chevron_left मौसल पर्व अध्याय ४
वैशम्पाय़न उवाच:
काली स्त्री पाण्डुरैर्दन्तैः प्रविश्य हसती निशि |
१ क
वैशम्पाय़न उवाच:
स्त्रिय़ः स्वप्नेषु मुष्णन्ती द्वारकां परिधावति ||
१ ख
वैशम्पाय़न उवाच:
अलङ्काराश्च छत्रं च ध्वजाश्च कवचानि च |
२ क
वैशम्पाय़न उवाच:
ह्रिय़माणान्यदृश्यन्त रक्षोभिः सुभय़ानकैः ||
२ ख
वैशम्पाय़न उवाच:
तच्चाग्निदत्तं कृष्णस्य वज्रनाभमय़स्मय़म् |
३ क
वैशम्पाय़न उवाच:
दिवमाचक्रमे चक्रं वृष्णीनां पश्यतां तदा ||
३ ख
वैशम्पाय़न उवाच:
युक्तं रथं दिव्यमादित्यवर्णं; हय़ाहरन्पश्यतो दारुकस्य |
४ क
वैशम्पाय़न उवाच:
ते सागरस्योपरिष्ठादवर्त; न्मनोजवाश्चतुरो वाजिमुख्याः ||
४ ख
वैशम्पाय़न उवाच:
तालः सुपर्णश्च महाध्वजौ तौ; सुपूजितौ रामजनार्दनाभ्याम् |
५ क
वैशम्पाय़न उवाच:
उच्चैर्जह्रुरप्सरसो दिवानिशं; वाचश्चोचुर्गम्यतां तीर्थय़ात्रा ||
५ ख
वैशम्पाय़न उवाच:
ततो जिगमिषन्तस्ते वृष्ण्यन्धकमहारथाः |
६ क
वैशम्पाय़न उवाच:
सान्तःपुरास्तदा तीर्थय़ात्रामैच्छन्नरर्षभाः ||
६ ख
वैशम्पाय़न उवाच:
ततो भोज्यं च भक्ष्यं च पेय़ं चान्धकवृष्णय़ः |
७ क
वैशम्पाय़न उवाच:
वहु नानाविधं चक्रुर्मद्यं मांसमनेकशः ||
७ ख
वैशम्पाय़न उवाच:
ततः सीधुषु सक्ताश्च निर्ययुर्नगराद्वहिः |
८ क
वैशम्पाय़न उवाच:
यानैरश्वैर्गजैश्चैव श्रीमन्तस्तिग्मतेजसः ||
८ ख
वैशम्पाय़न उवाच:
ततः प्रभासे न्यवसन्यथोद्देशं यथागृहम् |
९ क
वैशम्पाय़न उवाच:
प्रभूतभक्ष्यपेय़ास्ते सदारा यादवास्तदा ||
९ ख
वैशम्पाय़न उवाच:
निविष्टांस्तान्निशम्याथ समुद्रान्ते स योगवित् |
१० क
वैशम्पाय़न उवाच:
जगामामन्त्र्य तान्वीरानुद्धवोऽर्थविशारदः ||
१० ख
वैशम्पाय़न उवाच:
तं प्रस्थितं महात्मानमभिवाद्य कृताञ्जलिम् |
११ क
वैशम्पाय़न उवाच:
जानन्विनाशं वृष्णीनां नैच्छद्वारय़ितुं हरिः ||
११ ख
वैशम्पाय़न उवाच:
ततः कालपरीतास्ते वृष्ण्यन्धकमहारथाः |
१२ क
वैशम्पाय़न उवाच:
अपश्यन्नुद्धवं यान्तं तेजसावृत्य रोदसी ||
१२ ख
वैशम्पाय़न उवाच:
व्राह्मणार्थेषु यत्सिद्धमन्नं तेषां महात्मनाम् |
१३ क
वैशम्पाय़न उवाच:
तद्वानरेभ्यः प्रददुः सुरागन्धसमन्वितम् ||
१३ ख
वैशम्पाय़न उवाच:
ततस्तूर्यशताकीर्णं नटनर्तकसङ्कुलम् |
१४ क
वैशम्पाय़न उवाच:
प्रावर्तत महापानं प्रभासे तिग्मतेजसाम् ||
१४ ख
वैशम्पाय़न उवाच:
कृष्णस्य संनिधौ रामः सहितः कृतवर्मणा |
१५ क
वैशम्पाय़न उवाच:
अपिवद्युय़ुधानश्च गदो वभ्रुस्तथैव च ||
