सञ्जय़ उवाच:
अन्ये तथामितवलाः परस्परवधैषिणः ||
५० ख
सञ्जय़ उवाच:
एते चान्ये च वहवो राजानः सगणा रणे |
५१ क
सञ्जय़ उवाच:
हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि |
५१ ख
सञ्जय़ उवाच:
एवमेष क्षय़ो वृत्तः कर्णार्जुनसमागमे ||
५१ ग
सञ्जय़ उवाच:
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः |
५२ क
सञ्जय़ उवाच:
यथा कृष्णेन निहतो मुरो रणनिपातितः |
५२ ख
सञ्जय़ उवाच:
कार्तवीर्यश्च रामेण भार्गवेण हतो यथा ||
५२ ग
सञ्जय़ उवाच:
सज्ञातिवान्धवः शूरः समरे युद्धदुर्मदः |
५३ क
सञ्जय़ उवाच:
रणे कृत्वा महाय़ुद्धं घोरं त्रैलोक्यविश्रुतम् ||
५३ ख
सञ्जय़ उवाच:
तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः |
५४ क
सञ्जय़ उवाच:
सामात्यवान्धवो राजन्कर्णः प्रहरतां वरः ||
५४ ख
सञ्जय़ उवाच:
जय़ाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः |
५५ क
सञ्जय़ उवाच:
तीर्णं तत्पाण्डवै राजन्यत्पुरा नाववुध्यसे ||
५५ ख
सञ्जय़ उवाच:
उच्यमानो महाराज वन्धुभिर्हितकाङ्क्षिभिः |
५६ क
सञ्जय़ उवाच:
तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् ||
५६ ख
सञ्जय़ उवाच:
पुत्राणां राज्यकामानां त्वय़ा राजन्हितैषिणा |
५७ क
सञ्जय़ उवाच:
अहितानीव चीर्णानि तेषां ते फलमागतम् ||
५७ ख
धृतराष्ट्र उवाच:
आख्याता मामकास्तात निहता युधि पाण्डवैः |
५८ क
धृतराष्ट्र उवाच:
निहतान्पाण्डवेय़ानां मामकैर्व्रूहि सञ्जय़ ||
५८ ख
सञ्जय़ उवाच:
कुन्तय़ो युधि विक्रान्ता महासत्त्वा महावलाः |
५९ क
सञ्जय़ उवाच:
सानुवन्धाः सहामात्या भीष्मेण युधि पातिताः ||
५९ ख
सञ्जय़ उवाच:
समः किरीटिना सङ्ख्ये वीर्येण च वलेन च |
६० क
सञ्जय़ उवाच:
सत्यजित्सत्यसन्धेन द्रोणेन निहतो रणे ||
६० ख
सञ्जय़ उवाच:
तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ |
६१ क
सञ्जय़ उवाच:
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ||
६१ ख
सञ्जय़ उवाच:
यो वाल एव समरे संमितः सव्यसाचिना |
६२ क
सञ्जय़ उवाच:
केशवेन च दुर्धर्षो वलदेवेन चाभिभूः ||
६२ ख
सञ्जय़ उवाच:
स एष कदनं कृत्वा महद्रणविशारदः |
६३ क
सञ्जय़ उवाच:
परिवार्य महामात्रैः षड्भिः परमकै रथैः |
६३ ख
सञ्जय़ उवाच:
अशक्नुवद्भिर्वीभत्सुमभिमन्युर्निपातितः ||
६३ ग
सञ्जय़ उवाच:
तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् |
६४ क
सञ्जय़ उवाच:
दौःशासनिर्महाराज सौभद्रं हतवान्रणे ||
६४ ख
सञ्जय़ उवाच:
वृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः |
६५ क
सञ्जय़ उवाच:
दुःशासनेन विक्रम्य गमितो यमसादनम् ||
६५ ख
सञ्जय़ उवाच:
मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ |
६६ क
सञ्जय़ उवाच:
पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ ||
