chevron_left कर्ण पर्व अध्याय ४
वैशम्पाय़न उवाच:
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्विकासुतः |
१ क
वैशम्पाय़न उवाच:
अव्रवीत्सञ्जय़ं सूतं शोकव्याकुलचेतनः ||
१ ख
वैशम्पाय़न उवाच:
दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः |
२ क
वैशम्पाय़न उवाच:
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ||
२ ख
वैशम्पाय़न उवाच:
कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः |
३ क
वैशम्पाय़न उवाच:
कुरूणां सृञ्जय़ानां च के नु जीवन्ति के मृताः ||
३ ख
सञ्जय़ उवाच:
हतः शान्तनवो राजन्दुराधर्षः प्रतापवान् |
४ क
सञ्जय़ उवाच:
हत्वा पाण्डवय़ोधानामर्वुदं दशभिर्दिनैः ||
४ ख
सञ्जय़ उवाच:
ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् |
५ क
सञ्जय़ उवाच:
निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः ||
५ ख
सञ्जय़ उवाच:
हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना |
६ क
सञ्जय़ उवाच:
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ||
६ ख
सञ्जय़ उवाच:
विविंशतिर्महाराज राजपुत्रो महावलः |
७ क
सञ्जय़ उवाच:
आनर्तय़ोधाञ्शतशो निहत्य निहतो रणे ||
७ ख
सञ्जय़ उवाच:
अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् |
८ क
सञ्जय़ उवाच:
क्षीणवाहाय़ुधः शूरः स्थितोऽभिमुखतः परान् ||
८ ख
सञ्जय़ उवाच:
घोररूपान्परिक्लेशान्दुर्योधनकृतान्वहून् |
९ क
सञ्जय़ उवाच:
प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ||
९ ख
सञ्जय़ उवाच:
विन्दानुविन्दावावन्त्यौ राजपुत्रौ महावलौ |
१० क
सञ्जय़ उवाच:
कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षय़म् ||
१० ख
सञ्जय़ उवाच:
सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै |
११ क
सञ्जय़ उवाच:
वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ||
११ ख
सञ्जय़ उवाच:
अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः |
१२ क
सञ्जय़ उवाच:
अर्जुनेन हतो राजन्महावीर्यो जय़द्रथः ||
१२ ख
सञ्जय़ उवाच:
तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः |
१३ क
सञ्जय़ उवाच:
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ||
१३ ख
सञ्जय़ उवाच:
तथा दौःशासनिर्वीरो वाहुशाली रणोत्कटः |
१४ क
सञ्जय़ उवाच:
द्रौपदेय़ेन विक्रम्य गमितो यमसादनम् ||
१४ ख
सञ्जय़ उवाच:
किरातानामधिपतिः सागरानूपवासिनाम् |
१५ क
सञ्जय़ उवाच:
देवराजस्य धर्मात्मा प्रिय़ो वहुमतः सखा ||
१५ ख
सञ्जय़ उवाच:
भगदत्तो महीपालः क्षत्रधर्मरतः सदा |
१६ क
सञ्जय़ उवाच:
धनञ्जय़ेन विक्रम्य गमितो यमसादनम् ||
१६ ख
सञ्जय़ उवाच:
तथा कौरवदाय़ादः सौमदत्तिर्महाय़शाः |
१७ क
सञ्जय़ उवाच:
हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ||
१७ ख
सञ्जय़ उवाच:
श्रुताय़ुरपि चाम्वष्ठः क्षत्रिय़ाणां धनुर्धरः |
१८ क
सञ्जय़ उवाच:
चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना ||
१८ ख
सञ्जय़ उवाच:
तव पुत्रः सदा सङ्ख्ये कृतास्त्रो युद्धदुर्मदः |
१९ क
सञ्जय़ उवाच:
दुःशासनो महाराज भीमसेनेन पातितः ||
१९ ख
सञ्जय़ उवाच:
यस्य राजन्गजानीकं वहुसाहस्रमद्भुतम् |
२० क
सञ्जय़ उवाच:
सुदक्षिणः स सङ्ग्रामे निहतः सव्यसाचिना ||
२० ख
सञ्जय़ उवाच:
कोसलानामधिपतिर्हत्वा वहुशतान्परान् |
२१ क
सञ्जय़ उवाच:
सौभद्रेण हि विक्रम्य गमितो यमसादनम् ||
२१ ख
सञ्जय़ उवाच:
वहुशो योधय़ित्वा च भीमसेनं महारथः |
२२ क
सञ्जय़ उवाच:
चित्रसेनस्तव सुतो भीमसेनेन पातितः ||
२२ ख
सञ्जय़ उवाच:
मद्रराजात्मजः शूरः परेषां भय़वर्धनः |
२३ क
सञ्जय़ उवाच:
असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ||
२३ ख
सञ्जय़ उवाच:
समः कर्णस्य समरे यः स कर्णस्य पश्यतः |
२४ क
सञ्जय़ उवाच:
वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चय़ः ||
२४ ख
सञ्जय़ उवाच:
अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः |
२५ क
