युधिष्ठिर उवाच:
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् |
१ क
युधिष्ठिर उवाच:
द्वैपाय़न मरुत्तस्य कथां प्रव्रूहि मेऽनघ ||
१ ख
व्यास उवाच:
आसीत्कृतय़ुगे पूर्वं मनुर्दण्डधरः प्रभुः |
२ क
व्यास उवाच:
तस्य पुत्रो महेष्वासः प्रजातिरिति विश्रुतः ||
२ ख
व्यास उवाच:
प्रजातेरभवत्पुत्रः क्षुप इत्यभिविश्रुतः |
३ क
व्यास उवाच:
क्षुपस्य पुत्रस्त्विक्ष्वाकुर्महीपालोऽभवत्प्रभुः ||
३ ख
व्यास उवाच:
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् |
४ क
व्यास उवाच:
तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ||
४ ख
व्यास उवाच:
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् |
५ क
व्यास उवाच:
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ||
५ ख
व्यास उवाच:
विविंशस्य सुता राजन्वभूवुर्दश पञ्च च |
६ क
व्यास उवाच:
सर्वे धनुषि विक्रान्ता व्रह्मण्याः सत्यवादिनः ||
६ ख
व्यास उवाच:
दानधर्मरताः सन्तः सततं प्रिय़वादिनः |
७ क
व्यास उवाच:
तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडय़त् ||
७ ख
व्यास उवाच:
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् |
८ क
व्यास उवाच:
नाशक्नोद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ||
८ ख
व्यास उवाच:
तमपास्य च तद्राष्ट्रं तस्य पुत्रं सुवर्चसम् |
९ क
व्यास उवाच:
अभ्यषिञ्चत राजेन्द्र मुदितं चाभवत्तदा ||
९ ख
व्यास उवाच:
स पितुर्विक्रिय़ां दृष्ट्वा राज्यान्निरसनं तथा |
१० क
व्यास उवाच:
निय़तो वर्तय़ामास प्रजाहितचिकीर्षय़ा ||
१० ख
व्यास उवाच:
व्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः |
११ क
व्यास उवाच:
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ||
११ ख
व्यास उवाच:
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् |
१२ क
व्यास उवाच:
तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडय़न् ||
१२ ख
व्यास उवाच:
स पीड्यमानो वहुभिः क्षीणकोशस्त्ववाहनः |
१३ क
व्यास उवाच:
आर्तिमार्छत्परां राजा सह भृत्यैः पुरेण च ||
१३ ख
व्यास उवाच:
न चैनं परिहर्तुं तेऽशक्नुवन्परिसङ्क्षय़े |
१४ क
व्यास उवाच:
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ||
१४ ख
व्यास उवाच:
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः |
१५ क
व्यास उवाच:
ततः प्रदध्मौ स करं प्रादुरासीत्ततो वलम् ||
१५ ख
व्यास उवाच:
ततस्तानजय़त्सर्वान्प्रातिसीमान्नराधिपान् |
१६ क
व्यास उवाच:
एतस्मात्कारणाद्राजन्विश्रुतः स करन्धमः ||
१६ ख
व्यास उवाच:
तस्य कारन्धमः पुत्रस्त्रेताय़ुगमुखेऽभवत् |
१७ क
व्यास उवाच:
इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जय़ः ||
१७ ख
व्यास उवाच:
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा |
१८ क
व्यास उवाच:
स हि सम्राडभूत्तेषां वृत्तेन च वलेन च ||
१८ ख
व्यास उवाच:
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् |
१९ क
व्यास उवाच:
यज्ञशीलः कर्मरतिर्धृतिमान्संय़तेन्द्रिय़ः ||
१९ ख
व्यास उवाच:
तेजसादित्यसदृशः क्षमय़ा पृथिवीसमः |
२० क
व्यास उवाच:
वृहस्पतिसमो वुद्ध्या हिमवानिव सुस्थिरः ||
२० ख
व्यास उवाच:
कर्मणा मनसा वाचा दमेन प्रशमेन च |
२१ क
व्यास उवाच:
मनांस्याराधय़ामास प्रजानां स महीपतिः ||
२१ ख
व्यास उवाच:
य ईजे हय़मेधानां शतेन विधिवत्प्रभुः |
२२ क
व्यास उवाच:
याजय़ामास यं विद्वान्स्वय़मेवाङ्गिराः प्रभुः ||
२२ ख
व्यास उवाच:
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तय़ा |
२३ क
व्यास उवाच:
मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महाय़शाः ||
२३ ख
व्यास उवाच:
नागाय़ुतसमप्राणः साक्षाद्विष्णुरिवापरः |
२४ क
व्यास उवाच:
स यक्ष्यमाणो धर्मात्मा शातकुम्भमय़ान्युत |
२४ ख
व्यास उवाच:
कारय़ामास शुभ्राणि भाजनानि सहस्रशः ||
२४ ग
व्यास उवाच:
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे |
२५ क
व्यास उवाच:
काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ||
२५ ख
व्यास उवाच:
ततः कुण्डानि पात्रीश्च पिठराण्यासनानि च |
२६ क
व्यास उवाच:
चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते ||
२६ ख
व्यास उवाच:
तस्यैव च समीपे स यज्ञवाटो वभूव ह |
२७ क
व्यास उवाच:
ईजे तत्र स धर्मात्मा विधिवत्पृथिवीपतिः |
२७ ख
व्यास उवाच:
मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ||
२७ ग