६६ ख
सञ्जय़ उवाच:
अंशुमान्भोजराजस्तु सहसैन्यो महारथः |
६७ क
सञ्जय़ उवाच:
भारद्वाजेन विक्रम्य गमितो यमसादनम् ||
६७ ख
सञ्जय़ उवाच:
चित्राय़ुधश्चित्रय़ोधी कृत्वा तौ कदनं महत् |
६८ क
सञ्जय़ उवाच:
चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि ||
६८ ख
सञ्जय़ उवाच:
वृकोदरसमो युद्धे दृढः केकय़जो युधि |
६९ क
सञ्जय़ उवाच:
केकय़ेनैव विक्रम्य भ्रात्रा भ्राता निपातितः ||
६९ ख
सञ्जय़ उवाच:
जनमेजय़ो गदाय़ोधी पार्वतीय़ः प्रतापवान् |
७० क
सञ्जय़ उवाच:
दुर्मुखेन महाराज तव पुत्रेण पातितः ||
७० ख
सञ्जय़ उवाच:
रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव |
७१ क
सञ्जय़ उवाच:
द्रोणेन युगपद्राजन्दिवं सम्प्रेषितौ शरैः ||
७१ ख
सञ्जय़ उवाच:
नृपाश्च प्रतिय़ुध्यन्तः पराक्रान्ता विशां पते |
७२ क
सञ्जय़ उवाच:
कृत्वा नसुकरं कर्म गता वैवस्वतक्षय़म् ||
७२ ख
सञ्जय़ उवाच:
पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः |
७३ क
सञ्जय़ उवाच:
सङ्ग्रामनिर्जिताँल्लोकान्गमितो द्रोणसाय़कैः ||
७३ ख
सञ्जय़ उवाच:
अभिभूः काशिराजश्च काशिकैर्वहुभिर्वृतः |
७४ क
सञ्जय़ उवाच:
वसुदानस्य पुत्रेण न्यासितो देहमाहवे ||
७४ ख
सञ्जय़ उवाच:
अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् |
७५ क
सञ्जय़ उवाच:
निहत्य शतशः शूरान्परैर्विनिहतौ रणे ||
७५ ख
सञ्जय़ उवाच:
क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष |
७६ क
सञ्जय़ उवाच:
द्रोणेन परमेष्वासौ गमितौ यमसादनम् ||
७६ ख
सञ्जय़ उवाच:
शिखण्डितनय़ो युद्धे क्षत्रदेवो युधां पतिः |
७७ क
सञ्जय़ उवाच:
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ||
७७ ख
सञ्जय़ उवाच:
सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ |
७८ क
सञ्जय़ उवाच:
प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे ||
७८ ख
सञ्जय़ उवाच:
वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे |
७९ क
सञ्जय़ उवाच:
वाह्लिकेन महाराज कौरवेण निपातितः ||
७९ ख
सञ्जय़ उवाच:
धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः |
८० क
सञ्जय़ उवाच:
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षय़म् ||
८० ख
सञ्जय़ उवाच:
तथा सत्यधृतिस्तात कृत्वा कदनमाहवे |
८१ क
सञ्जय़ उवाच:
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ||
८१ ख
सञ्जय़ उवाच:
पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते |
८२ क
सञ्जय़ उवाच:
निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो युधि ||
८२ ख
सञ्जय़ उवाच:
तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् |
८३ क
सञ्जय़ उवाच:
