सञ्जय़ उवाच:
स राजमध्ये पुरुषप्रवीरो; रराज जाम्वूनदचित्रवर्मा |
९९ क
सञ्जय़ उवाच:
पद्मप्रभो वह्निरिवाल्पधूमो; मेघान्तरे सूर्य इव प्रकाशः ||
९९ ख
सञ्जय़ उवाच:
तथा सुषेणोऽप्यसिचर्मपाणि; स्तवात्मजः सत्यसेनश्च वीरः |
१०० क
सञ्जय़ उवाच:
व्यवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे योद्धुकामौ ||
१०० ख
सञ्जय़ उवाच:
ह्रीनिषेधा भरता राजपुत्रा; श्चित्राय़ुधः श्रुतकर्मा जय़श्च |
१०१ क
सञ्जय़ उवाच:
शलश्च सत्यव्रतदुःशलौ च; व्यवस्थिता वलिनो योद्धुकामाः ||
१०१ ख
सञ्जय़ उवाच:
कैतव्यानामधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः |
१०२ क
सञ्जय़ उवाच:
पत्री हय़ी नागरथप्रय़ाय़ी; व्यवस्थितो योद्धुकामस्त्वदर्थे ||
१०२ ख
सञ्जय़ उवाच:
वीरः श्रुताय़ुश्च श्रुताय़ुधश्च; चित्राङ्गदश्चित्रवर्मा स वीरः |
१०३ क
सञ्जय़ उवाच:
व्यवस्थिता ये तु सैन्ये नराग्र्याः; प्रहारिणो मानिनः सत्यसन्धाः ||
१०३ ख
सञ्जय़ उवाच:
कर्णात्मजः सत्यसेनो महात्मा; व्यवस्थितः समरे योद्धुकामः |
१०४ क
सञ्जय़ उवाच:
अथापरौ कर्णसुतौ वरार्हौ; व्यवस्थितौ लघुहस्तौ नरेन्द्र |
१०४ ख
सञ्जय़ उवाच:
वलं महद्दुर्भिदमल्पधैर्यैः; समाश्रितौ योत्स्यमानौ त्वदर्थे ||
१०४ ग
सञ्जय़ उवाच:
एतैश्च मुख्यैरपरैश्च राज; न्योधप्रवीरैरमितप्रभावैः |
१०५ क
सञ्जय़ उवाच:
व्यवस्थितो नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजो जय़ाय़ ||
१०५ ख
धृतराष्ट्र उवाच:
आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम् |
१०६ क
धृतराष्ट्र उवाच:
इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः ||
१०६ ख
वैशम्पाय़न उवाच:
एवं व्रुवन्नेव तदा धृतराष्ट्रोऽम्विकासुतः |
१०७ क
वैशम्पाय़न उवाच:
हतप्रवीरं विध्वस्तं किञ्चिच्छेषं स्वकं वलम् |
१०७ ख
वैशम्पाय़न उवाच:
श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रिय़ः ||
१०७ ग
वैशम्पाय़न उवाच:
मुह्यमानोऽव्रवीच्चापि मुहूर्तं तिष्ठ सञ्जय़ |
१०८ क
वैशम्पाय़न उवाच:
व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रिय़म् |
१०८ ख
वैशम्पाय़न उवाच:
नष्टचित्तस्ततः सोऽथ वभूव जगतीपतिः ||
१०८ ग