१५ ख
वैशम्पाय़न उवाच:
ततः परिषदो मध्ये युय़ुधानो मदोत्कटः |
१६ क
वैशम्पाय़न उवाच:
अव्रवीत्कृतवर्माणमवहस्यावमन्य च ||
१६ ख
वैशम्पाय़न उवाच:
कः क्षत्रिय़ो मन्यमानः सुप्तान्हन्यान्मृतानिव |
१७ क
वैशम्पाय़न उवाच:
न तन्मृष्यन्ति हार्दिक्य यादवा यत्त्वय़ा कृतम् ||
१७ ख
वैशम्पाय़न उवाच:
इत्युक्ते युय़ुधानेन पूजय़ामास तद्वचः |
१८ क
वैशम्पाय़न उवाच:
प्रद्युम्नो रथिनां श्रेष्ठो हार्दिक्यमवमन्य च ||
१८ ख
वैशम्पाय़न उवाच:
ततः परमसङ्क्रुद्धः कृतवर्मा तमव्रवीत् |
१९ क
वैशम्पाय़न उवाच:
निर्दिशन्निव सावज्ञं तदा सव्येन पाणिना ||
१९ ख
वैशम्पाय़न उवाच:
भूरिश्रवाश्छिन्नवाहुर्युद्धे प्राय़गतस्त्वय़ा |
२० क
वैशम्पाय़न उवाच:
वधेन सुनृशंसेन कथं वीरेण पातितः ||
२० ख
वैशम्पाय़न उवाच:
इति तस्य वचः श्रुत्वा केशवः परवीरहा |
२१ क
वैशम्पाय़न उवाच:
तिर्यक्सरोषय़ा दृष्ट्या वीक्षां चक्रे स मन्युमान् ||
२१ ख
वैशम्पाय़न उवाच:
मणिः स्यमन्तकश्चैव यः स सत्राजितोऽभवत् |
२२ क
वैशम्पाय़न उवाच:
तां कथां स्मारय़ामास सात्यकिर्मधुसूदनम् ||
२२ ख
वैशम्पाय़न उवाच:
तच्छ्रुत्वा केशवस्याङ्कमगमद्रुदती तदा |
२३ क
वैशम्पाय़न उवाच:
सत्यभामा प्रकुपिता कोपय़न्ती जनार्दनम् ||
२३ ख
वैशम्पाय़न उवाच:
तत उत्थाय़ सक्रोधः सात्यकिर्वाक्यमव्रवीत् |
२४ क
वैशम्पाय़न उवाच:
पञ्चानां द्रौपदेय़ानां धृष्टद्युम्नशिखण्डिनोः ||
२४ ख
वैशम्पाय़न उवाच:
एष गच्छामि पदवीं सत्येन च तथा शपे |
२५ क
वैशम्पाय़न उवाच:
सौप्तिके ये च निहताः सुप्तानेन दुरात्मना ||
२५ ख
वैशम्पाय़न उवाच:
द्रोणपुत्रसहाय़ेन पापेन कृतवर्मणा |
२६ क
वैशम्पाय़न उवाच:
समाप्तमाय़ुरस्याद्य यशश्चापि सुमध्यमे ||
२६ ख
वैशम्पाय़न उवाच:
इतीदमुक्त्वा खड्गेन केशवस्य समीपतः |
२७ क
वैशम्पाय़न उवाच:
अभिद्रुत्य शिरः क्रुद्धश्चिच्छेद कृतवर्मणः ||
२७ ख
वैशम्पाय़न उवाच:
तथान्यानपि निघ्नन्तं युय़ुधानं समन्ततः |
२८ क
वैशम्पाय़न उवाच:
अभ्यधावद्धृषीकेशो विनिवारय़िषुस्तदा ||
२८ ख
वैशम्पाय़न उवाच:
एकीभूतास्ततः सर्वे कालपर्याय़चोदिताः |
२९ क
वैशम्पाय़न उवाच:
भोजान्धका महाराज शैनेय़ं पर्यवारय़न् ||
२९ ख
वैशम्पाय़न उवाच:
तान्दृष्ट्वा पततस्तूर्णमभिक्रुद्धाञ्जनार्दनः |
३० क
वैशम्पाय़न उवाच:
न चुक्रोध महातेजा जानन्कालस्य पर्ययम् ||
३० ख
वैशम्पाय़न उवाच:
ते तु पानमदाविष्टाश्चोदिताश्चैव मन्युना |
३१ क
वैशम्पाय़न उवाच:
युय़ुधानमथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा ||
३१ ख
वैशम्पाय़न उवाच:
हन्यमाने तु शैनेय़े क्रुद्धो रुक्मिणिनन्दनः |
३२ क
वैशम्पाय़न उवाच:
तदन्तरमुपाधावन्मोक्षय़िष्यञ्शिनेः सुतम् ||
३२ ख
वैशम्पाय़न उवाच:
स भोजैः सह संय़ुक्तः सात्यकिश्चान्धकैः सह |
३३ क
वैशम्पाय़न उवाच:
वहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः ||
३३ ख
वैशम्पाय़न उवाच:
हतं दृष्ट्वा तु शैनेय़ं पुत्रं च यदुनन्दनः |
३४ क
वैशम्पाय़न उवाच:
एरकाणां तदा मुष्टिं कोपाज्जग्राह केशवः ||
३४ ख
वैशम्पाय़न उवाच:
तदभून्मुसलं घोरं वज्रकल्पमय़ोमय़म् |
३५ क
वैशम्पाय़न उवाच:
जघान तेन कृष्णस्तान्येऽस्य प्रमुखतोऽभवन् ||
३५ ख
वैशम्पाय़न उवाच:
ततोऽन्धकाश्च भोजाश्च शैनेय़ा वृष्णय़स्तथा |
३६ क
वैशम्पाय़न उवाच:
जघ्नुरन्योन्यमाक्रन्दे मुसलैः कालचोदिताः ||
३६ ख
वैशम्पाय़न उवाच:
यस्तेषामेरकां कश्चिज्जग्राह रुषितो नृप |
३७ क
वैशम्पाय़न उवाच:
वज्रभूतेव सा राजन्नदृश्यत तदा विभो ||
३७ ख
वैशम्पाय़न उवाच:
तृणं च मुसलीभूतमपि तत्र व्यदृश्यत |
३८ क
वैशम्पाय़न उवाच:
व्रह्मदण्डकृतं सर्वमिति तद्विद्धि पार्थिव ||
३८ ख
वैशम्पाय़न उवाच:
आविध्याविध्य ते राजन्प्रक्षिपन्ति स्म यत्तृणम् |
३९ क
वैशम्पाय़न उवाच:
तद्वज्रभूतं मुसलं व्यदृश्यत तदा दृढम् ||
३९ ख
वैशम्पाय़न उवाच:
अवधीत्पितरं पुत्रः पिता पुत्रं च भारत |
४० क
वैशम्पाय़न उवाच:
मत्ताः परिपतन्ति स्म पोथय़न्तः परस्परम् ||
४० ख
वैशम्पाय़न उवाच:
पतङ्गा इव चाग्नौ ते न्यपतन्कुकुरान्धकाः |
४१ क
वैशम्पाय़न उवाच:
नासीत्पलाय़ने वुद्धिर्वध्यमानस्य कस्यचित् ||
४१ ख
वैशम्पाय़न उवाच:
तं तु पश्यन्महावाहुर्जानन्कालस्य पर्ययम् |
४२ क
वैशम्पाय़न उवाच:
मुसलं समवष्टभ्य तस्थौ स मधुसूदनः ||
४२ ख
वैशम्पाय़न उवाच:
साम्वं च निहतं दृष्ट्वा चारुदेष्णं च माधवः |
४३ क
वैशम्पाय़न उवाच:
प्रद्युम्नं चानिरुद्धं च ततश्चुक्रोध भारत ||
४३ ख
वैशम्पाय़न उवाच:
गदं वीक्ष्य शय़ानं च भृशं कोपसमन्वितः |
४४ क
वैशम्पाय़न उवाच:
स निःशेषं तदा चक्रे शार्ङ्गचक्रगदाधरः ||
४४ ख
वैशम्पाय़न उवाच:
तं निघ्नन्तं महातेजा वभ्रुः परपुरञ्जय़ः |
४५ क
वैशम्पाय़न उवाच:
दारुकश्चैव दाशार्हमूचतुर्यन्निवोध तत् ||
४५ ख
वैशम्पाय़न उवाच:
भगवन्संहृतं सर्वं त्वय़ा भूय़िष्ठमच्युत |
४६ क
वैशम्पाय़न उवाच:
रामस्य पदमन्विच्छ तत्र गच्छाम यत्र सः ||
४६ ख