
१ ख
जनमेजय़ उवाच:
देवापिश्च कथं व्रह्मन्विश्वामित्रश्च सत्तम |
२ क
जनमेजय़ उवाच:
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे ||
२ ख
वैशम्पाय़न उवाच:
पुरा कृतय़ुगे राजन्नार्ष्टिषेणो द्विजोत्तमः |
३ क
वैशम्पाय़न उवाच:
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः ||
३ ख
वैशम्पाय़न उवाच:
तस्य राजन्गुरुकुले वसतो नित्यमेव ह |
४ क
वैशम्पाय़न उवाच:
समाप्तिं नागमद्विद्या नापि वेदा विशां पते ||
४ ख
वैशम्पाय़न उवाच:
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः |
५ क
वैशम्पाय़न उवाच:
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ||
५ ख
वैशम्पाय़न उवाच:
स विद्वान्वेदय़ुक्तश्च सिद्धश्चाप्यृषिसत्तमः |
६ क
वैशम्पाय़न उवाच:
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ||
६ ख
वैशम्पाय़न उवाच:
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः |
७ क
वैशम्पाय़न उवाच:
आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् ||
७ ख
वैशम्पाय़न उवाच:
अद्यप्रभृति नैवात्र भय़ं व्यालाद्भविष्यति |
८ क
वैशम्पाय़न उवाच:
अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् ||
८ ख
वैशम्पाय़न उवाच:
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः |
९ क
वैशम्पाय़न उवाच:
एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान् ||
९ ख
वैशम्पाय़न उवाच:
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् |
१० क
वैशम्पाय़न उवाच:
देवापिश्च महाराज व्राह्मण्यं प्रापतुर्महत् ||
१० ख
वैशम्पाय़न उवाच:
तथा च कौशिकस्तात तपोनित्यो जितेन्द्रिय़ः |
११ क
वैशम्पाय़न उवाच:
तपसा वै सुतप्तेन व्राह्मणत्वमवाप्तवान् ||
११ ख
वैशम्पाय़न उवाच:
गाधिर्नाम महानासीत्क्षत्रिय़ः प्रथितो भुवि |
१२ क
वैशम्पाय़न उवाच:
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ||
१२ ख
वैशम्पाय़न उवाच:
स राजा कौशिकस्तात महाय़ोग्यभवत्किल |
१३ क
वैशम्पाय़न उवाच:
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ||
१३ ख
वैशम्पाय़न उवाच:
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः |
१४ क
वैशम्पाय़न उवाच:
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभय़ात् ||
१४ ख
वैशम्पाय़न उवाच:
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा |
१५ क
वैशम्पाय़न उवाच:
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम ||
१५ ख
वैशम्पाय़न उवाच:
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च |
१६ क
वैशम्पाय़न उवाच:
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः |
१६ ख
वैशम्पाय़न उवाच:
न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम् ||
१६ ग
वैशम्पाय़न उवाच:
ततः शुश्राव राजा स राक्षसेभ्यो महाभय़म् |
१७ क
वैशम्पाय़न उवाच:
निर्ययौ नगराच्चापि चतुरङ्गवलान्वितः ||
१७ ख
वैशम्पाय़न उवाच:
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् |
१८ क
वैशम्पाय़न उवाच:
तस्य ते सैनिका राजंश्चक्रुस्तत्रानय़ान्वहून् ||
१८ ख
वैशम्पाय़न उवाच:
ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात् |
१९ क
वैशम्पाय़न उवाच:
ददृशे च ततः सर्वं भज्यमानं महावनम् ||
१९ ख
वैशम्पाय़न उवाच:
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः |
२० क
वैशम्पाय़न उवाच:
सृजस्व शवरान्घोरानिति स्वां गामुवाच ह ||
२० ख
वैशम्पाय़न उवाच:
तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान् |
२१ क
वैशम्पाय़न उवाच:
ते च तद्वलमासाद्य वभञ्जुः सर्वतोदिशम् ||
२१ ख
वैशम्पाय़न उवाच:
तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः |
२२ क
वैशम्पाय़न उवाच:
तपः परं मन्यमानस्तपस्येव मनो दधे ||
२२ ख
वैशम्पाय़न उवाच:
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः |
२३ क
वैशम्पाय़न उवाच:
निय़मैश्चोपवासैश्च कर्शय़न्देहमात्मनः ||
२३ ख
वैशम्पाय़न उवाच:
जलाहारो वाय़ुभक्षः पर्णाहारश्च सोऽभवत् |
२४ क
वैशम्पाय़न उवाच:
तथा स्थण्डिलशाय़ी च ये चान्ये निय़माः पृथक् ||
२४ ख
वैशम्पाय़न उवाच:
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे |
२५ क
वैशम्पाय़न उवाच:
न चास्य निय़माद्वुद्धिरपय़ाति महात्मनः ||
२५ ख
वैशम्पाय़न उवाच:
ततः परेण यत्नेन तप्त्वा वहुविधं तपः |
२६ क
वैशम्पाय़न उवाच:
तेजसा भास्कराकारो गाधिजः समपद्यत ||
२६ ख
वैशम्पाय़न उवाच:
तपसा तु तथा युक्तं विश्वामित्रं पितामहः |
२७ क
वैशम्पाय़न उवाच:
अमन्यत महातेजा वरदो वरमस्य तत् ||
२७ ख
वैशम्पाय़न उवाच:
स तु वव्रे वरं राजन्स्यामहं व्राह्मणस्त्विति |
२८ क
वैशम्पाय़न उवाच:
तथेति चाव्रवीद्व्रह्मा सर्वलोकपितामहः ||
२८ ख
वैशम्पाय़न उवाच:
स लव्ध्वा तपसोग्रेण व्राह्मणत्वं महाय़शाः |
२९ क
वैशम्पाय़न उवाच:
विचचार महीं कृत्स्नां कृतकामः सुरोपमः ||
२९ ख
वैशम्पाय़न उवाच:
तस्मिंस्तीर्थवरे रामः प्रदाय़ विविधं वसु |
३० क
वैशम्पाय़न उवाच:
पय़स्विनीस्तथा धेनूर्यानानि शय़नानि च ||
३० ख
वैशम्पाय़न उवाच:
तथा वस्त्राण्यलङ्कारं भक्ष्यं पेय़ं च शोभनम् |
३१ क
वैशम्पाय़न उवाच:
अददान्मुदितो राजन्पूजय़ित्वा द्विजोत्तमान् ||
३१ ख
वैशम्पाय़न उवाच:
यय़ौ राजंस्ततो रामो वकस्याश्रममन्तिकात् |
३२ क
वैशम्पाय़न उवाच:
यत्र तेपे तपस्तीव्रं दाल्भ्यो वक इति श्रुतिः ||
३२ ख