वैशम्पाय़न उवाच:
ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
अय़ुतं भोजय़ामास व्राह्मणानां नराधिपः ||
१ ख
वैशम्पाय़न उवाच:
घृतपाय़सेन मधुना भक्ष्यैर्मूलफलैस्तथा |
२ क
वैशम्पाय़न उवाच:
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ||
२ ख
वैशम्पाय़न उवाच:
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः |
३ क
वैशम्पाय़न उवाच:
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ||
३ ख
वैशम्पाय़न उवाच:
वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि |
४ क
वैशम्पाय़न उवाच:
पूजय़ित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च ||
४ ख
वैशम्पाय़न उवाच:
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा |
५ क
वैशम्पाय़न उवाच:
उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम् ||
५ ख
वैशम्पाय़न उवाच:
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः |
६ क
वैशम्पाय़न उवाच:
तस्यां सभाय़ां रम्याय़ां रेमे शक्रो यथा दिवि ||
६ ख
वैशम्पाय़न उवाच:
सभाय़ामृषय़स्तस्यां पाण्डवैः सह आसते |
७ क
वैशम्पाय़न उवाच:
आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः ||
७ ख
वैशम्पाय़न उवाच:
असितो देवलः सत्यः सर्पमाली महाशिराः |
८ क
वैशम्पाय़न उवाच:
अर्वावसुः सुमित्रश्च मैत्रेय़ः शुनको वलिः ||
८ ख
वैशम्पाय़न उवाच:
वको दाल्भ्यः स्थूलशिराः कृष्णद्वैपाय़नः शुकः |
९ क
वैशम्पाय़न उवाच:
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वय़म् ||
९ ख
वैशम्पाय़न उवाच:
तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः |
१० क
वैशम्पाय़न उवाच:
अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ ||
१० ख
वैशम्पाय़न उवाच:
दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः |
११ क
वैशम्पाय़न उवाच:
मौञ्जाय़नो वाय़ुभक्षः पाराशर्यश्च सारिकौ ||
११ ख
वैशम्पाय़न उवाच:
वलवाकः शिनीवाकः सुत्यपालः कृतश्रमः |
१२ क
वैशम्पाय़न उवाच:
जातूकर्णः शिखावांश्च सुवलः पारिजातकः ||
१२ ख
वैशम्पाय़न उवाच:
पर्वतश्च महाभागो मार्कण्डेय़स्तथा मुनिः |
१३ क
वैशम्पाय़न उवाच:
पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा ||
१३ ख
वैशम्पाय़न उवाच:
जङ्घावन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः |
१४ क
वैशम्पाय़न उवाच:
हरिवभ्रुश्च कौण्डिन्यो वभ्रुमाली सनातनः ||
१४ ख
वैशम्पाय़न उवाच:
कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः |
१५ क
वैशम्पाय़न उवाच:
पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः |
१५ ख
वैशम्पाय़न उवाच:
कर्करो वेणुजङ्घश्च कलापः कठ एव च ||
१५ ग
वैशम्पाय़न उवाच:
मुनय़ो धर्मसहिता धृतात्मानो जितेन्द्रिय़ाः |
१६ क
वैशम्पाय़न उवाच:
एते चान्ये च वहवो वेदवेदाङ्गपारगाः ||
१६ ख
वैशम्पाय़न उवाच:
उपासते महात्मानं सभाय़ामृषिसत्तमाः |
१७ क
वैशम्पाय़न उवाच:
कथय़न्तः कथाः पुण्या धर्मज्ञाः शुचय़ोऽमलाः ||
१७ ख
वैशम्पाय़न उवाच:
तथैव क्षत्रिय़श्रेष्ठा धर्मराजमुपासते |
१८ क
वैशम्पाय़न उवाच:
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः ||
१८ ख
वैशम्पाय़न उवाच:
सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् |
१९ क
वैशम्पाय़न उवाच:
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः |
१९ ख
वैशम्पाय़न उवाच:
काम्वोजराजः कमलः कम्पनश्च महावलः ||
१९ ग
वैशम्पाय़न उवाच:
सततं कम्पय़ामास यवनानेक एव यः |
२० क
वैशम्पाय़न उवाच:
यथासुरान्कालकेय़ान्देवो वज्रधरस्तथा ||
२० ख
वैशम्पाय़न उवाच:
जटासुरो मद्रकान्तश्च राजा; कुन्तिः कुणिन्दश्च किरातराजः |
२१ क
वैशम्पाय़न उवाच:
तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण ||
२१ ख
वैशम्पाय़न उवाच:
किरातराजः सुमना यवनाधिपतिस्तथा |
२२ क
वैशम्पाय़न उवाच:
चाणूरो देवरातश्च भोजो भीमरथश्च यः ||
२२ ख
वैशम्पाय़न उवाच:
श्रुताय़ुधश्च कालिङ्गो जय़त्सेनश्च मागधः |
२३ क
वैशम्पाय़न उवाच:
सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः ||
२३ ख
वैशम्पाय़न उवाच:
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः |
२४ क
वैशम्पाय़न उवाच:
सुधर्मा चानिरुद्धश्च श्रुताय़ुश्च महावलः ||
२४ ख
वैशम्पाय़न उवाच:
अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः |
२५ क
वैशम्पाय़न उवाच:
शिशुपालः सहसुतः करूषाधिपतिस्तथा ||
२५ ख
वैशम्पाय़न उवाच:
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः |
२६ क
वैशम्पाय़न उवाच:
आहुको विपृथुश्चैव गदः सारण एव च ||
२६ ख
वैशम्पाय़न उवाच:
अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः |
२७ क
वैशम्पाय़न उवाच:
भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् |
२७ ख
वैशम्पाय़न उवाच:
केकय़ाश्च महेष्वासा यज्ञसेनश्च सौमकिः ||
२७ ग
वैशम्पाय़न उवाच:
अर्जुनं चापि संश्रित्य राजपुत्रा महावलाः |
२८ क
वैशम्पाय़न उवाच:
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः ||
२८ ख
वैशम्पाय़न उवाच:
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः |
२९ क
वैशम्पाय़न उवाच:
रौक्मिणेय़श्च साम्वश्च युय़ुधानश्च सात्यकिः ||
२९ ख
वैशम्पाय़न उवाच:
एते चान्ये च वहवो राजानः पृथिवीपते |
३० क
वैशम्पाय़न उवाच:
धनञ्जय़सखा चात्र नित्यमास्ते स्म तुम्वुरुः ||
३० ख
वैशम्पाय़न उवाच:
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा |
३१ क
वैशम्पाय़न उवाच:
गीतवादित्रकुशलाः शम्यातालविशारदाः ||
३१ ख
वैशम्पाय़न उवाच:
प्रमाणेऽथ लय़स्थाने किंनराः कृतनिश्रमाः |
३२ क
वैशम्पाय़न उवाच:
सञ्चोदितास्तुम्वुरुणा गन्धर्वाः सहिता जगुः ||
३२ ख
वैशम्पाय़न उवाच:
गाय़न्ति दिव्यतानैस्ते यथान्याय़ं मनस्विनः |
३३ क
वैशम्पाय़न उवाच:
पाण्डुपुत्रानृषींश्चैव रमय़न्त उपासते ||
३३ ख
वैशम्पाय़न उवाच:
तस्यां सभाय़ामासीनाः सुव्रताः सत्यसङ्गराः |
३४ क
वैशम्पाय़न उवाच:
दिवीव देवा व्रह्माणं युधिष्ठिरमुपासते ||
३४ ख