सञ्जय़ उवाच:
सिंहकेतुं रोचमानं शलभं च महारथम् |
५१ क
सञ्जय़ उवाच:
निजघान सुसङ्क्रुद्धश्चेदीनां च महारथान् ||
५१ ख
सञ्जय़ उवाच:
तेषामाददतः प्राणानासीदाधिरथेर्वपुः |
५२ क
सञ्जय़ उवाच:
शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् ||
५२ ख
सञ्जय़ उवाच:
तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः |
५३ क
सञ्जय़ उवाच:
सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ||
५३ ख
सञ्जय़ उवाच:
निपेतुरुर्व्यां समरे कर्णसाय़कपीडिताः |
५४ क
सञ्जय़ उवाच:
कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ||
५४ ख
सञ्जय़ उवाच:
गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः |
५५ क
सञ्जय़ उवाच:
रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी ||
५५ ख
सञ्जय़ उवाच:
नैव भीष्मो न च द्रोणो नाप्यन्ये युधि तावकाः |
५६ क
सञ्जय़ उवाच:
चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे ||
५६ ख
सञ्जय़ उवाच:
सूतपुत्रेण नागेषु रथेषु च हय़ेषु च |
५७ क
सञ्जय़ उवाच:
नरेषु च नरव्याघ्र कृतं स्म कदनं महत् ||
५७ ख
सञ्जय़ उवाच:
मृगमध्ये यथा सिंहो दृश्यते निर्भय़श्चरन् |
५८ क
सञ्जय़ उवाच:
पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ||
५८ ख
सञ्जय़ उवाच:
यथा मृगगणांस्त्रस्तान्सिंहो द्रावय़ते दिशः |
५९ क
सञ्जय़ उवाच:
पाञ्चालानां रथव्रातान्कर्णो द्रावय़ते तथा ||
५९ ख
सञ्जय़ उवाच:
सिंहास्यं च यथा प्राप्य न जीवन्ति मृगाः क्वचित् |
६० क
सञ्जय़ उवाच:
तथा कर्णमनुप्राप्य न जीवन्ति महारथाः ||
६० ख
सञ्जय़ उवाच:
वैश्वानरं यथा दीप्तं दह्यन्ते प्राप्य वै जनाः |
६१ क
सञ्जय़ उवाच:
कर्णाग्निना रणे तद्वद्दग्धा भारत सृञ्जय़ाः ||
६१ ख
सञ्जय़ उवाच:
कर्णेन चेदिष्वेकेन पाञ्चालेषु च भारत |
६२ क
सञ्जय़ उवाच:
विश्राव्य नाम निहता वहवः शूरसंमताः ||
६२ ख
सञ्जय़ उवाच:
मम चासीन्मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम् |
६३ क
सञ्जय़ उवाच:
नैकोऽप्याधिरथेर्जीवन्पाञ्चाल्यो मोक्ष्यते युधि ||
६३ ख
सञ्जय़ उवाच:
पाञ्चालान्विधमन्सङ्ख्ये सूतपुत्रः प्रतापवान् |
६४ क
सञ्जय़ उवाच:
अभ्यधावत सङ्क्रुद्धो धर्मपुत्रं युधिष्ठिरम् ||
६४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नश्च राजानं द्रौपदेय़ाश्च मारिष |
६५ क
सञ्जय़ उवाच:
परिवव्रुरमित्रघ्नं शतशश्चापरे जनाः ||
६५ ख
सञ्जय़ उवाच:
शिखण्डी सहदेवश्च नकुलो नाकुलिस्तथा |
६६ क
सञ्जय़ उवाच:
जनमेजय़ः शिनेर्नप्ता वहवश्च प्रभद्रकाः ||
६६ ख
सञ्जय़ उवाच:
एते पुरोगमा भूत्वा धृष्टद्युम्नस्य संय़ुगे |
६७ क
सञ्जय़ उवाच:
कर्णमस्यन्तमिष्वस्त्रैर्विचेरुरमितौजसः ||
६७ ख
सञ्जय़ उवाच:
तांस्तत्राधिरथिः सङ्ख्ये चेदिपाञ्चालपाण्डवान् |
६८ क
सञ्जय़ उवाच:
एको वहूनभ्यपतद्गरुत्मन्पन्नगानिव ||
६८ ख
सञ्जय़ उवाच:
भीमसेनस्तु सङ्क्रुद्धः कुरून्मद्रान्सकेकय़ान् |
६९ क
सञ्जय़ उवाच:
एकः सङ्ख्ये महेष्वासो योधय़न्वह्वशोभत ||
६९ ख
सञ्जय़ उवाच:
तत्र मर्मसु भीमेन नाराचैस्ताडिता गजाः |
७० क
सञ्जय़ उवाच:
प्रपतन्तो हतारोहाः कम्पय़न्ति स्म मेदिनीम् ||
७० ख
सञ्जय़ उवाच:
वाजिनश्च हतारोहाः पत्तय़श्च गतासवः |
७१ क
सञ्जय़ उवाच:
शेरते युधि निर्भिन्ना वमन्तो रुधिरं वहु ||
७१ ख
सञ्जय़ उवाच:
सहस्रशश्च रथिनः पतिताः पतिताय़ुधाः |
७२ क
सञ्जय़ उवाच:
अक्षताः समदृश्यन्त भीमाद्भीता गतासवः ||
७२ ख
सञ्जय़ उवाच:
रथिभिर्वाजिभिः सूतैः पत्तिभिश्च तथा गजैः |
७३ क
सञ्जय़ उवाच:
भीमसेनशरच्छिन्नैरास्तीर्णा वसुधाभवत् ||
७३ ख
सञ्जय़ उवाच:
तत्स्तम्भितमिवातिष्ठद्भीमसेनवलार्दितम् |
७४ क
सञ्जय़ उवाच:
दुर्योधनवलं राजन्निरुत्साहं कृतव्रणम् ||
७४ ख
सञ्जय़ उवाच:
निश्चेष्टं तुमुले दीनं वभौ तस्मिन्महारणे |
७५ क
सञ्जय़ उवाच:
प्रसन्नसलिलः काले यथा स्यात्सागरो नृप ||
७५ ख
सञ्जय़ उवाच:
मन्युवीर्यवलोपेतं वलात्पर्यवरोपितम् |
७६ क
सञ्जय़ उवाच:
अभवत्तव पुत्रस्य तत्सैन्यमिषुभिस्तदा |
७६ ख
सञ्जय़ उवाच:
रुधिरौघपरिक्लिन्नं रुधिरार्द्रं वभूव ह ||
७६ ग
सञ्जय़ उवाच:
सूतपुत्रो रणे क्रुद्धः पाण्डवानामनीकिनीम् |
७७ क
सञ्जय़ उवाच:
भीमसेनः कुरूंश्चापि द्रावय़न्वह्वशोभत ||
७७ ख
सञ्जय़ उवाच:
वर्तमाने तथा रौद्रे सङ्ग्रामेऽद्भुतदर्शने |
७८ क
सञ्जय़ उवाच:
निहत्य पृतनामध्ये संशप्तकगणान्वहून् ||
७८ ख
सञ्जय़ उवाच:
अर्जुनो जय़तां श्रेष्ठो वासुदेवमथाव्रवीत् |
७९ क
सञ्जय़ उवाच:
प्रभग्नं वलमेतद्धि योत्स्यमानं जनार्दन ||
७९ ख
सञ्जय़ उवाच:
एते धावन्ति सगणाः संशप्तकमहारथाः |
८० क
सञ्जय़ उवाच:
अपारय़न्तो मद्वाणान्सिंहशव्दान्मृगा इव ||
८० ख
सञ्जय़ उवाच:
दीर्यते च महत्सैन्यं सृञ्जय़ानां महारणे |
८१ क
सञ्जय़ उवाच:
हस्तिकक्ष्यो ह्यसौ कृष्ण केतुः कर्णस्य धीमतः |
८१ ख
सञ्जय़ उवाच:
दृश्यते राजसैन्यस्य मध्ये विचरतो मुहुः ||
८१ ग
सञ्जय़ उवाच:
न च कर्णं रणे शक्ता जेतुमन्ये महारथाः |
८२ क
सञ्जय़ उवाच:
जानीते हि भवान्कर्णं वीर्यवन्तं पराक्रमे ||
८२ ख
