chevron_left भीष्म पर्व अध्याय ४
वैशम्पाय़न उवाच:
एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम |
१ क
वैशम्पाय़न उवाच:
पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् ||
१ ख
वैशम्पाय़न उवाच:
पुनरेवाव्रवीद्वाक्यं कालवादी महातपाः |
२ क
वैशम्पाय़न उवाच:
असंशय़ं पार्थिवेन्द्र कालः सङ्क्षिपते जगत् ||
२ ख
वैशम्पाय़न उवाच:
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् |
३ क
वैशम्पाय़न उवाच:
ज्ञातीनां च कुरूणां च सम्वन्धिसुहृदां तथा ||
३ ख
वैशम्पाय़न उवाच:
धर्म्यं देशय़ पन्थानं समर्थो ह्यसि वारणे |
४ क
वैशम्पाय़न उवाच:
क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रिय़म् ||
४ ख
वैशम्पाय़न उवाच:
कालोऽय़ं पुत्ररूपेण तव जातो विशां पते |
५ क
वैशम्पाय़न उवाच:
न वधः पूज्यते वेदे हितं नैतत्कथञ्चन ||
५ ख
वैशम्पाय़न उवाच:
हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम् |
६ क
वैशम्पाय़न उवाच:
कालेनोत्पथगन्तासि शक्ये सति यथापथि ||
६ ख
वैशम्पाय़न उवाच:
कुलस्यास्य विनाशाय़ तथैव च महीक्षिताम् |
७ क
वैशम्पाय़न उवाच:
अनर्थो राज्यरूपेण त्यज्यतामसुखावहः ||
७ ख
वैशम्पाय़न उवाच:
लुप्तप्रज्ञः परेणासि धर्मं दर्शय़ वै सुतान् |
८ क
वैशम्पाय़न उवाच:
किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्विषम् ||
८ ख
वैशम्पाय़न उवाच:
यशो धर्मं च कीर्तिं च पालय़न्स्वर्गमाप्स्यसि |
९ क
वैशम्पाय़न उवाच:
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ||
९ ख
वैशम्पाय़न उवाच:
एवं व्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्विकासुतः |
१० क
वैशम्पाय़न उवाच:
आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः ||
१० ख
धृतराष्ट्र उवाच:
यथा भवान्वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत् |
११ क
धृतराष्ट्र उवाच:
स्वार्थे हि संमुह्यति तात लोको; मां चापि लोकात्मकमेव विद्धि ||
११ ख
धृतराष्ट्र उवाच:
प्रसादय़े त्वामतुलप्रभावं; त्वं नो गतिर्दर्शय़िता च धीरः |
१२ क
धृतराष्ट्र उवाच:
न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुमिहार्हसे माम् ||
१२ ख
धृतराष्ट्र उवाच:
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः |
१३ क
धृतराष्ट्र उवाच:
कुरूणां पाण्डवानां च मान्यश्चासि पितामहः ||
१३ ख
व्यास उवाच:
वैचित्रवीर्य नृपते यत्ते मनसि वर्तते |
१४ क
व्यास उवाच:
अभिधत्स्व यथाकामं छेत्तास्मि तव संशय़म् ||
१४ ख
धृतराष्ट्र उवाच:
यानि लिङ्गानि सङ्ग्रामे भवन्ति विजय़िष्यताम् |
१५ क
धृतराष्ट्र उवाच:
तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः ||
१५ ख
व्यास उवाच:
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः |
१६ क
व्यास उवाच:
पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जय़स्यैतद्भाविनो रूपमाहुः ||
१६ ख
व्यास उवाच:
गम्भीरघोषाश्च महास्वनाश्च; शङ्खा मृदङ्गाश्च नदन्ति यत्र |
१७ क
व्यास उवाच:
विशुद्धरश्मिस्तपनः शशी च; जय़स्यैतद्भाविनो रूपमाहुः ||
१७ ख
व्यास उवाच:
इष्टा वाचः पृष्ठतो वाय़सानां; सम्प्रस्थितानां च गमिष्यतां च |
