chevron_left कर्ण पर्व अध्याय ४०
सञ्जय़ उवाच:
संशप्तकानां कौन्तेय़ः प्रपक्षं त्वरितोऽभ्ययात् ||
९९ ख
सञ्जय़ उवाच:
प्रपक्षं स समासाद्य पार्थः काम्वोजरक्षितम् |
१०० क
सञ्जय़ उवाच:
प्रममाथ वलाद्वाणैर्दानवानिव वासवः ||
१०० ख
सञ्जय़ उवाच:
प्रचिच्छेदाशु भल्लैश्च द्विषतामातताय़िनाम् |
१०१ क
सञ्जय़ उवाच:
शस्त्रपाणींस्तथा वाहूंस्तथापि च शिरांस्युत ||
१०१ ख
सञ्जय़ उवाच:
अङ्गाङ्गावय़वैश्छिन्नैर्व्याय़ुधास्तेऽपतन्क्षितौ |
१०२ क
सञ्जय़ उवाच:
विष्वग्वाताभिसम्भग्ना वहुशाखा इव द्रुमाः ||
१०२ ख
सञ्जय़ उवाच:
हस्त्यश्वरथपत्तीनां व्रातान्निघ्नन्तमर्जुनम् |
१०३ क
सञ्जय़ उवाच:
सुदक्षिणादवरजः शरवृष्ट्याभ्यवीवृषत् ||
१०३ ख
सञ्जय़ उवाच:
अस्यास्यतोऽर्धचन्द्राभ्यां स वाहू परिघोपमौ |
१०४ क
सञ्जय़ उवाच:
पूर्णचन्द्राभवक्त्रं च क्षुरेणाभ्यहनच्छिरः ||
१०४ ख
सञ्जय़ उवाच:
स पपात ततो वाहात्स्वलोहितपरिस्रवः |
१०५ क
सञ्जय़ उवाच:
मनःशिलागिरेः शृङ्गं वज्रेणेवावदारितम् ||
१०५ ख
सञ्जय़ उवाच:
सुदक्षिणादवरजं काम्वोजं ददृशुर्हतम् |
१०६ क
सञ्जय़ उवाच:
प्रांशुं कमलपत्राक्षमत्यर्थं प्रिय़दर्शनम् |
१०६ ख
सञ्जय़ उवाच:
काञ्चनस्तम्भसङ्काशं भिन्नं हेमगिरिं यथा ||
१०६ ग
सञ्जय़ उवाच:
ततोऽभवत्पुनर्युद्धं घोरमद्भुतदर्शनम् |
१०७ क
सञ्जय़ उवाच:
नानावस्थाश्च योधानां वभूवुस्तत्र युध्यताम् ||
१०७ ख
सञ्जय़ उवाच:
एतेष्वावर्जितैरश्वैः काम्वोजैर्यवनैः शकैः |
१०८ क
सञ्जय़ उवाच:
शोणिताक्तैस्तदा रक्तं सर्वमासीद्विशां पते ||
१०८ ख
सञ्जय़ उवाच:
रथै रथाश्वसूतैश्च हतारोहैश्च वाजिभिः |
१०९ क
सञ्जय़ उवाच:
द्विरदैश्च हतारोहैर्महामात्रैर्हतद्विपैः |
१०९ ख
सञ्जय़ उवाच:
अन्योन्येन महाराज कृतो घोरो जनक्षय़ः ||
१०९ ग
सञ्जय़ उवाच:
तस्मिन्प्रपक्षे पक्षे च वध्यमाने महात्मना |
११० क
सञ्जय़ उवाच:
अर्जुनं जय़तां श्रेष्ठं त्वरितो द्रौणिराय़यौ ||
११० ख
सञ्जय़ उवाच:
विधुन्वानो महच्चापं कार्तस्वरविभूषितम् |
१११ क
सञ्जय़ उवाच:
आददानः शरान्घोरान्स्वरश्मीनिव भास्करः ||
१११ ख
सञ्जय़ उवाच:
तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः |
११२ क
सञ्जय़ उवाच:
सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जय़ौ ||
११२ ख
सञ्जय़ उवाच:
ततः शरशतैस्तीक्ष्णैर्भारद्वाजः प्रतापवान् |
११३ क
सञ्जय़ उवाच:
निश्चेष्टौ तावुभौ चक्रे युद्धे माधवपाण्डवौ ||
११३ ख
सञ्जय़ उवाच:
हाहाकृतमभूत्सर्वं जङ्गमं स्थावरं तथा |
११४ क
सञ्जय़ उवाच:
चराचरस्य गोप्तारौ दृष्ट्वा सञ्छादितौ शरैः ||
११४ ख
सञ्जय़ उवाच:
सिद्धचारणसङ्घाश्च सम्पेतुर्वै समन्ततः |
११५ क
सञ्जय़ उवाच:
चिन्तय़न्तो भवेदद्य लोकानां स्वस्त्यपीत्यह ||