सञ्जय़ उवाच:
तत्र याहि यतः कर्णो द्रावय़त्येष नो वलम् |
८४ क
सञ्जय़ उवाच:
वर्जय़ित्वा रणे याहि सूतपुत्रं महारथम् |
८४ ख
सञ्जय़ उवाच:
श्रमो मा वाधते कृष्ण यथा वा तव रोचते ||
८४ ग
सञ्जय़ उवाच:
एतच्छ्रुत्वा महाराज गोविन्दः प्रहसन्निव |
८५ क
सञ्जय़ उवाच:
अव्रवीदर्जुनं तूर्णं कौरवाञ्जहि पाण्डव ||
८५ ख
सञ्जय़ उवाच:
ततस्तव महत्सैन्यं गोविन्दप्रेरिता हय़ाः |
८६ क
सञ्जय़ उवाच:
हंसवर्णाः प्रविविशुर्वहन्तः कृष्णपाण्डवौ ||
८६ ख
सञ्जय़ उवाच:
केशवप्रहितैरश्वैः श्वेतैः काञ्चनभूषणैः |
८७ क
सञ्जय़ उवाच:
प्रविशद्भिस्तव वलं चतुर्दिशमभिद्यत ||
८७ ख
सञ्जय़ उवाच:
तौ विदार्य महासेनां प्रविष्टौ केशवार्जुनौ |
८८ क
सञ्जय़ उवाच:
क्रुद्धौ संरम्भरक्ताक्षौ व्यभ्राजेतां महाद्युती ||
८८ ख
सञ्जय़ उवाच:
युद्धशौण्डौ समाहूतावरिभिस्तौ रणाध्वरम् |
८९ क
सञ्जय़ उवाच:
यज्वभिर्विधिनाहूतौ मखे देवाविवाश्विनौ ||
८९ ख
सञ्जय़ उवाच:
क्रुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौ वभूवतुः |
९० क
सञ्जय़ उवाच:
तलशव्देन रुषितौ यथा नागौ महाहवे ||
९० ख
सञ्जय़ उवाच:
विगाहन्स रथानीकमश्वसङ्घांश्च फल्गुनः |
९१ क
सञ्जय़ उवाच:
व्यचरत्पृतनामध्ये पाशहस्त इवान्तकः ||
९१ ख
सञ्जय़ उवाच:
तं दृष्ट्वा युधि विक्रान्तं सेनाय़ां तव भारत |
९२ क
सञ्जय़ उवाच:
संशप्तकगणान्भूय़ः पुत्रस्ते समचोदय़त् ||
९२ ख
सञ्जय़ उवाच:
ततो रथसहस्रेण द्विरदानां त्रिभिः शतैः |
९३ क
सञ्जय़ उवाच:
चतुर्दशसहस्रैश्च तुरगाणां महाहवे ||
९३ ख
सञ्जय़ उवाच:
द्वाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम् |
९४ क
सञ्जय़ उवाच:
शूराणां नामलव्धानां विदितानां समन्ततः |
९४ ख
सञ्जय़ उवाच:
अभ्यवर्तन्त तौ वीरौ छादय़न्तो महारथाः ||
९४ ग
सञ्जय़ उवाच:
स छाद्यमानः समरे शरैः परवलार्दनः |
९५ क
सञ्जय़ उवाच:
दर्शय़न्रौद्रमात्मानं पाशहस्त इवान्तकः |
९५ ख
सञ्जय़ उवाच:
निघ्नन्संशप्तकान्पार्थः प्रेक्षणीय़तरोऽभवत् ||
९५ ग
सञ्जय़ उवाच:
ततो विद्युत्प्रभैर्वाणैः कार्तस्वरविभूषितैः |
९६ क
सञ्जय़ उवाच:
निरन्तरमिवाकाशमासीन्नुन्नैः किरीटिना ||
९६ ख
सञ्जय़ उवाच:
किरीटिभुजनिर्मुक्तैः सम्पतद्भिर्महाशरैः |
९७ क
सञ्जय़ उवाच:
समाच्छन्नं वभौ सर्वं काद्रवेय़ैरिव प्रभो ||
९७ ख
सञ्जय़ उवाच:
रुक्मपुङ्खान्प्रसन्नाग्राञ्शरान्संनतपर्वणः |
९८ क
सञ्जय़ उवाच:
अदर्शय़दमेय़ात्मा दिक्षु सर्वासु पाण्डवः ||
९८ ख
सञ्जय़ उवाच:
हत्वा दश सहस्राणि पार्थिवानां महारथः |
९९ क