सञ्जय़ उवाच:
धनञ्जय़ेन विक्रम्य गमितो यमसादनम् ||
२५ ख
सञ्जय़ उवाच:
नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः |
२६ क
सञ्जय़ उवाच:
विश्राव्य वैरं पार्थेन श्रुताय़ुः स निपातितः ||
२६ ख
सञ्जय़ उवाच:
शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष |
२७ क
सञ्जय़ उवाच:
हतो रुक्मरथो राजन्भ्राता मातुलजो युधि ||
२७ ख
सञ्जय़ उवाच:
राजा भगीरथो वृद्धो वृहत्क्षत्रश्च केकय़ः |
२८ क
सञ्जय़ उवाच:
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ||
२८ ख
सञ्जय़ उवाच:
भगदत्तसुतो राजन्कृतप्रज्ञो महावलः |
२९ क
सञ्जय़ उवाच:
श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः ||
२९ ख
सञ्जय़ उवाच:
पितामहस्तव तथा वाह्लिकः सह वाह्लिकैः |
३० क
सञ्जय़ उवाच:
भीमसेनेन विक्रम्य गमितो यमसादनम् ||
३० ख
सञ्जय़ उवाच:
जय़त्सेनस्तथा राजञ्जारासन्धिर्महावलः |
३१ क
सञ्जय़ उवाच:
मागधो निहतः सङ्ख्ये सौभद्रेण महात्मना ||
३१ ख
सञ्जय़ उवाच:
पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः |
३२ क
सञ्जय़ उवाच:
गदय़ा भीमसेनेन निहतौ शूरमानिनौ ||
३२ ख
सञ्जय़ उवाच:
दुर्मर्षणो दुर्विषहो दुर्जय़श्च महारथः |
३३ क
सञ्जय़ उवाच:
कृत्वा नसुकरं कर्म गता वैवस्वतक्षय़म् ||
३३ ख
सञ्जय़ उवाच:
सचिवो वृषवर्मा ते सूतः परमवीर्यवान् |
३४ क
सञ्जय़ उवाच:
भीमसेनेन विक्रम्य गमितो यमसादनम् ||
३४ ख
सञ्जय़ उवाच:
नागाय़ुतवलो राजा नागाय़ुतवलो महान् |
३५ क
सञ्जय़ उवाच:
सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना ||
३५ ख
सञ्जय़ उवाच:
वसातय़ो महाराज द्विसाहस्राः प्रहारिणः |
३६ क
सञ्जय़ उवाच:
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ||
३६ ख
सञ्जय़ उवाच:
अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः |
३७ क
सञ्जय़ उवाच:
शिवय़श्च रथोदाराः कलिङ्गसहिता हताः ||
३७ ख
सञ्जय़ उवाच:
गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः |
३८ क
सञ्जय़ उवाच:
श्रेणय़ो वहुसाहस्राः संशप्तकगणाश्च ये |
३८ ख
सञ्जय़ उवाच:
ते सर्वे पार्थमासाद्य गता वैवस्वतक्षय़म् ||
३८ ग
सञ्जय़ उवाच:
स्यालौ तव महाराज राजानौ वृषकाचलौ |
३९ क
सञ्जय़ उवाच:
त्वदर्थे सम्पराक्रान्तौ निहतौ सव्यसाचिना ||
३९ ख
सञ्जय़ उवाच:
उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा |
४० क
सञ्जय़ उवाच:
शाल्वराजो महाराज भीमसेनेन पातितः ||
४० ख
सञ्जय़ उवाच:
ओघवांश्च महाराज वृहन्तः सहितो रणे |
४१ क
सञ्जय़ उवाच:
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षय़म् ||
४१ ख
सञ्जय़ उवाच:
तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते |
४२ क
सञ्जय़ उवाच:
निहतो गदय़ा राजन्भीमसेनेन संय़ुगे ||
४२ ख
सञ्जय़ उवाच:
तथा राजा महेष्वासो जलसन्धो महावलः |
४३ क
सञ्जय़ उवाच:
सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ||
४३ ख
सञ्जय़ उवाच:
अलाय़ुधो राक्षसेन्द्रः खरवन्धुरय़ानगः |
४४ क
सञ्जय़ उवाच:
घटोत्कचेन विक्रम्य गमितो यमसादनम् ||
४४ ख
सञ्जय़ उवाच:
राधेय़ाः सूतपुत्राश्च भ्रातरश्च महारथाः |
४५ क
सञ्जय़ उवाच:
केकय़ाः सर्वशश्चापि निहताः सव्यसाचिना ||
४५ ख
सञ्जय़ उवाच:
मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः |
४६ क
सञ्जय़ उवाच:
यौधेय़ाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ||
४६ ख
सञ्जय़ उवाच:
मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः |
४७ क
सञ्जय़ उवाच:
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ||
४७ ख
सञ्जय़ उवाच:
पत्तीनां निहताः सङ्घा हय़ानामय़ुतानि च |
४८ क
सञ्जय़ उवाच:
रथव्रजाश्च निहता हताश्च वरवारणाः ||
४८ ख
सञ्जय़ उवाच:
सध्वजाः साय़ुधाः शूराः सवर्माम्वरभूषणाः |
४९ क
सञ्जय़ उवाच:
कालेन महता यत्ताः कुले ये च विवर्धिताः ||
४९ ख
सञ्जय़ उवाच:
ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा |
५० क