११५ ख
सञ्जय़ उवाच:
न मय़ा तादृशो राजन्दृष्टपूर्वः पराक्रमः |
११६ क
सञ्जय़ उवाच:
सञ्जज्ञे यादृशो द्रौणेः कृष्णौ सञ्छादय़िष्यतः ||
११६ ख
सञ्जय़ उवाच:
द्रौणेस्तु धनुषः शव्दमहितत्रासनं रणे |
११७ क
सञ्जय़ उवाच:
अश्रौषं वहुशो राजन्सिंहस्य नदतो यथा ||
११७ ख
सञ्जय़ उवाच:
ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः |
११८ क
सञ्जय़ उवाच:
विद्युदम्वुदमध्यस्था भ्राजमानेव साभवत् ||
११८ ख
सञ्जय़ उवाच:
स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः |
११९ क
सञ्जय़ उवाच:
संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः ||
११९ ख
सञ्जय़ उवाच:
स विक्रमं हृतं मेने आत्मनः सुमहात्मना |
१२० क
सञ्जय़ उवाच:
तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ||
१२० ख
सञ्जय़ उवाच:
द्रौणिपाण्डवय़ोरेवं वर्तमाने महारणे |
१२१ क
सञ्जय़ उवाच:
वर्धमाने च राजेन्द्र द्रोणपुत्रे महावले |
१२१ ख
सञ्जय़ उवाच:
हीय़माने च कौन्तेय़े कृष्णं रोषः समभ्ययात् ||
१२१ ग
सञ्जय़ उवाच:
स रोषान्निःश्वसन्राजन्निर्दहन्निव चक्षुषा |
१२२ क
सञ्जय़ उवाच:
द्रौणिं ह्यपश्यत्सङ्ग्रामे फल्गुनं च मुहुर्मुहुः ||
१२२ ख
सञ्जय़ उवाच:
ततः क्रुद्धोऽव्रवीत्कृष्णः पार्थं सप्रणय़ं तदा |
१२३ क
सञ्जय़ उवाच:
अत्यद्भुतमिदं पार्थ तव पश्यामि संय़ुगे |
१२३ ख
सञ्जय़ उवाच:
अतिशेते हि यत्र त्वा द्रोणपुत्रोऽद्य भारत ||
१२३ ग
सञ्जय़ उवाच:
कच्चित्ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन |
१२४ क
सञ्जय़ उवाच:
कच्चित्कुशलिनौ वाहू कच्चिद्वीर्यं तदेव ते ||
१२४ ख
सञ्जय़ उवाच:
एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश |
१२५ क
सञ्जय़ उवाच:
त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् |
१२५ ख
सञ्जय़ उवाच:
ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा ||
१२५ ग
सञ्जय़ उवाच:
जत्रुदेशे च सुभृशं वत्सदन्तैरताडय़त् |
१२६ क
सञ्जय़ उवाच:
स मूर्च्छां परमां गत्वा ध्वजय़ष्टिं समाश्रितः ||
१२६ ख
सञ्जय़ उवाच:
तं विसञ्ज्ञं महाराज किरीटिभय़पीडितम् |
१२७ क
सञ्जय़ उवाच:
अपोवाह रणात्सूतो रक्षमाणो धनञ्जय़ात् ||
१२७ ख
सञ्जय़ उवाच:
एतस्मिन्नेव काले तु विजय़ः शत्रुतापनः |
१२८ क
सञ्जय़ उवाच:
न्यवधीत्तावकं सैन्यं शतशोऽथ सहस्रशः |
१२८ ख
सञ्जय़ उवाच:
पश्यतस्तव पुत्रस्य तस्य वीरस्य भारत ||
१२८ ग
सञ्जय़ उवाच:
एवमेष क्षय़ो वृत्तस्तावकानां परैः सह |
१२९ क
सञ्जय़ उवाच:
क्रूरो विशसनो घोरो राजन्दुर्मन्त्रिते तव ||
१२९ ख
सञ्जय़ उवाच:
संशप्तकांश्च कौन्तेय़ः कुरूंश्चापि वृकोदरः |
१३० क
सञ्जय़ उवाच:
वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे ||
१३० ख