१८ क
व्यास उवाच:
ये पृष्ठतस्ते त्वरय़न्ति राज; न्ये त्वग्रतस्ते प्रतिषेधय़न्ति ||
१८ ख
व्यास उवाच:
कल्याणवाचः शकुना राजहंसाः; शुकाः क्रौञ्चाः शतपत्राश्च यत्र |
१९ क
व्यास उवाच:
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये; ध्रुवं जय़ं तत्र वदन्ति विप्राः ||
१९ ख
व्यास उवाच:
अलङ्कारैः कवचैः केतुभिश्च; मुखप्रसादैर्हेमवर्णैश्च नॄणाम् |
२० क
व्यास उवाच:
भ्राजिष्मती दुष्प्रतिप्रेक्षणीय़ा; येषां चमूस्ते विजय़न्ति शत्रून् ||
२० ख
व्यास उवाच:
हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत |
२१ क
व्यास उवाच:
न म्लाय़न्ते स्रजश्चैव ते तरन्ति रणे रिपून् ||
२१ ख
व्यास उवाच:
इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः |
२२ क
व्यास उवाच:
पश्चात्संसाधय़त्यर्थं पुरस्तात्प्रतिषेधते ||
२२ ख
व्यास उवाच:
शव्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः |
२३ क
व्यास उवाच:
सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जय़ः ||
२३ ख
व्यास उवाच:
अन्वेव वाय़वो वान्ति तथाभ्राणि वय़ांसि च |
२४ क
व्यास उवाच:
अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च ||
२४ ख
व्यास उवाच:
एतानि जय़मानानां लक्षणानि विशां पते |
२५ क
व्यास उवाच:
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ||
२५ ख
व्यास उवाच:
अल्पाय़ां वा महत्यां वा सेनाय़ामिति निश्चितम् |
२६ क
व्यास उवाच:
हर्षो योधगणस्यैकं जय़लक्षणमुच्यते ||
२६ ख
व्यास उवाच:
एको दीर्णो दारय़ति सेनां सुमहतीमपि |
२७ क
व्यास उवाच:
तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि ||
२७ ख
व्यास उवाच:
दुर्निवारतमा चैव प्रभग्ना महती चमूः |
२८ क
व्यास उवाच:
अपामिव महावेगस्त्रस्ता मृगगणा इव ||
२८ ख
व्यास उवाच:
नैव शक्या समाधातुं संनिपाते महाचमूः |
२९ क
व्यास उवाच:
दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि |
२९ ख
व्यास उवाच:
भीतान्भग्नांश्च सम्प्रेक्ष्य भय़ं भूय़ो विवर्धते ||
२९ ग
व्यास उवाच:
प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः |
३० क
व्यास उवाच:
नैव स्थापय़ितुं शक्या शूरैरपि महाचमूः ||
३० ख
व्यास उवाच:
सम्भृत्य महतीं सेनां चतुरङ्गां महीपतिः |
३१ क
व्यास उवाच:
उपाय़पूर्वं मेधावी यतेत सततोत्थितः ||
३१ ख
व्यास उवाच:
उपाय़विजय़ं श्रेष्ठमाहुर्भेदेन मध्यमम् |
३२ क
व्यास उवाच:
जघन्य एष विजय़ो यो युद्धेन विशां पते |
३२ ख
व्यास उवाच:
महादोषः संनिपातस्ततो व्यङ्गः स उच्यते ||
३२ ग
व्यास उवाच:
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः |
३३ क
व्यास उवाच:
पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् |
३३ ख
व्यास उवाच:
अथ वा पञ्च षट्सप्त विजय़न्त्यनिवर्तिनः ||
३३ ग
व्यास उवाच:
न वैनतेय़ो गरुडः प्रशंसति महाजनम् |
३४ क
व्यास उवाच:
दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत ||
३४ ख
व्यास उवाच:
न वाहुल्येन सेनाय़ा जय़ो भवति भारत |
३५ क
व्यास उवाच:
अध्रुवो हि जय़ो नाम दैवं चात्र पराय़णम् |
३५ ख
व्यास उवाच:
जय़न्तो ह्यपि सङ्ग्रामे क्षय़वन्तो भवन्त्युत ||
३५ ग