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसाय़कैः ||
८३ ख
सञ्जय़ उवाच:
श्रेणिमांश्च महाराज युध्यमानः पराक्रमी |
८४ क
सञ्जय़ उवाच:
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षय़म् ||
८४ ख
सञ्जय़ उवाच:
तथैव युधि विक्रान्तो मागधः परवीरहा |
८५ क
सञ्जय़ उवाच:
भीष्मेण निहतो राजन्युध्यमानः पराक्रमी ||
८५ ख
सञ्जय़ उवाच:
वसुदानश्च कदनं कुर्वाणोऽतीव संय़ुगे |
८६ क
सञ्जय़ उवाच:
भारद्वाजेन विक्रम्य गमितो यमसादनम् ||
८६ ख
सञ्जय़ उवाच:
एते चान्ये च वहवः पाण्डवानां महारथाः |
८७ क
सञ्जय़ उवाच:
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ||
८७ ख
धृतराष्ट्र उवाच:
हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर |
८८ क
धृतराष्ट्र उवाच:
अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन ||
८८ ख
धृतराष्ट्र उवाच:
एतेषु निहतेष्वद्य ये त्वय़ा परिकीर्तिताः |
८९ क
धृतराष्ट्र उवाच:
अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः ||
८९ ख
सञ्जय़ उवाच:
यस्मिन्महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि |
९० क
सञ्जय़ उवाच:
दिव्यानि राजन्निहितानि चैव; द्रोणेन वीरद्विजसत्तमेन ||
९० ख
सञ्जय़ उवाच:
महारथः कृतिमान्क्षिप्रहस्तो; दृढाय़ुधो दृढमुष्टिर्दृढेषुः |
९१ क
सञ्जय़ उवाच:
स वीर्यवान्द्रोणपुत्रस्तरस्वी; व्यवस्थितो योद्धुकामस्त्वदर्थे ||
९१ ख
सञ्जय़ उवाच:
आनर्तवासी हृदिकात्मजोऽसौ; महारथः सात्वतानां वरिष्ठः |
९२ क
सञ्जय़ उवाच:
स्वय़ं भोजः कृतवर्मा कृतास्त्रो; व्यवस्थितो योद्धुकामस्त्वदर्थे ||
९२ ख
सञ्जय़ उवाच:
शारद्वतो गौतमश्चापि राज; न्महावलो वहुचित्रास्त्रय़ोधी |
९३ क
सञ्जय़ उवाच:
धनुश्चित्रं सुमहद्भारसाहं; व्यवस्थितो योत्स्यमानः प्रगृह्य ||
९३ ख
सञ्जय़ उवाच:
आर्ताय़निः समरे दुष्प्रकम्प्यः; सेनाग्रणीः प्रथमस्तावकानाम् |
९४ क
सञ्जय़ उवाच:
स्वस्रेय़ांस्तान्पाण्डवेय़ान्विसृज्य; सत्यां वाचं तां चिकीर्षुस्तरस्वी ||
९४ ख
सञ्जय़ उवाच:
तेजोवधं सूतपुत्रस्य सङ्ख्ये; प्रतिश्रुत्वाजातशत्रोः पुरस्तात् |
९५ क
सञ्जय़ उवाच:
दुराधर्षः शक्रसमानवीर्यः; शल्यः स्थितो योद्धुकामस्त्वदर्थे ||
९५ ख
सञ्जय़ उवाच:
आजानेय़ैः सैन्धवैः पार्वतीय़ै; र्नदीजकाम्वोजवनाय़ुवाह्लिकैः |
९६ क
सञ्जय़ उवाच:
गान्धारराजः स्ववलेन युक्तो; व्यवस्थितो योद्धुकामस्त्वदर्थे ||
९६ ख
सञ्जय़ उवाच:
तथा सुतस्ते ज्वलनार्कवर्णं; रथं समास्थाय़ कुरुप्रवीर |
९७ क
सञ्जय़ उवाच:
व्यवस्थितः कुरुमित्रो नरेन्द्र; व्यभ्रे सूर्यो भ्राजमानो यथा वै ||
९७ ख
सञ्जय़ उवाच:
दुर्योधनो नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः |
९८ क
सञ्जय़ उवाच:
रथेन जाम्वूनदभूषणेन; व्यवस्थितः समरे योद्धुकामः ||
९८ ख