युधिष्ठिर उवाच:
कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ |
१ क
युधिष्ठिर उवाच:
मम चापि यथावुद्धि रुचितानि विनिश्चय़ात् ||
१ ख
युधिष्ठिर उवाच:
पुरोहितोऽय़मस्माकमग्निहोत्राणि रक्षतु |
२ क
युधिष्ठिर उवाच:
सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने ||
२ ख
युधिष्ठिर उवाच:
इन्द्रसेनमुखाश्चेमे रथानादाय़ केवलान् |
३ क
युधिष्ठिर उवाच:
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः ||
३ ख
युधिष्ठिर उवाच:
इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः |
४ क
युधिष्ठिर उवाच:
पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह ||
४ ख
युधिष्ठिर उवाच:
सर्वैरपि च वक्तव्यं न प्रज्ञाय़न्त पाण्डवाः |
५ क
युधिष्ठिर उवाच:
गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति ||
५ ख
धौम्य उवाच:
विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः |
६ क
धौम्य उवाच:
अतोऽहमपि वक्ष्यामि हेतुमात्रं निवोधत ||
६ ख
धौम्य उवाच:
हन्तेमां राजवसतिं राजपुत्रा व्रवीमि वः |
७ क
धौम्य उवाच:
यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति ||
७ ख
धौम्य उवाच:
दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि |
८ क
धौम्य उवाच:
अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम् ||
८ ख
धौम्य उवाच:
दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत् |
९ क
धौम्य उवाच:
तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः ||
९ ख
धौम्य उवाच:
नास्य यानं न पर्यङ्कं न पीठं न गजं रथम् |
१० क
धौम्य उवाच:
आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत् ||
१० ख
धौम्य उवाच:
अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः |
११ क
धौम्य उवाच:
न तत्रोपविशेज्जातु स राजवसतिं वसेत् ||
११ ख
धौम्य उवाच:
न चानुशिष्येद्राजानमपृच्छन्तं कदाचन |
१२ क
धौम्य उवाच:
तूष्णीं त्वेनमुपासीत काले समभिपूजय़न् ||
१२ ख
धौम्य उवाच:
असूय़न्ति हि राजानो जनाननृतवादिनः |
१३ क
धौम्य उवाच:
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा ||
१३ ख
धौम्य उवाच:
नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथञ्चन |
१४ क
धौम्य उवाच:
अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये ||
१४ ख
धौम्य उवाच:
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि |
१५ क
धौम्य उवाच:
एवं विचरतो राज्ञो न क्षतिर्जाय़ते क्वचित् ||
१५ ख
धौम्य उवाच:
यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह |
१६ क
धौम्य उवाच:
अनृतेनोपचीर्णो हि हिंस्यादेनमसंशय़म् ||
१६ ख
धौम्य उवाच:
यच्च भर्तानुय़ुञ्जीत तदेवाभ्यनुवर्तय़ेत् |
१७ क
धौम्य उवाच:
प्रमादमवहेलां च कोपं च परिवर्जय़ेत् ||
१७ ख
धौम्य उवाच:
समर्थनासु सर्वासु हितं च प्रिय़मेव च |
१८ क
धौम्य उवाच:
संवर्णय़ेत्तदेवास्य प्रिय़ादपि हितं वदेत् ||
१८ ख
धौम्य उवाच:
अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च |
१९ क
धौम्य उवाच:
अप्रिय़ं चाहितं यत्स्यात्तदस्मै नानुवर्णय़ेत् ||
१९ ख
धौम्य उवाच:
नाहमस्य प्रिय़ोऽस्मीति मत्वा सेवेत पण्डितः |
२० क
धौम्य उवाच:
अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रिय़ं च यत् ||
२० ख
धौम्य उवाच:
नास्यानिष्टानि सेवेत नाहितैः सह संवसेत् |
२१ क
धौम्य उवाच:
स्वस्थानान्न विकम्पेत स राजवसतिं वसेत् ||
२१ ख
धौम्य उवाच:
दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः |
२२ क
धौम्य उवाच:
रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीय़ते |
२२ ख
धौम्य उवाच:
नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत् ||
२२ ग
धौम्य उवाच:
न च सन्दर्शने किञ्चित्प्रवृद्धमपि सञ्जपेत् |
२३ क
धौम्य उवाच:
अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ||
२३ ख
धौम्य उवाच:
न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशय़ेत् |
२४ क
धौम्य उवाच:
यं चासूय़न्ति राजानः पुरुषं न वदेच्च तम् ||
२४ ख
धौम्य उवाच:
शूरोऽस्मीति न दृप्तः स्याद्वुद्धिमानिति वा पुनः |
२५ क
धौम्य उवाच:
प्रिय़मेवाचरन्राज्ञः प्रिय़ो भवति भोगवान् ||
२५ ख
धौम्य उवाच:
ऐश्वर्यं प्राप्य दुष्प्रापं प्रिय़ं प्राप्य च राजतः |
२६ क
धौम्य उवाच:
अप्रमत्तो भवेद्राज्ञः प्रिय़ेषु च हितेषु च ||
२६ ख
धौम्य उवाच:
यस्य कोपो महावाधः प्रसादश्च महाफलः |
२७ क
धौम्य उवाच:
कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः ||
२७ ख
धौम्य उवाच:
न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत् |
२८ क
धौम्य उवाच:
सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः ||
२८ ख
धौम्य उवाच:
हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित् |
२९ क
धौम्य उवाच:
नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् ||
२९ ख
धौम्य उवाच:
न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा |
३० क
धौम्य उवाच:
स्मितं तु मृदुपूर्वेण दर्शय़ेत प्रसादजम् ||
३० ख
धौम्य उवाच:
लाभे न हर्षय़ेद्यस्तु न व्यथेद्योऽवमानितः |
३१ क
धौम्य उवाच:
असंमूढश्च यो नित्यं स राजवसतिं वसेत् ||
३१ ख
धौम्य उवाच:
राजानं राजपुत्रं वा संवर्तय़ति यः सदा |
३२ क
धौम्य उवाच:
अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रिय़म् ||
३२ ख
धौम्य उवाच:
प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः |
३३ क
धौम्य उवाच:
न निर्वध्नाति राजानं लभते प्रग्रहं पुनः ||
३३ ख
धौम्य उवाच:
प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः |
३४ क
धौम्य उवाच:
उपजीवी भवेद्राज्ञो विषय़े चापि यो वसेत् ||
३४ ख
धौम्य उवाच:
अमात्यो हि वलाद्भोक्तुं राजानं प्रार्थय़ेत्तु यः |
३५ क
धौम्य उवाच:
न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशय़म् ||
३५ ख
धौम्य उवाच:
श्रेय़ः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् |
३६ क
धौम्य उवाच:
विशेषय़ेन्न राजानं योग्याभूमिषु सर्वदा ||
३६ ख
धौम्य उवाच:
अम्लानो वलवाञ्शूरश्छाय़ेवानपगः सदा |
३७ क
धौम्य उवाच:
सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् ||
३७ ख
धौम्य उवाच:
अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् |
३८ क
धौम्य उवाच:
अहं किं करवाणीति स राजवसतिं वसेत् ||
३८ ख
धौम्य उवाच:
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा |
३९ क
धौम्य उवाच:
आदिष्टो न विकल्पेत स राजवसतिं वसेत् ||
३९ ख
धौम्य उवाच:
यो वै गृहेभ्यः प्रवसन्प्रिय़ाणां नानुसंस्मरेत् |
४० क
धौम्य उवाच:
दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् ||
४० ख
धौम्य उवाच:
समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत् |
४१ क
धौम्य उवाच:
मन्त्रं न वहुधा कुर्यादेवं राज्ञः प्रिय़ो भवेत् ||
४१ ख
धौम्य उवाच:
न कर्मणि निय़ुक्तः सन्धनं किञ्चिदुपस्पृशेत् |
४२ क
धौम्य उवाच:
प्राप्नोति हि हरन्द्रव्यं वन्धनं यदि वा वधम् ||
४२ ख
धौम्य उवाच:
यानं वस्त्रमलङ्कारं यच्चान्यत्सम्प्रय़च्छति |
४३ क
धौम्य उवाच:
तदेव धारय़ेन्नित्यमेवं प्रिय़तरो भवेत् ||
४३ ख
धौम्य उवाच:
संवत्सरमिमं तात तथाशीला वुभूषवः |
४४ क
धौम्य उवाच:
अथ स्वविषय़ं प्राप्य यथाकामं चरिष्यथ ||
४४ ख
युधिष्ठिर उवाच:
अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन |
४५ क
युधिष्ठिर उवाच:
कुन्तीमृते मातरं नो विदुरं च महामतिम् ||
४५ ख
युधिष्ठिर उवाच:
यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति |
४६ क
युधिष्ठिर उवाच:
तारणाय़ास्य दुःखस्य प्रस्थानाय़ जय़ाय़ च ||
४६ ख
वैशम्पाय़न उवाच:
एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः |
४७ क
वैशम्पाय़न उवाच:
अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीय़ते ||
४७ ख
वैशम्पाय़न उवाच:
तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः |
४८ क
वैशम्पाय़न उवाच:
समृद्धिवृद्धिलाभाय़ पृथिवीविजय़ाय़ च ||
४८ ख
वैशम्पाय़न उवाच:
अग्निं प्रदक्षिणं कृत्वा व्राह्मणांश्च तपोधनान् |
४९ क
वैशम्पाय़न उवाच:
याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः ||
४९ ख