कृप उवाच:
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेय़मच्युत |
१ क
कृप उवाच:
न त्वा वारय़ितुं शक्तो वज्रपाणिरपि स्वय़म् ||
१ ख
कृप उवाच:
अनुय़ास्यावहे त्वां तु प्रभाते सहितावुभौ |
२ क
कृप उवाच:
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ||
२ ख
कृप उवाच:
अहं त्वामनुय़ास्यामि कृतवर्मा च सात्वतः |
३ क
कृप उवाच:
परानभिमुखं यान्तं रथावास्थाय़ दंशितौ ||
३ ख
कृप उवाच:
आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे |
४ क
कृप उवाच:
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान् ||
४ ख
कृप उवाच:
शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम् |
५ क
कृप उवाच:
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम् ||
५ ख
कृप उवाच:
विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद |
६ क
कृप उवाच:
समेत्य समरे शत्रून्वधिष्यसि न संशय़ः ||
६ ख
कृप उवाच:
न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवराय़ुधम् |
७ क
कृप उवाच:
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः ||
७ ख
कृप उवाच:
कृपेण सहितं यान्तं युक्तं च कृतवर्मणा |
८ क
कृप उवाच:
को द्रौणिं युधि संरव्धं योधय़ेदपि देवराट् ||
८ ख
कृप उवाच:
ते वय़ं परिविश्रान्ता विनिद्रा विगतज्वराः |
९ क
कृप उवाच:
प्रभाताय़ां रजन्यां वै निहनिष्याम शात्रवान् ||
९ ख
कृप उवाच:
तव ह्यस्त्राणि दिव्यानि मम चैव न संशय़ः |
१० क
कृप उवाच:
सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः ||
१० ख
कृप उवाच:
ते वय़ं सहितास्तात सर्वाञ्शत्रून्समागतान् |
११ क
कृप उवाच:
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् |
११ ख
कृप उवाच:
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् ||
११ ग
कृप उवाच:
अहं च कृतवर्मा च प्रय़ान्तं त्वां नरोत्तम |
१२ क
कृप उवाच:
अनुय़ास्याव सहितौ धन्विनौ परतापिनौ |
१२ ख
कृप उवाच:
रथिनं त्वरय़ा यान्तं रथावास्थाय़ दंशितौ ||
१२ ग
कृप उवाच:
स गत्वा शिविरं तेषां नाम विश्राव्य चाहवे |
१३ क
कृप उवाच:
ततः कर्तासि शत्रूणां युध्यतां कदनं महत् ||
१३ ख
कृप उवाच:
कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि |
१४ क
कृप उवाच:
विहरस्व यथा शक्रः सूदय़ित्वा महासुरान् ||
१४ ख
कृप उवाच:
त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् |
१५ क
कृप उवाच:
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ||
१५ ख
कृप उवाच:
मय़ा त्वां सहितं सङ्ख्ये गुप्तं च कृतवर्मणा |
१६ क
कृप उवाच:
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वय़म् ||
१६ ख
कृप उवाच:
न चाहं समरे तात कृतवर्मा तथैव च |
१७ क
कृप उवाच:
अनिर्जित्य रणे पाण्डून्व्यपय़ास्याव कर्हिचित् ||
१७ ख
कृप उवाच:
हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह |
१८ क
कृप उवाच:
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वय़म् ||
१८ ख
कृप उवाच:
सर्वोपाय़ैः सहाय़ास्ते प्रभाते वय़मेव हि |
१९ क
कृप उवाच:
सत्यमेतन्महावाहो प्रव्रवीमि तवानघ ||
१९ ख
कृप उवाच:
एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः |
२० क
कृप उवाच:
अव्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने ||
२० ख
कृप उवाच:
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च |
२१ क
कृप उवाच:
अर्थांश्चिन्तय़तश्चापि कामय़ानस्य वा पुनः ||
२१ ख
कृप उवाच:
तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टय़म् |
२२ क
कृप उवाच:
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय़ नाशय़ेत् ||
२२ ख
कृप उवाच:
किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन् |
२३ क
कृप उवाच:
हृदय़ं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति ||
२३ ख
कृप उवाच:
यथा च निहतः पापैः पिता मम विशेषतः |
२४ क
कृप उवाच:
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ||
२४ ख
कृप उवाच:
कथं हि मादृशो लोके मुहूर्तमपि जीवति |
२५ क
कृप उवाच:
द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम् ||
२५ ख
कृप उवाच:
दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे |
२६ क
कृप उवाच:
स मे पितृवधाद्वध्यः पाञ्चाला ये च सङ्गताः ||
२६ ख
कृप उवाच:
विलापो भग्नसक्थस्य यस्तु राज्ञो मय़ा श्रुतः |
२७ क
कृप उवाच:
स पुनर्हृदय़ं कस्य क्रूरस्यापि न निर्दहेत् ||
२७ ख
कृप उवाच:
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् |
२८ क
कृप उवाच:
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ||
२८ ख
कृप उवाच:
यश्चाय़ं मित्रपक्षो मे मय़ि जीवति निर्जितः |
२९ क
कृप उवाच:
शोकं मे वर्धय़त्येष वारिवेग इवार्णवम् |
२९ ख
कृप उवाच:
एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ||
२९ ग
कृप उवाच:
वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान् |
३० क
कृप उवाच:
अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल ||
३० ख
कृप उवाच:
न चास्मि शक्यः संय़न्तुमस्मात्कार्यात्कथञ्चन |
३१ क
कृप उवाच:
न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तय़ेत् |
३१ ख
कृप उवाच:
इति मे निश्चिता वुद्धिरेषा साधुमता च मे ||
३१ ग
कृप उवाच:
वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः |
३२ क
कृप उवाच:
पाण्डवानां च विजय़ो हृदय़ं दहतीव मे ||
३२ ख
कृप उवाच:
अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके |
३३ क
कृप उवाच:
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः ||
३३ ख