वैशम्पाय़न उवाच:
ततो निशाय़ां प्राप्ताय़ां कृतसाय़ाह्निकक्रिय़ाः |
१ क
वैशम्पाय़न उवाच:
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ||
१ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा |
२ क
वैशम्पाय़न उवाच:
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ||
२ ख
वैशम्पाय़न उवाच:
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् |
३ क
वैशम्पाय़न उवाच:
पौरजानपदश्चापि जनः सर्वो यथावय़ः ||
३ ख
वैशम्पाय़न उवाच:
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् |
४ क
वैशम्पाय़न उवाच:
अवगाह्याजुहावाथ सर्वाँल्लोकान्महामुनिः ||
४ ख
वैशम्पाय़न उवाच:
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः |
५ क
वैशम्पाय़न उवाच:
राजानश्च महाभागा नानादेशनिवासिनः ||
५ ख
वैशम्पाय़न उवाच:
ततः सुतुमुलः शव्दो जलान्तर्जनमेजय़ |
६ क
वैशम्पाय़न उवाच:
प्रादुरासीद्यथा पूर्वं कुरुपाण्डवसेनय़ोः ||
६ ख
वैशम्पाय़न उवाच:
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः |
७ क
वैशम्पाय़न उवाच:
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ||
७ ख
वैशम्पाय़न उवाच:
विराटद्रुपदौ चोभौ सपुत्रौ सहसैनिकौ |
८ क
वैशम्पाय़न उवाच:
द्रौपदेय़ाश्च सौभद्रो राक्षसश्च घटोत्कचः ||
८ ख
वैशम्पाय़न उवाच:
कर्णदुर्योधनौ चोभौ शकुनिश्च महारथः |
९ क
वैशम्पाय़न उवाच:
दुःशासनादय़श्चैव धार्तराष्ट्रा महारथाः ||
९ ख
वैशम्पाय़न उवाच:
जारासन्धिर्भगदत्तो जलसन्धश्च पार्थिवः |
१० क
वैशम्पाय़न उवाच:
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ||
१० ख
वैशम्पाय़न उवाच:
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्य चात्मजाः |
११ क
वैशम्पाय़न उवाच:
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुजः ||
११ ख
वैशम्पाय़न उवाच:
अचलो वृषकश्चैव राक्षसश्चाप्यलाय़ुधः |
१२ क
वैशम्पाय़न उवाच:
वाह्लीकः सोमदत्तश्च चेकितानश्च पार्थिवः ||
१२ ख
वैशम्पाय़न उवाच:
एते चान्ये च वहवो वहुत्वाद्ये न कीर्तिताः |
१३ क
वैशम्पाय़न उवाच:
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ||
१३ ख
वैशम्पाय़न उवाच:
यस्य वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् |
१४ क
वैशम्पाय़न उवाच:
तेन तेन व्यदृश्यन्त समुपेता नराधिपाः ||
१४ ख
वैशम्पाय़न उवाच:
दिव्याम्वरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः |
१५ क
वैशम्पाय़न उवाच:
निर्वैरा निरहङ्कारा विगतक्रोधमन्यवः ||
१५ ख
वैशम्पाय़न उवाच:
गन्धर्वैरुपगीय़न्तः स्तूय़मानाश्च वन्दिभिः |
१६ क
वैशम्पाय़न उवाच:
दिव्यमाल्याम्वरधरा वृताश्चाप्सरसां गणैः ||
१६ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप |
१७ क
वैशम्पाय़न उवाच:
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोवलात् ||
१७ ख
वैशम्पाय़न उवाच:
दिव्यज्ञानवलोपेता गान्धारी च यशस्विनी |
१८ क
वैशम्पाय़न उवाच:
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि रणे हताः ||
१८ ख
वैशम्पाय़न उवाच:
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षणम् |
१९ क
वैशम्पाय़न उवाच:
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ||
१९ ख
वैशम्पाय़न उवाच:
तदुत्सवमदोदग्रं हृष्टनारीनराकुलम् |
२० क
वैशम्पाय़न उवाच:
ददृशे वलमाय़ान्तं चित्रं पटगतं यथा ||
२० ख
वैशम्पाय़न उवाच:
धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा |
२१ क
वैशम्पाय़न उवाच:
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ||
२१ ख