chevron_left द्रोण पर्व अध्याय ४
सञ्जय़ उवाच:
तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः |
१ क
सञ्जय़ उवाच:
देशकालोचितं वाक्यमव्रवीत्प्रीतमानसः ||
१ ख
सञ्जय़ उवाच:
समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः |
२ क
सञ्जय़ उवाच:
सत्यस्य च यथा सन्तो वीजानामिव चोर्वरा ||
२ ख
सञ्जय़ उवाच:
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव |
३ क
सञ्जय़ उवाच:
वान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः ||
३ ख
सञ्जय़ उवाच:
स्ववाहुवलवीर्येण धार्तराष्ट्रप्रिय़ैषिणा |
४ क
सञ्जय़ उवाच:
कर्ण राजपुरं गत्वा काम्वोजा निहतास्त्वय़ा ||
४ ख
सञ्जय़ उवाच:
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः |
५ क
सञ्जय़ उवाच:
अम्वष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वय़ा ||
५ ख
सञ्जय़ उवाच:
हिमवद्दुर्गनिलय़ाः किराता रणकर्कशाः |
६ क
सञ्जय़ उवाच:
दुर्योधनस्य वशगाः कृताः कर्ण त्वय़ा पुरा ||
६ ख
सञ्जय़ उवाच:
तत्र तत्र च सङ्ग्रामे दुर्योधनहितैषिणा |
७ क
सञ्जय़ उवाच:
वहवश्च जिता वीरास्त्वय़ा कर्ण महौजसा ||
७ ख
सञ्जय़ उवाच:
यथा दुर्योधनस्तात सज्ञातिकुलवान्धवः |
८ क
सञ्जय़ उवाच:
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव ||
८ ख
सञ्जय़ उवाच:
शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः |
९ क
सञ्जय़ उवाच:
अनुशाधि कुरून्सङ्ख्ये धत्स्व दुर्योधने जय़म् ||
९ ख
सञ्जय़ उवाच:
भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा |
१० क
सञ्जय़ उवाच:
तवापि धर्मतः सर्वे यथा तस्य वय़ं तथा ||
१० ख
सञ्जय़ उवाच:
यौनात्सम्वन्धकाल्लोके विशिष्टं सङ्गतं सताम् |
११ क
सञ्जय़ उवाच:
सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः ||
११ ख
सञ्जय़ उवाच:
स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितम् |
१२ क
सञ्जय़ उवाच:
कुरूणां पालय़ वलं यथा दुर्योधनस्तथा ||
१२ ख
सञ्जय़ उवाच:
इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च |
१३ क
सञ्जय़ उवाच:
यय़ौ वैकर्तनः कर्णस्तूर्णमाय़ोधनं प्रति ||
१३ ख
सञ्जय़ उवाच:
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् |
१४ क
सञ्जय़ उवाच:
व्यूढप्रहरणोरस्कं सैन्यं तत्समवृंहय़त् ||
१४ ख
सञ्जय़ उवाच:
कर्णं दृष्ट्वा महेष्वासं युद्धाय़ समवस्थितम् |
१५ क
सञ्जय़ उवाच:
क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि |
१५ ख
सञ्जय़ उवाच:
धनुःशव्दैश्च विविधैः कुरवः समपूजय़न् ||
१५ ग