द्रुपद उवाच:
एवमेतन्महावाहो भविष्यति न संशय़ः |
१ क
द्रुपद उवाच:
न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति ||
१ ख
द्रुपद उवाच:
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रिय़ः |
२ क
द्रुपद उवाच:
भीष्मद्रोणौ च कार्पण्यान्मौर्ख्याद्राधेय़सौवलौ ||
२ ख
द्रुपद उवाच:
वलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते |
३ क
द्रुपद उवाच:
एतद्धि पुरुषेणाग्रे कार्यं सुनय़मिच्छता ||
३ ख
द्रुपद उवाच:
न तु वाच्यो मृदु वचो धार्तराष्ट्रः कथञ्चन |
४ क
द्रुपद उवाच:
न हि मार्दवसाध्योऽसौ पापवुद्धिर्मतो मम ||
४ ख
द्रुपद उवाच:
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् |
५ क
द्रुपद उवाच:
मृदु दुर्योधने वाक्यं यो व्रूय़ात्पापचेतसि ||
५ ख
द्रुपद उवाच:
मृदु वै मन्यते पापो भाष्यमाणमशक्तिजम् |
६ क
द्रुपद उवाच:
जितमर्थं विजानीय़ादवुधो मार्दवे सति ||
६ ख
द्रुपद उवाच:
एतच्चैव करिष्यामो यत्नश्च क्रिय़तामिह |
७ क
द्रुपद उवाच:
प्रस्थापय़ाम मित्रेभ्यो वलान्युद्योजय़न्तु नः ||
७ ख
द्रुपद उवाच:
शल्यस्य धृष्टकेतोश्च जय़त्सेनस्य चाभिभोः |
८ क
द्रुपद उवाच:
केकय़ानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ||
८ ख
द्रुपद उवाच:
स तु दुर्योधनो नूनं प्रेषय़िष्यति सर्वशः |
९ क
द्रुपद उवाच:
पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदकम् ||
९ ख
द्रुपद उवाच:
तत्त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने |
१० क
द्रुपद उवाच:
महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः ||
१० ख
द्रुपद उवाच:
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः |
११ क
द्रुपद उवाच:
भगदत्ताय़ राज्ञे च पूर्वसागरवासिने ||
११ ख
द्रुपद उवाच:
अमितौजसे तथोग्राय़ हार्दिक्याय़ाहुकाय़ च |
१२ क
द्रुपद उवाच:
दीर्घप्रज्ञाय़ मल्लाय़ रोचमानाय़ चाभिभो ||
१२ ख
द्रुपद उवाच:
आनीय़तां वृहन्तश्च सेनाविन्दुश्च पार्थिवः |
१३ क
द्रुपद उवाच:
पापजित्प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः ||
१३ ख
द्रुपद उवाच:
वाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च |
१४ क
द्रुपद उवाच:
सुपार्श्वश्च सुवाहुश्च पौरवश्च महारथः ||
१४ ख
द्रुपद उवाच:
शकानां पह्लवानां च दरदानां च ये नृपाः |
१५ क
द्रुपद उवाच:
काम्वोजा ऋषिका ये च पश्चिमानूपकाश्च ये ||
१५ ख
द्रुपद उवाच:
जय़त्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः |
१६ क
द्रुपद उवाच:
क्राथपुत्रश्च दुर्धर्षः पार्वतीय़ाश्च ये नृपाः ||
१६ ख
द्रुपद उवाच:
जानकिश्च सुशर्मा च मणिमान्पौतिमत्स्यकः |
१७ क
द्रुपद उवाच:
पांसुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान् ||
१७ ख
द्रुपद उवाच:
औड्रश्च दण्डधारश्च वृहत्सेनश्च वीर्यवान् |
१८ क
द्रुपद उवाच:
अपराजितो निषादश्च श्रेणिमान्वसुमानपि ||
१८ ख
द्रुपद उवाच:
वृहद्वलो महौजाश्च वाहुः परपुरञ्जय़ः |
१९ क
द्रुपद उवाच:
समुद्रसेनो राजा च सह पुत्रेण वीर्यवान् ||
१९ ख
द्रुपद उवाच:
अदारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः |
२० क
द्रुपद उवाच:
समर्थश्च सुवीरश्च मार्जारः कन्यकस्तथा ||
२० ख
द्रुपद उवाच:
महावीरश्च कद्रुश्च निकरस्तुमुलः क्रथः |
२१ क
द्रुपद उवाच:
नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् ||
२१ ख
द्रुपद उवाच:
दुर्जय़ो दन्तवक्त्रश्च रुक्मी च जनमेजय़ः |
२२ क
द्रुपद उवाच:
आषाढो वाय़ुवेगश्च पूर्वपाली च पार्थिवः ||
२२ ख
द्रुपद उवाच:
भूरितेजा देवकश्च एकलव्यस्य चात्मजः |
२३ क
द्रुपद उवाच:
कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् ||
२३ ख
द्रुपद उवाच:
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः |
२४ क
द्रुपद उवाच:
श्रुताय़ुश्च दृढाय़ुश्च शाल्वपुत्रश्च वीर्यवान् ||
२४ ख
द्रुपद उवाच:
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः |
२५ क
द्रुपद उवाच:
एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते ||
२५ ख
द्रुपद उवाच:
अय़ं च व्राह्मणः शीघ्रं मम राजन्पुरोहितः |
२६ क
द्रुपद उवाच:
प्रेष्यतां धृतराष्ट्राय़ वाक्यमस्मिन्समर्प्यताम् ||
२६ ख
द्रुपद उवाच:
यथा दुर्योधनो वाच्यो यथा शान्तनवो नृपः |
२७ क
द्रुपद उवाच:
धृतराष्ट्रो यथा वाच्यो द्रोणश्च विदुषां वरः ||
२७ ख